। ॥ ४।२१।१ ॥
गुणदोषकृतमिति । जन्तुः स्वकर्मफलहेतुकं स्वक्रर्मफलं वासना परम्परया हेतुः यस्य तथोक्तम् गुणदोषकृतं ज्ञानाज्ञानाभ्यां यत्कर्मास्ति तत् । तदित्यविभक्तिकनिर्देशो ऽयम्, तस्य शुभाशुभं फलभूतं सुखदुःखं प्रेत्य अव्यग्रः अवाप्नोत्येवेति योजना ॥ ४।२१।२ ॥
शोच्येति । दीनमित्यत्रापि कमिति सम्बध्यते । अनुशोकः अनुबन्धशोकः । सर्वप्राणिशरीराणामनित्यतया सर्वेषां शोच्यत्वेन न कुत्रापि शोकः कार्य इत्याह न शोच्येति ॥ ४।२१।३ ॥
अङ्गदस्त्विति । आयत्याम् उत्तरकाले । विधेयानि कर्तव्यानि । समर्थानि सप्रयोजकानि । अस्य अङ्गदस्य ॥ ४।२१।४ ॥
पण्डिते इति सम्बुद्ध्यन्तमेतत् । शुभम् और्ध्वदैहिकं हि कर्तव्यम् । ऐहलौकिकं न कर्तव्यम् । यस्मिन् वर्तयन्ति जीवनं कुर्वन्ति । कृतांशानि कृतविभागानि । दिष्टान्तं परिकल्पितकालन्तम्, मरणमित्यर्थः ॥ ४।२१।५,६ ॥
न्यायदृष्टार्थः न्यायेन नीतिमार्गेण दृष्टार्थः दृष्टप्रयोजन इत्यर्थ । धर्मजितां वशीकृतधर्माणां भूमिं स्थानम् ॥ ४।२१।७ ॥
त्वत्सनाथं त्वया सनाथम् ॥ ४।२१।८ ॥
ताविमाविति । तौ इमौ हरिशार्दूलम् अङ्गदम् प्रेरय निवर्तय । दुःखादिति शेषः ॥ ४।२१।९ ॥
सन्ततिश्च यथा दृष्टा यत्प्रयोजनसन्तानो लब्ध इत्यर्थः । यत्कृत्यं साम्प्रतं योग्यम् तत्सर्वं राज्ञः क्रियताम् । एष निश्चयः कर्तव्यत्वेन विहितो ऽयं निश्चयः । कालस्य वर्तमानस्य सम्बन्धीत्यर्थः ॥ ४।२१।१० ॥
सन्ततिरित्याद्युक्तमेव स्पुटयति संस्कार्य इति ॥ ४।२१।११ ॥
पतिव्रताधर्ममनुसृत्याह सा तस्येति ॥ ४।२१।१२ ॥
अङ्गदेति । पुत्राणामेकतश्शतम् एकं शतम्, भवत्विति शेषः । तदपेक्षया अस्य गात्रसंश्लेषणं वरमित्यर्थः ॥ ४।२१।१३ ॥
वानरराज्याङ्गदयोरनाथत्वात्त्वया स्थातव्यमित्यत आह न चेति । कस्तर्हि नाथ इत्यत आह पितृव्य इति । अनन्तरः प्रत्यासन्नः ॥ ४।२१।१४ ॥
एषा बुद्धिः अङ्गदाभिलाषिका बुद्धिः नास्थेया न स्मरणीया । पिता सुग्रीवः ॥ ४।२१।१५ ॥
स्वनिश्चयं निगमयति नहीति ॥ ४।२१।१६ ॥
इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां किष्किन्धाकाण्डव्याख्यायाम् एेकविंशः सर्गः ॥ २१ ॥