०१९ तारागमनम्

। ॥ ४।१९।१ ॥

मुमोह मुमूर्च्छ ॥ ४।१९।२,३ ॥

सेति । विविधात् विचित्रान्तःप्रदेशात् ॥ ४।१९।४६ ॥

तानिति । इषुभिः अनुबद्धानिव इषुभिः प्रोतानिव ॥ ४।१९।७,८ ॥

राज्यहेतोरित्यत्र एकेनैव बाणेन वालिहनने सत्यपि वालिविषये बहुबाणप्रयोगसम्भावनया मार्गणैरिति बहुवचननिर्देशः ॥ ४।१९।९ ॥

कपिपत्न्या इति । अविश्लिष्टम् ऐकरूप्यम् ॥ ४।१९।१०१२ ॥

अभिद्रुतमिति । अभिद्रुतं किष्किन्धाभिमुख्येन द्रुतम् । विद्रुतं विधावितम् । प्रसृतं प्रकीर्णम् ॥ ४।१९।१३,१४ ॥

अथवेति । ते तव । इह किष्किन्धायाम् । स्थानम् अवस्थानम् । अरुचितम् अनभिमतम् । हि यस्मात्कारणात् । वानराः शत्रुभूताः दुर्गाणि किष्किन्धादुष्प्रवेशस्थलानि आविशन्ति आक्रमिष्यन्ति ॥ ४।१९।१५ ॥

अत्रावस्थाने भयमवश्यं भावीति प्रतिपादयन्ति अभार्या इति । अभार्याः भार्याविरहिताः, सभार्याश्च वालिना विप्रकृता ये वनचारिणः सन्ति तेभ्यः विप्रयुक्तेभ्यो लुब्धेभ्यः स्वेब्यः सुग्रीवादिज्ञातिभ्यः नः अस्माकम् अत्र किष्किन्धावस्थाने तुमुलं भयं भवतीति योजना ॥ ४।१९।१६ ॥

अल्पेति । अल्पान्तरगतानां नातिदूरवर्तिनाम् आत्मनः प्रतिरूपम् आत्मानुरूपम् । अल्पान्तरगतानां नातिदूरवर्तिनाम् एवं भयेन किञ्चिद्भेदं प्राप्तानामिति वा ॥ ४।१९।१७२१ ॥

क्षेप्तारमिति । वज्राणामिति किङ्करवज्रादिभेदविवक्षया बहुवचननिर्देशः, महावातसमाविष्टम् । भावे निष्ठा । महावातस्येव समाविष्टं समावेशनं यस्य स तथोक्तः तम् । युद्धे महावातसदृशवेगमित्यर्थः । नर्दन्तमिति । नर्दतां मध्ये भीमं नर्दन्तम् । शार्दूलेन सिंहेन । “सिंहो मृगेन्द्रः पञ्चास्यो हर्यक्षः श्वेतपिङ्गलः । व्यादीर्णास्यो महानादः शार्दूलः” इति वैजयन्ती । अर्चितमिति । सर्वलोकस्य सर्वलोकेन चैत्यमुन्मथितं यथा गरुडेन कालियप्रहरणवेलायां बलि स्थानचैत्यमप्युन्मथितमित्यवगन्तव्यम् ॥ ४।१९।२२२६ ॥

सन्दितं बद्धम् ॥ ४।१९।२७ ॥

कुररी शारिका ॥ ४।१९।२८ ॥

इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां किष्किन्धाकाण्डव्याख्यायाम् एकोनविंशः सर्गः ॥ १९ ॥