इत्युक्त इत्यादि । वालिना रामः परुषमुक्तः अधिक्षिप्त इत्यादेरयमाशयः यद्यपि वालिनो वाणी राममस्तौषीत् तथा ऽपि वाली तं रामं परुषमुक्तवानिति कृत्वा वालिना रामः परुषमुक्तः अधिक्षिप्त इत्याद्युक्तिः । अत एव श्रीरामो ऽपि वालिपरुषोक्तिमनुसृत्यैव उत्तरं वक्ति धर्ममर्थं च कामं चेत्यादिना । इत्युक्त इति रामो वालिना परुषं वाक्यमुक्त इति सम्बन्धः ॥ ४।१८।१ ॥
तं निष्प्रभमित्यादि श्लोकद्वयमेकं वाक्यम् । अधिक्षिप्तो रामः धर्मार्थगुणसम्पन्नमनुत्तमं यथा भवति तथा वालिनमब्रवीदिति सम्बन्धः ॥ ४।१८।२,३ ॥
धर्ममिति । समयम् आचारम् ॥ ४।१८।४,५ ॥
इक्ष्वाकूणामिति । निग्रहानुग्रहावपि इक्ष्वाकूणामेवेत्यर्थः ॥ ४।१८।६,७ ॥
नयश्च विनयश्चोभौ सत्यं च यथादृष्टः शास्त्रदृष्टः विक्रमश्च एतत्सर्वं यस्मिन् सुस्थितम् । देश कालविभागवित् स भरतो राजेति योजना ॥ ४।१८।८ ॥
धर्मकृतादेशाः धर्म इत्यधर्मस्याप्युपलक्षणम् । धर्माधर्मकृन्मितयोगाः, धर्माधर्मविचारणार्थं नियुक्ता इत्यर्थः । धर्मकृतादेशादिति च पाठः । धर्मसन्तानं धर्मपरम्पराम् ॥ ४।१८।९ ॥
धर्मनिग्रहं धर्मनाशनम् ॥ ४।१८।१०,११ ॥
अस्त्वेवम्, मया किमपराद्धमित्यत आह त्वमिति ॥ ४।१८।१२,१३ ॥
यवीयानिति । धर्मः कारणं व्यवस्थापकं प्रमाणम् ॥ ४।१८।१४ ॥
हे प्लवङ्गम सर्वभूतानां हृदिस्थः आत्मा परमात्मा । शुभाशुभं शुभाशुभहेतुधर्माधर्मम् । वेद वेत्ति न तु त्वादृश इत्यर्थः । सूक्ष्मो धर्मः सतामपि परमदुर्ज्ञेयः तादृशस्य किमुतेति भावः ॥ ४।१८।१५ ॥
वालिनो धर्मपरिज्ञानाभावे हेतुमाह चपल इति ॥ ४।१८।१६ ॥
अहमित्यादि । अस्य वचनस्य “यवीयानात्मनः पुत्रः” इति पूर्वोक्तवचनस्यार्थं व्यक्तं ब्रवीमीत्यर्थः ॥ ४।१८।१७,१८ ॥
ननु भ्रातृभार्यावमर्शनं सुग्रीवस्यापि समानमित्याशङ्क्य सुग्रीवो मायाविना बिलान्तर्गतयुद्धेन त्वन्मरणं निश्चित्य तारायामवर्तिष्ट, त्वं तु तज्जीवनं ज्ञात्वा ऽपि रुमायां वर्तस इति वैषम्यमस्तीत्याह अस्य त्वमिति । धरमाणस्य प्राणान् धारयतः । चरमाणस्येति पाठे जीवत इत्यर्थः । वालिनो बिलनिर्गमनात्पूर्वं सुग्रीवस्य तारापरिग्रहो ऽस्तीति “भ्रातुर्ज्येष्ठस्य यो भार्यां जीवतो महिषीं प्रियाम् । धर्मेण मातरं यस्तु स्वीकारोति जुगुप्सितः ।” इति प्रायोपवेशनसमयोक्ताङ्गदवाक्यादवगम्यते ॥ ४।१८।१९२२ ॥
औरसीमिति । प्रचरेत् गच्छेत् तस्य वध एव दण्डः स्मृत इति सम्बन्धः ॥ ४।१८।२३,२४ ॥
धर्मव्यतिक्रान्तं धर्मव्यतिक्रमणं कृतवन्तं पालयन् परामृशन् ॥ ४।१८।२५ ॥
वयमिति । भरतादेशविधिं भरताज्ञाकरणम् “औरसीं भगिनीं वा ऽपि भार्यां वाप्यनुजस्य यः । प्रचरेत नरः कामात्तस्य दण्डो वधः स्मृतः” इत्युक्तप्रकारेणामार्गवर्तिनस्तव वधे दुष्टनिग्रहशिष्टपरिपालकसार्वभौमभरतस्याज्ञाकारिणो मम दोषो नास्तीति ॥ ४।१८।२६ ॥
एवं “इक्ष्वाकूणामियं भूमिः सशैलवनकानना” इत्यारभ्य “वयं तु भरतादेशविधिं कृत्वा हरीश्वर” इत्यन्तेन ग्रन्थसन्दर्भेण उक्त्वा सख्युस्सुग्रीवस्य प्रियकरणहेतुनापि त्वद्वधे मम दोषो नास्तीत्यभिप्रायेणाह सुग्रीवेणेति । दारराज्यनिमित्तं दारराज्ये निमित्ते यस्य तत् तथा सख्यम् आसीदिति शेषः । तत्किमर्थमत आह सः सुग्रीवः मे निश्श्रेयसकरः ॥ ४।१८।२७ ॥
किञ्च प्रतिज्ञा च कृतेत्याह प्रतिज्ञेति ॥ ४।१८।२८ ॥
तदिति । तस्मात्कारणसद्भावात् । एभिः कारणैः भ्रातृभार्याहरणभरताज्ञाकरणसुग्रीवसख्यकरणप्रतिज्ञाकरणरूपैरित्यर्थः । तव भ्रातृभार्यावमर्शकस्य तव यच्छासनं कृतम् तद्युक्तं शास्त्रविहितमिति भवाननुमन्यतामिति योजना ॥ ४।१८।२९,३० ॥
वयस्यस्यापीति । धर्ममेवानुपश्यतो वयस्यस्यापि सुग्रीवस्यापि कर्तव्यम्, मया प्रतिज्ञातत्वद्वधरूपकार्यमिति शेषः । धर्ममेवानुपश्यता त्वयापि तत्कार्यमात्मनिग्रहरूपं शक्यं प्रायश्चित्तत्वेनानुमन्तुं योग्यम् ॥ ४।१८।३१ ॥
श्रूयत इति । चारित्रवत्सलौ चारित्रैकतत्परौ ॥ ४।१८।३२ ॥
त्वद्वधस्य त्वत्कृतपापप्रायश्चित्तरूपत्वाद्व्यथा न कार्येत्याशयेनाह राजभिरित्यादिश्लोकद्वयेन । पापस्य पापकारिणः । किल्बिषं दुरितम् ॥ ४।१८।३३,३४ ॥
आर्येणेति । यथा त्वया पापं कर्म कृतं तथा श्रमणेन क्षपणेन पापे कृते ममार्येण मान्धात्रा तस्मिन् श्रमणे घोरं व्यसनं दण्डनम् । ईप्सितं काङ्क्षितम् । प्रयुक्तमिति यावत् ॥ ४।१८।३५ ॥
प्रमत्तैर्वसुधाधिपैर्हेतुभिः, अन्यैरपि जनैः पापं कृतम् । राजसु प्रमत्तेषु अन्ये ऽपि केचिदेवं पापं कृतवन्त इत्यर्थः । ते वसुधादिपाः पश्चात् धर्मपरामर्शवेलायं गतप्रमादास्सन्तः पापिनां प्रायश्चित्तं वधबन्धनादिकं कुर्वन्ति तेन प्रायश्चित्तकरणेन । तद्रजः तत्पापं शाम्यते । कुर्वन्ति शाम्यत इत्येतदुभयमपि भूतार्थे लट् ॥ ४।१८।३६ ॥
तदलमिति । स्ववशे न स्थिताः शास्त्रवश्या इत्यर्थः ॥ ४।१८।३७ ॥
सन्ध्योपासनराज्यपरिपालनादिकं नियमेनानुष्ठितवतो वालिनः शास्त्रवश्यत्वमवलम्ब्यैतत्सर्वमुक्तम् । इदानीं शाखामृगत्वमवलम्ब्याह श्रुणु चाप्यपरमित्यादि ॥ ४।१८।३८ ॥
“दृश्यमानस्तु युध्येथा मया यदि नृपात्मज । अद्य वैवस्वतं देवं पश्येस्त्वं निहतो मया । त्वया ऽदृश्येन तु रणे निहतो ऽहं दुरासदः ।” इति वालिना यदुक्तं तदुभयस्योत्तरमाह न मे तत्रेति । तत्र यमसदनप्रापणप्रच्छन्नवेधनोक्तिविषये मन्युर्नास्ति, शाखामृगस्य तवालक्ष्यत्वादिति भावः । मनस्तापश्च न, मृगविषये प्रच्छन्नवेधनस्य राज्ञां स्वभावतया दोषाभावादिति भावः । तदेवोपपादयति वागुराभिरित्यादिना । गूढैः कपटोपायैः ॥ ४।१८।३९४२ ॥
“नाविष्णुः पृथिवीपतिः” इति स्मरणाद्देवतारूपाणां राज्ञामधिक्षेपस्तव न युक्त इत्याशयेनाह दुर्लभस्तेत्यादिश्लोकद्वयेन ॥ ४।१८।४३४५ ॥
एवमुक्त इति । प्रव्यथितः अज्ञानाद्धर्मात्मानं त्वामधिक्षिप्तवानहमित्यनुतप्तः ॥ ४।१८।४६ ॥
यदिति । प्रकृष्टे श्रेष्ठे, सर्वज्ञ इत्यर्थः । अपकृष्टः किञ्चिञ्ज्ञः ॥ ४।१८।४७,४८ ॥
त्वमिति । दृष्टार्थश्चासौ तत्त्वज्ञश्च दृष्टार्थतत्त्वज्ञः । कार्यकारणसिद्धौ कार्यं दण्डनम्, कारणं तद्धेतुभूतं पापम् तयोः सिद्धौ परिज्ञाने बुद्धिरन्तःकरणम् । प्रसन्ना निर्मला, वैषम्यरहितेत्यर्थः ॥ ४।१८।४९ ॥
मामिति । अगतधर्माणं कृत्याकरणवन्तम्, व्यतिक्रान्तपुरस्कृतं पुरस्कृतव्यतिक्रान्तमकृत्यकारिणमित्यर्थः । वाचा परिपालय वक्ष्यमाणं तथा करिष्यामीति वाचा समाश्वासयेत्यर्थः ॥ ४।१८।५०५५ ॥
मद्दोषकृतदोषां सुग्रीवाय मत्कृतापराधेन कृतापराधाम् । अवस्थातुम् अवस्थापयितुम् ॥ ४।१८।५६६० ॥
व्यक्तदर्शनम् अभिव्यक्तसर्वेश्वरस्वरूपज्ञानम् ॥ ४।१८।६१,६२ ॥
न वयमिति । वयं भवता न चिन्त्याः न विचार्याः पराङ्मुखस्य वे वधं प्रच्छन्नं कृत्वा एष पापमार्जितवान् उत पुण्यमिति भवता न विचार्य इत्यर्थः । नाप्यात्मा चिन्त्यः भ्रातृभार्याहरणादिकं कृत्वा गतो ऽहं किं भविष्यामीति त्वञ्च त्वया न विचार्यः । कुतः? वयं भवद्विशेषेण भवतो विशेषेण धर्मतः धर्मे कृतनिश्चयाः अस्य वधः किं धर्म्यः, उताधर्म्यः? इति विशेषेण विचार्य धर्मे निश्चयं कृतवन्त इत्यर्थः । यद्वा भवद्विशेषेण भवदकृत्यविशेषेण हेतुना धर्मतः प्रायश्चित्तरूपधर्मे वयं कृतनिश्चयाः, अतो वयं भवता अचिन्त्याः अकृत्यं कृतवन्त इति न विचार्याः । नाप्यात्मा मम परलोकप्रतिबन्धकमस्तीति भवानपि न विचार्य इत्यर्थः । “राजभिर्धृतदण्डास्तु कृत्वा पापानि मानवाः । निर्मलाः स्वर्गमायान्ति सन्तः सुकृतिनो यथा । शासनाद्वा विमोक्षाद्वा स्तेनः स्तेयाद्विमुच्यते । राजा त्वशासन् पापस्य तदवाप्नोति किल्बिषम् ।” इति मनुवचनानुसारेणोभयोरपि दोषाभाव इति भावः ॥ ४।१८।६३ ॥
उक्तमेवार्थं विवृणोति दण्ड्य इति । कार्यकारणसिद्धार्थौ कार्यं दण्डनम्, कारणमपराधः, भावप्रधानो ऽयं निर्देशः । दण्ड्यत्वदण्डयितृत्वाभ्यां निष्पन्नप्रयोजनावित्यर्थः ॥ ४।१८।६४ ॥
तत् तस्मात्कारणात् । स्वां प्रकृतिं स्वकीयं परिशुद्धतास्वभावम् ॥ ४।१८।६५ ॥
त्यजेति । विधानं विधिः ॥ ४।१८।६६६९ ॥
इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां किष्किन्धाकाण्डव्याख्यायाम् अष्टादशः सर्गः ॥ १८ ॥