। ॥ ४।२४।१ ॥
स इति । बाष्पपूर्णेन मुखेन उपलक्षिताम्, तारामिति शेषः ॥ ४।२४।२,३ ॥
यथेति । दृष्टफलं दृष्टराज्यफलं कर्म कृतम् ॥ ४।२४।४ ॥
अस्यामिति । संशयिते पितुर्मरणदुःखेन जीवति वा नवेति संशयविषयभूते ॥ ४।२४।५ ॥
भ्रातेति । राज्यस्य दुखस्य च सारं न चिन्तयन् भ्रातृवधात् प्राप्तस्य राज्यस्य भ्रातृवधजनितदुःखस्य चोत्कर्षं न चिन्तयन्, उभयोस्तारतम्यं न चिन्तयन्नित्यर्थः ॥ ४।२४।९ ॥
मे मम । वधः मतः सम्मतः नासीत्, वालिन इति शेषः । स्वमाहात्म्याव्यतिक्रमात् स्वमाहात्म्यानुल्लङ्घनात् । मम बुद्धिदौरात्म्यात् बुद्धिमोहात् । प्राणहानिव्यतिक्रमः वालिवधरूपः अन्यायः आसीदित्यर्थः ॥ ४।२४।१० ॥
द्रुमेति । परिनिष्टनन् आर्तरवं मुञ्चन्नहं न पुनः कर्तुमर्हसीत्यनेन वालिना उक्त इति सम्बन्धः ॥ ४।२४।११,१२ ॥
अचिन्तनीयमिति । अचिन्तनीयं पापचित्तैरपि चिन्तयितुमयोग्यम् । परिवर्जनीयं पापकारिभिरपि दूरतस्त्याज्यम् । अनीप्सनीयं पापरुचिभिरप्यनाकाङ्क्षितव्यम् । स्वनवेक्षणीयं पापदर्शिभिरप्यदर्शनीयम् । त्वाष्ट्रवधात् त्वष्टृपुत्रविश्वरूपवधात् ॥ ४।२४।१३ ॥
“प्रतिहर्तुमिच्छेत्” इति पाठः । परिहर्तुं को वा इच्छेत् को वा सहेतेति सम्बन्धः ॥ ४।२४।१४ ॥
नार्हामीति । एवंविधं कर्म भ्रातृवधरूपं कृत्वा स्थितः, अहमिति शेषः । प्रजानां सम्मानं प्रति नार्हामि यौवराज्यं प्रति नार्हामि, कुतो राज्यं प्रत्यर्हामीति योजना ॥ ४।२४।१५ ॥
पापस्येति । इवशब्दस्तथार्थे । वृष्टेरम्बुवेगो यथा तथा महान् शोको मामनुवर्तते ॥ ४।२४।१६ ॥
ननु पुराकृतसुकृतलब्धविवेकधैर्यादिना शोकः सोढव्य इत्यत आह अंह इति । हे नृवर राघव मे हृदि स्थितं साधुवृत्तं विवेकधैर्यरूपं साधुवृत्तं कर्तृ इदमंहः भ्रातृवधजनितं पापफलरूपं कर्म असोढ्वा निवर्तते । कथमिव? विवर्णमत एवाग्नौ परितप्यमानं जातरूपं सुवर्णं किट्टम् ऋजीषांशम् मलमिति यावत् । अविषह्य पृथक्कृत्य यथा निवर्तते तथा अनेनाहंसा सह वर्तमानं मम हृदि यत्किञ्चित्पूर्वकृतं साधुवृत्तमस्ति तन्न तिष्ठति यथा अग्नौ तप्यमानं काञ्चनं किट्टेन सह न तिष्ठति तद्वदित्यर्थः ॥ ४।२४।१८ ॥
महाबलानामिति । अपि चेति समुच्चयः पूर्वश्लोकोक्तदोषापेक्षया । मन्निमित्तं मत्तो निमित्तात् अस्याङ्गदस्य शोकतापात् महाबलानां हरियूथपानां परिदृश्यमानं कुलं यूथम् अर्धस्थितप्राणमिव भवतीति मन्ये ॥ ४।२४।१९ ॥
तस्मिन्निति । तस्मिन् क्षणे तस्मिन्नवसरे । समुत्सुकः शोकापनयनसमुत्सुकः ॥ ४।२४।२५२७ ॥
सुसंवृतमिति । सा विस्फुरन्ती व्यपनीयमाना तारा उक्तविशेषणविशिष्टं तम् अयं स काकुत्स्थः अङ्गदवाक्यादवगतः काकुत्स्थ इति प्रजज्ञ इति सम्बन्धः ॥ ४।२४।२८,२९ ॥
सेति । रणोत्कर्षणलब्धलक्ष्यं रणे उत्कर्षणमुत्कर्षो येषां ते तथोक्ताः तैः प्रथमगणनायां वीराग्रणीरिति लक्ष्यत्वेन लब्धमित्यर्थः । सम्भ्रान्तशरीरभावा सम्भ्रान्तौ विवशौ शरीरभावौ देहान्तःकरणे यस्यास्सा ॥ ४।२४।३०,३१ ॥
त्वमात्तेति । दिव्येन दिवि भवेन । देहाभ्युदयेन सौभाग्येन ॥ ४।२४।३२३४ ॥
नगेन्द्रस्य ऋश्यमूकस्य ॥ ४।२४।३५ ॥
तत् स्त्रीवियोगजदुःखम् ॥ ४।२४।३६ ॥
यच्चापीति सार्धश्लोकमेकं वाक्यम् । मह्यं स्त्रीघातदोषो भवेदिति भवान्न मन्येत । तस्य तव स्त्रीवधो न स्यात् । तत्र हेतुः आत्मेयमिति । अस्य वालिनः । इयं तारा । आत्मा “अर्धो वा एष आत्मनो यत्पत्नी” इति श्रुतेः । मद्वधस्य वालिवध एवान्तर्भावान्न तव स्त्रीवधदोषशङ्केति भावः ॥ ४।२४।३७ ॥
न केवलं दोषाभावः, अपि तु पुण्यमप्यस्तीत्याह दारप्रदानादिति ॥ ४।२४।३८४१ ॥
मा वीरेत्यादि । विमतिं जीवितुं न शक्ष्यामि इति विरुद्धां मतिम् । सर्वो लोकः सर्वो ऽपि जनः । विधात्रा विहितः ब्रह्मणा निर्मितो हि । तेन विधात्रा कृतं सर्वं च । सुखदुःखयोगमेव सुखदुःखयुक्तमेव । लोको मन्वादिरब्रवीदिति योजना ॥ ४।२४।४२ ॥
त्रयो ऽपीति । लोकाः लोकत्रयवासिनो जनाः । विहितं विधानम् । कल्पितं प्रकारम् । तस्य वशगाः विधेर्वशगाः नातिक्रमन्ते । ब्रह्मादयो ऽपि विधिकल्पितप्रकारमुल्लङ्घितुं न शक्नुवन्ति किमुत मर्त्यादय इति भावः । ममाज्ञाकरणेन फलमस्तीत्याह प्रीतिमिति । जीवति वालिनि यादृशी प्रीतिस्तादृशीमित्यर्थः ॥ ४।२४।४३ ॥
आश्वासितेति । ध्वनता मुखेनोपलक्षिता ॥ ४।२४।४४ ॥
इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां किष्किन्धाकाण्डव्याख्यायां चतुर्विंशः सर्गः ॥ २४ ॥