आरम्भणार्थो ऽयं सर्गादौ ततः शरेणेत्यादिपुनरनुवादः ॥ ४।१७।१५ ॥
स तयेति । सन्ध्यानुगतपर्यन्तः सन्ध्यारागानुसृतप्रान्तदेश इत्यर्थः । पयोधर इवाभवत् ॥ ४।१७।६,७ ॥
तदिति । स्वर्गमार्गः प्रभवत्यस्मादिति स्वर्गमार्गप्रभावनम् । आवहत् सम्पादयामास, वालिनो मुक्तिरभूदित्यर्थः ॥ ४।१७।८१२ ॥
प्रश्रितं मृदुपदम् । परुषं निष्ठुरार्थम् । तथा ऽपि धर्मसंहितम् अब्रवीत् ॥ ४।१७।१३,१४ ॥
पराङ्मुखेति । पराङ्मुखवधं कृत्वा पराङ्मुखस्य अन्येन युद्ध्यमानस्य मम वधं कृत्वेत्यर्थः । युद्धसंरम्भः युद्धपरवशः ॥ ४।१७।१५ ॥
समयज्ञः उचितानुचितसमयज्ञ इत्यर्थः । करुणवेदी विचारादिसामग्रीसमेतः सन् आश्रितान् रक्ष्यत्वेन वेत्तीति करुणवेदी ॥ ४।१७।१६ ॥
दमः इन्द्रियनिग्रहः । शमः चित्तप्रशान्तिः ॥ ४।१७।१७ ॥
अभिजनं वंशम् ॥ ४।१७।१८,१९ ॥
नेति । विनिहतात्मानं गूढात्मानम् । दर्मध्वजं धर्मलिङ्गमात्रधारिणम् ॥ ४।१७।२०,२१ ॥
विषये वेति श्लोकद्वयमेकं वाक्यम् । विषये देशे । यदा यस्मात्कारणात् नापकरोमि त्वां नावजाने च तस्मादकिल्बिषं मां कस्माद्धंसीति सम्बन्धः ॥ ४।१७।२२२५ ॥
रामेति । अभव्यः अविनीतः ॥ ४।१७।२६,२७ ॥
अपकारिषु दण्ड इत्युक्तम्, तादृशापकारित्वं मयि नास्तीत्यत्र हेतुमाह वयमिति । वयं वनचराः भवन्तः पुरचराः, मृगा वयं भवन्तो मनुष्याः, मूलफलाशना वयम् यूयं राजान्नभोजनाः, नरेश्वरस्त्वम् परिचारका वयम्, अतो वैरप्रसक्तिर्नास्तीति भावः ॥ ४।१७।२८,२९ ॥
न तेस्तीति । कामवृत्तस्सन् इन्द्रियैः कृष्यस इति सम्बन्धः ॥ ४।१७।३२,३३ ॥
राजहेति । सूचकः पिशुनः कदर्यः लुब्धः । गच्छन्ते गच्छन्ति ॥ ४।१७।३४,३५ ॥
पञ्च पञ्चनखाः भक्ष्याः पञ्चनखेषु पञ्चैव भक्ष्या इति नियमः । तानेव परिगणयति शल्यक इति । शल्यवान् शल्यः । अर्श आदित्वादच् । शल्य एव शल्यकः । शुक्तिकाकारशल्यावृतसर्वाङ्गो जन्तुविशेषः । श्वाविधः कण्टकाकारदीर्घरोमभिः श्वानं विध्यतीति श्वाविधः ॥ ४।१७।३७ ॥
चर्मेत । सो ऽहम् अभक्ष्यपञ्चनखान्तर्भूतो ऽहम् ॥ ४।१७।३८४० ॥
शठ इति । नैकृतिकः निकृत्या परापकारेण जीवतीति नैकृतिकः । क्षुद्रः क्षुद्रकर्मकारी । मिथ्याप्रश्रितमानसः मिथ्याप्रशान्तमानसः ॥ ४।१७।४१,४२ ॥
अशुभं चेति । चकारः किमित्यर्थे । किं वक्ष्यसे वक्ष्यसि ॥ ४।१७।४३४५ ॥
त्वयेति । अदृश्येनेति छेदः ॥ ४।१७।४६४८ ॥
न्यस्तामिति । श्वेतामश्वतरीमिव मधुकैटभाभ्यां पाताले निरुद्धां श्वेताश्वतरीरूपां श्रुतिं हयग्रीवो हरिर्यथा आजहार तद्वदानयेयमित्यर्थः ॥ ४।१७।४९ ॥
॥ x ॥ “तं दृष्ट्वा राघवं वाली लक्ष्मणं च महाबलम्” इत्यारभ्य सर्गसमाप्तिपर्यन्तस्य वास्तवार्थे ऽयमर्थः वाली श्रीरामनिष्ठुरभाषणे प्रवृत्तो ऽपि वालिवाणी श्रीराममीश्वरं मत्वा स्तौति दृष्ट्वेत्यादि । परुषं बाह्य दृष्ट्या परुषवत्प्रतीयमानम् । वस्तुतः, प्रश्रितं धर्मसंयुतम् अगर्वितं वाक्यमब्रवीदित्यन्वयः । तदेवाह पराङ्मुखेत्यादि । पराङ्मुखवधं पारङ्मुखस्य विषयलोलुपस्य मम वधं कृत्वा त्वया कोनु गुणः निर्वक्तुमशक्यः सद्गुणः प्राप्तः । यतः यस्मात्कारणात् युद्धसंरब्धो ऽहं त्वत्कृते निधनं गतः त्वत्कृते त्वन्निमित्तम्, त्वया निधनं गत इत्यर्थः । अतो मयापीति शेषः । सुगुणः प्राप्त इति योजना । “राजा त्वशासन् पापस्य तदवाप्नोति किल्बिषम्” इति वचनान्मद्दण्डनेन तत्परिहाररूपगुणस्त्वया प्राप्तः “राजभिर्धृतदण्डास्तु कृत्वा पापानि मानवाः । निर्मलाः स्वर्गमायान्ति सन्तः सुकृतिनो यथा ।” इति वचनान्मयापि निष्कल्मषत्वरूपगुणः प्राप्त इति भावः । मम सुग्रीवसख्यं श्रुत्वा ऽपि युद्धायागत्य मया किमर्थं हतोसीत्याशङ्क्य सुग्रीवहस्तवधान्मम दैवादुत्कृष्टमुक्तिकारणत्वद्धस्तवधो जात इत्याह कुलीन इत्यादिश्लोकपञ्चकेन । कुलीनत्वादीन् तव गुणान् श्रुत्वा शमदमादिराजधर्ममपि विचार्य तवाग्र्यमभिजनं च सम्प्रधार्य युद्धाय न गन्तव्यमिति तारया प्रतिषिद्धो ऽपि अन्येन संसक्तं वेद्धुं नार्हतीति तवादर्शने सति मे बुद्धिरुत्पन्ना बभूवेति कृत्वा सुग्रीवेण समागतः तथा ऽपि त्वं तु प्रमत्तं मां हतवान् । अतो मम त्वद्धस्तहननं मङ्गलं जातमित्यन्ते वाक्यशेषेण योजना । अत एव त्वामेवं मन्य इत्याह न त्वामित्यादिना । त्वां विनिहतात्मत्वधर्मध्वजत्वाधार्मिकत्वपापसमाचारत्वादिविशेषणविशिष्टं न जाने । किञ्च सतां वेषधरत्वादिविशेषणविशिष्टं च न जानामि, किन्तु अपहतपाप्मत्वादिगुणकमीश्वरमेव त्वां जानामीत्यर्थः । ननु अनपराधिनस्तव घातकस्य ममेश्वरत्वं दोषराहित्यं वा कुत इत्यत आह विषय इत्यादिना । त्वमप्यकिल्बिषं न हंसि । अहमपि ते विषये देशे पुरे वा यदा नापकरोमि अपकारं न कृतवान् त्वां न जाने च तथा ऽपि, फलमूलाशिनं वानरम् अप्रतियुद्ध्यन्तम् अन्येन समागतं मां हंसि तत्तस्मात् मयि दोषसद्भावादेवेत्यर्थः । किञ्च क्षत्रियकुले ऽवतीर्य लोकानुग्रहार्थं जगन्मर्यादां पालयतः परमकरुणाशालिनस्तव सुतरामन्यायाचरणं न सम्भविष्यतीत्याशयेनाह धर्मलिङ्गेत्यादिसार्धश्लोकेन । हे राम राजकुले जातः धर्मवानिति विश्रुतस्सन् अर्थं प्रयोजनमुद्दिश्य अभव्यस्सन् भव्यरूपेण परिधावसि किम्, क्रूरकर्मसमाचारः किम्? उभयमपि तव न घटत इति भावः । राजनीतौ विचार्यमाणायां मद्वधस्तव युक्त एवेत्याशयेनाह साम दानमिति । अपकारिषु पापिषु । वैरबुद्ध्या हतवन्तं मां कथमेवं स्तौषीत्याशङ्क्य विचार्यमाणे तव मम च वैरप्रसक्तिरेव नास्तीत्याशयेनाह वयमिति । कानि तर्हि वैरकारणानीत्याकाङ्क्षायामाह भूमिरिति । तव मम च एतादृशकारणानि न सन्तीति भावः । किञ्च नयश्चेति । नृपा अपि कामवृत्तयो न भवन्ति, किमुतेश्वरस्त्वमिति भावः । रागद्वेषादियुक्तस्येन्द्रियपरवशस्य मर्त्यस्य ममेश्वरत्वं कुत इत्याकाङ्क्षायां निर्गुणेश्वरत्वमेव प्रतिपादयति त्वामित्यादिश्लोकद्वयेन । तु किमर्थे । मनुजेश्वर मनुजश्चासावीश्वरश्चेति तथा, मनुष्यरूपेणावतीर्णेश्वर इत्यर्थः । कामप्रधानः कामस्य प्रधानः, निर्जितकाम इत्यर्थः । कोपनः, शत्रुसंहारविषय इति शेषः । तत्संहारार्थमनवस्थितस्तत्रतत्र सञ्चरमाणः । राजवृत्तैश्च सङ्कीर्णः, त्यक्तराजधर्म इत्यर्थः । वानप्रस्थधर्मयुक्तत्वादिति भावः । ते धर्मे सामान्यधर्मे ऽपि । अपचितिः पूजा, आदर इत्यर्थः । कास्ति? मनुष्याधिकारत्वाच्छास्त्रस्येति भावः । ते बुद्धिः अर्थे ऽपि नावस्थिता, लक्ष्मीपतित्वात् । अत एवैतादृशविशेषणविशिष्टः त्वं कामवृत्तस्सन् इन्द्रियैः कृष्यसे किम्? न कृष्यस एव । अत एव त्वमीश्वर इति भावः । तथाप्यनपराधित्वद्वधजनितदुष्कृतकर्माहं सतां किमुत्तरं वक्ष्यामीत्यत आह हत्वेति । बाणेन अनपराधिनं मां हत्वा दुष्कृतं कर्म कृत्वा सतां मध्ये वक्ष्यसि किम्? किन्तु अनपराधिनमेव मां हत्वा अत एव सुकृतं कृत्वा सतां मध्ये वक्ष्यसीत्यर्थः । किञ्च सापराधिनो वानरस्य मम वधेन तव दोषशङ्कैव नास्तीत्याशयेनाह राजहेत्यादिश्लोकद्वयेन । एतादृशानामेव नरकः । अनपराधिनो मम घातुकस्य तव तु नास्तीति भावः । किञ्च अनुपयोगिचर्मादियुक्तमद्वध एव मयि दोषसद्भावद्योतक इत्याशयेनाह अधार्यं चर्मेत्यादिश्लोकत्रयेण । तारया निवारितो ऽपि त्वद्धस्तवधकाङ्क्षयैव युद्धायागतो ऽस्मीत्याशयेनाह तारयेति । सर्वज्ञयापि तारया भर्तृमोहेनाहितमुक्तस्सन् तदतिक्रम्य कालस्येश्वरस्य तव वशं पार्षदत्वमागतः । सत्यं न सन्देहः । त्वयेति । विधर्मिणा पत्या शीलसम्पन्ना प्रमदा यथा सनाथा तथा तादृशनाथेन त्वया पृथिवी सनाथा न, किन्तु दुष्टनिग्रहादिरूपपरमकल्याणगुणनाथेन त्वया सनाथेत्यर्थः । मम कपटयुद्धकरणहेतुना शठत्वादिगुणयुक्तत्वादेतादृशेन पृथिवी सनाथा कथं भवतीत्याशङ्क्याह शठ इत्यादि । यतो महात्मना दशरथेन त्वं जातः अतः कारणगुणपूर्वकत्वात्कार्यगुणस्येति न्यायेन सकलकल्याण गुणयुक्तस्त्वं कथं शठः? कथं नैकृतिकः? कथं पापः? इत्येवं योजना । तादृशो न भवसीति भावः । ईश्वरेण त्वया निहतो ऽहं कृतार्थ इत्याशयेन श्रीरामे स्वतन्त्रेश्वरगुणान् प्रकटयति भिन्नचारित्रेत्यादि । रामहस्तिना निहतो ऽहं कृतार्थ इति शेषः । रामस्येश्वरत्वादेव भिन्नचारित्रत्वादियुक्तत्वमिति भावः । मया हतस्य तव कथं कृतार्थत्वमत आह अशुभमिति । समागत इत्यत्र सः मा गतः इति च्छेदः । अशुभम् अयुक्तम् सतां विगर्हितं च, मामिति शेषः । ईदृशं कृत्वा, हत्वेत्यर्थः । सः वाली । मा माम् । गतः मत्पार्षदत्वं प्राप्त इति । त्वं सद्भिस्सह वक्ष्यसे । एतादृशत्वत्कथनमेव मम कृतार्थत्वसूचकमिति भावः । निरुपाधिककरुणामृतसागरस्य तव महिमानं को वा वर्णयितुं शक्त इत्याशयेनाह उदासीनेष्विति । हे राम अपकारिष्वस्मासु त्वद्भक्तसुग्रीवाय कृतापकार एव, तस्मै कृतापकार इति कृत्वा अपकारिष्वित्युक्तिः । अस्मास्विति बहुवचनं ताराङ्गदाद्यभिप्रायेण । एतादृशापकारिष्वस्मासु ते यो विक्रमः ब्रह्मादीनामपि दुर्लभः पादारविन्दविन्यासः प्रकाशितः, पादारविन्दं प्रदर्शितमित्यर्थः । उदासीनेषु सर्वतो निवृत्तेषु मुनिषु तं विक्रमं पादारविन्दविन्यासं न पश्यामीति योजना । अतो ऽहं कृतकृत्य इति भावः । पादारविन्दप्रदर्शनं तु “बहुमान्य च तं वीरं वीक्ष्यमाणं शनैरिव । उपयातौ महावीर्यौ भ्रातरौ रामलक्ष्मणौ ।” इत्युक्तेः । रामस्य पादारविन्दप्रदर्शनार्थमेव आसन्नमरणवालिसमीपागमनमित्यवगन्तव्यम् । त्वया दृश्यमानः त्वत्प्रतियोद्धा जीवितुं न शक्नोतीति शङ्कया ऽहमदृश्य एव त्वां हतवानित्याशङ्कायां सत्यां तथात्वं त्वदन्येषामेव, तव तु नास्तीत्याशयेनाह दृश्यमान इत्यादि । यदिः किमित्यर्थे । हे नृपात्मज अद्य मया दृश्यमानस्सन् युद्ध्येथा अपि मया हतस्सन् वैवस्वतं देवं पश्येः किम्? न पश्येरित्यर्थः । ईश्वरस्य तव मरणशङ्का नास्तीति भावः । समक्षं रामेण सह प्रतियुद्ध्य वाली निहत इति कीर्तिर्मया न लब्धेति दुःखित आह त्वया ऽदृश्येनेति । पापवशङ्गतो ऽहम् अदृश्येन त्वया निहत इति सम्बन्धः । त्वदाज्ञाकरणरूपसेवाभाग्यं मया न लब्धमित्याशयेन खिद्यति सुग्रीवप्रियकामेनेत्यादि । x । पूर्वं राज्यस्थं सुग्रीवं किमर्थं निष्कासितवानित्यत आह युक्तमिति । अधर्मेण मन्नाशनिमित्तबिलद्वारपिधानरूपाधर्मेण । सुग्रीवो राज्यं प्राप्नुयादिति यत् तदयुक्तम्, अहं त्वया रणे निहतः । इतः परं मयि स्वर्गते सति सुग्रीवो राज्यं प्राप्नुयादिति यत् तद्युक्तमिति सम्बन्धः । अधर्मतो राज्यस्वीकारान्निष्कासित इति भावः ॥ ४।१७।५० ॥
एतादृशं किमर्थं हतवानस्मीति चिन्ताक्रान्तं प्रत्याह काममिति । एवंविधो लोकः क्षत्रियवृत्तिमान् जनः । यद्वा लोक एवंविधश्चेत् मादृशाधर्मचारी जनश्चेदित्यर्थः । कामं कालेन वियुज्यते अतो हेतोः राम भवता प्राप्तं मद्वधरूपमुत्तरम् उत्तमं क्षमं युक्तम् उत्तमं यथा तथा चिन्त्यताम् । मया कृतपापप्रायश्चित्तरूपत्वान्मद्वधस्य युक्तत्वमुत्तमत्वं चेति भावः ॥ ४।१७।५१,५२ ॥
इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां किष्किन्धाकाण्डव्याख्यायां सप्तदशः सर्गः ॥ १७ ॥