वीक्षमाण इति । सर्वतो वीक्षमाण इत्यादिना वालिजीवस्य प्रतीयमानत्वेप्यमोघरामबाणघातेन मरणस्य निश्चितत्वात् पूर्वसर्गे “संस्कार्यो हरिराजः” इति हनुमदुक्तेर्न दोषः ॥ ४।२२।१ ॥
तमिति । आभाष्य सम्बोध्य ॥ ४।२२।२ ॥
सुग्रीवेति । किल्बिषात् राज्यविवासनदारापहरणकिल्बिषाद्धेतोः मां दोषेण गन्तुं दोषसहितं ज्ञातुं नार्हसि, किन्तु भविष्येण भाविफलेन हेतुना जातेन बुद्धिमोहेन बलात्कृष्यमाणं मां ज्ञातुमर्हसीति सम्बन्धः ॥ ४।२२।३ ॥
मन्य इत्येतदव्ययम् । यः आवयोः भ्रातृसौहार्दं भ्रातृत्वप्रयुक्तं सुखं राज्यसुखं च तदुभयं दैवेन युगपन्न विहितं मन्ये ध्रुवम्, तदिदं दैवकृतं युगपदविधानम् अन्यथा नहि अन्यप्रकारं न भवति हीति ॥ ४।२२।४,५ ॥
जीवितमिति । अगर्हितं यशः वाली केनाप्यवध्यो ऽप्रधृष्यश्चेति प्रसिद्धं यशः ॥ ४।२२।६,७ ॥
सुषेणेति । अर्थसूक्ष्मविनिश्चये दुर्जयकार्यनिश्चय इत्यर्थः । औत्पातिके उत्पातोद्भवज्ञान इत्यर्थः । सर्वतः परिनिष्ठिता सर्वत्र चतुरेत्यर्थः । यदेषेति ॥ ४।२२।१२१५ ॥
इत्येवमिति । दीनः अभूदिति शेषः ॥ ४।२२।१६ ॥
तदिति । तत् तदनन्तरम् । शान्तः त्यक्तवैरः ॥ ४।२२।१७ ॥
प्रेत्यभावाय संसिद्धः निश्चितमरण इत्यर्थः ॥ ४।२२।१८ ॥
प्रियाप्रियौ अनुकूलप्रतिकूलव्यापारौ ॥ ४।२२।१९,२० ॥
अस्य सुग्रीवस्य अमित्रैर्गतं संसृष्टं पुरुषं मा गच्छ, शत्रुभिश्च सह मा गच्छ । अस्य अमित्रानमित्रसम्बन्धिनश्च वर्जयेत्यर्थः ॥ ४।२२।२१ ॥
न चेति । अन्तरदृग्भव मध्यमभावमवलम्बस्वेत्यर्थः । यद्वा उपदेश्यं रहस्यमाह न चेति । अवसरज्ञानपुरःसरं मध्यमभावमवलम्बस्वेत्यर्थः ॥ ४।२२।२२२५ ॥
यस्येति । यस्य महता वेगेन काननानि निबिडारण्यानि, वनानि विरलारण्यानि पुष्पौघैः सह अनुबध्यन्ते अनुबद्धानि क्रियन्ते, तदद्य कः करिष्यति? लघुतरपुष्पौघैस्सह गुरुतरारण्यवनानां स्वानुगमनमिदानीं को वा करिष्यतीत्यर्थः ॥ ४।२२।२६ ॥
गोलभस्य गोलभाख्यस्य । उपशाम्यति । भूते लट् ॥ ४।२२।२७ ॥
षोडशे षोडशतमे ॥ ४।२२।२८ ॥
तं हत्वेति । दंष्ट्राकरालवान् करालदंष्ट्रावानित्यर्थः ॥ ४।२२।२९३१ ॥
इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां किष्किन्धाकाण्डव्याख्यायां द्वाविंशः सर्गः ॥ २२ ॥