०२३ ताराशोकः

तत इति । लोकाच्च्युतम् अस्माल्लोकाद्विभ्रश्य लोकान्तरं प्राप्तमित्यर्थः । बन्धुजनाद्वियुक्तमिति वा ॥ ४।२३।१ ॥

शेष इति । दुःखं यथा तथा सुदुःखे सुतरां दुःखकरे ॥ ४।२३।२,३ ॥

इदमिति । युधि हतो यत्र शेषे, पुरा त्वया निहता रिपवो यत्र शायिताः तदिदं वीरशयनमिति योजना । युद्धपरायणस्य तव युद्धेनैव मरणं प्राप्तमिति भावः ॥ ४।२३।६८ ॥

अवभग्न इति । शाश्वती गतिः, गम्यत इति गतिरिति व्युत्पत्त्या प्राप्यभूतपतिशुश्रूषोच्यते । मानः त्वत्कलत्रमहमित्येवंरूपः ॥ ४।२३।९,१० ॥

हृदयभेदने हेतुमाह सुहृदिति ॥ ४।२३।११ ॥

पतिरहितेपि पुत्रिण्या त्वया एतादृशशोको न कार्य इत्यत आह पतिहीनेति ॥ ४।२३।१२ ॥

कृमिरागो लाक्षारञ्जितः परिस्तोमः कुथो यस्मिन् तत्तथा । “किमिरागं वदन्त्यार्या लाक्षिकं प्रियदर्शनम्” इत्युत्पलमाला । यद्वा कृमेः इन्द्रगोपस्य राग इव रागो यस्य सः कृमिरागः, परिस्तोमो यस्मिन् शयने तत्तथा ॥ ४।२३।१३,१४ ॥

यस्य सुग्रीवस्य । अस्मिन्नतिदारुणे वैरे सति, वालिना सहेति शेषः । रामविमुक्तेनैकेषुणा भयं हृतं सः अद्य कृतकृत्य इति योजना ॥ ४।२३।१५ ॥

त्वयि पञ्चत्वमागते सति त्वां निरीक्षन्त्यहं तव संस्पर्शने विषये हृदि लग्नेन शरेण वार्यामि वारितास्मीत्यन्वयः ॥ ४।२३।१६,१७ ॥

तस्येति । निष्कृष्यमाणस्य तस्य बाणस्य द्युतिः, अस्तमस्तकसंरुद्धः अस्ताद्रिशिखरसंरुद्धो दिनकरादुद्गच्छन् रश्मिरिव बभौ ॥ ४।२३।१८ ॥

पेतुरिति । शरपादपशिलाजनितव्रणापेक्षया व्रणेभ्य इति बहुवचनप्रयोगः ॥ ४।२३।१९२१ ॥

अवस्थामिति । पापकर्मणा पापरूपकर्मणा । सम्प्रसक्तस्य प्राप्तस्य वैरस्यान्तो गतः वैरं समाप्तमित्यर्थः ॥ ४।२३।२२२८ ॥

राजश्रीरिति । शैलराजं मेरुम् । आवर्तमानस्य प्रदक्षिणं कुर्वतः । अवर्तमानस्य इति च छेदः । अदृश्यस्येत्यर्थः ॥ ४।२३।२९,३० ॥

इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां किष्किन्धाकाण्डव्याख्यायां त्रयोविंशः सर्गः ॥ २३ ॥