०२० ताराविलापः

रामेति । तारा उच्चैःस्वरा । अतो न पुनरुक्तिः ॥ ४।२०।१,२ ॥

अपुरोभागां दोषदर्शनरहिताम्, अनपराधामिति यावत् ॥ ४।२०।३५ ॥

तारा वसुधामात्मनो ऽपि प्रियतमां कान्तामभिधाय युद्धभूमौ भोगस्थानगतां पुरीमुत्पेक्षते व्यक्तमिति । हे वीर धर्मतः सम्प्रवर्तता धर्मेण युद्धमाचरता त्वया । परस्मैपदमार्षम् । स्वर्गमार्गे वीरस्वर्गसाधनभूतरणभूमौ किष्कन्धेव अन्या रम्या पुरी विनिर्मिता । व्यक्तं नूनम् । नो चेत् त्वं कथमत्र शेष इति भावः ॥ ४।२०।६ ॥

यानीति । द्वितीयस्त्वयाशब्दः उपरमः कृत इत्यनेन सम्बध्यते ॥ ४।२०।७,८ ॥

सुग्रीवस्येति । सुग्रीवस्य भार्या त्वया हृता स विवासितश्चेति यत्कर्मास्ति तस्येयं व्युष्टिः फलं प्राप्तेति योजना । “व्युष्टिः फले समृद्धौ च” इत्यमरः ॥ ४।२०।१० ॥

अदुःखोपचिता दुःखरहितेत्यर्थः ॥ ४।२०।१४ ॥

मे मया लालितः ॥ ४।२०।१५ ॥

पुत्रं प्रत्याह कुरुष्वेति । पितरं सुदृष्टं कुरुष्व, पितरं सम्यक्पश्येत्यर्थः ॥ ४।२०।१६ ॥

वालिनं प्रत्याह समाश्वासयेति । यतः प्रवासं प्रस्थितो ऽसि, अतः मूर्ध्नि उपाघ्राय पुत्रं समाश्वासय, सन्देशं सन्दिशस्वेति सम्बन्धः । सन्देशं सन्देश्यम् । प्रवासं दीर्घवासम् ॥ ४।२०।१७ ॥

सुग्रीवस्य प्रतिश्रवे प्रतिज्ञाविषये । आनृण्यम् अनृणत्वम् ॥ ४।२०।१८ ॥

सकाम इति । शस्तः हिंसितः ॥ ४।२०।१९२१ ॥

किमङ्गदमिति । साङ्गदवीरबाहो साङ्गदौ वीरौ वीर्यवन्तौ बाहू यस्य स तथोक्तः । गुणसन्निकृष्टं गुणैः प्रत्यासन्नम् । स्वगुणैस्तव सदृशमित्यर्थः ॥ ४।२०।२२२४ ॥

तथा त्वति । प्रायमुपोपवेष्टुं प्रायोपवेशं कर्तुम्, अनशनदीक्षां कर्तुमित्यर्थः । व्यवस्यत निश्चितवती ॥ ४।२०।२५ ॥

इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां किष्किन्धाकाण्डव्याख्यायां विंशः सर्गः ॥ २० ॥