०१६ वालिवधः

। । ॥ ४।१६।१५ ॥

निवर्तस्वेति । भूयः पुनः । कथं किमर्थम् । अनुगच्छसि मामनुसृत्यागच्छसीत्यर्थः ॥ ४।१६।६,७ ॥

महायुद्धे प्रवृत्ते सति दर्पापनयपूर्वकप्राणसंरक्षणव्यवस्था कथं शक्येतेत्यत आह अहं हीति । अस्य सुग्रीवस्य । यथेप्सितम् ईप्सितमनतिक्रम्य, यावदपेक्षितमित्यर्थः । करिष्यामि, अतो वृक्षै मुष्टिप्रहारैः पीडितः प्रतियास्यति पलायिष्यति ॥ ४।१६।८ ॥

गर्वितं गर्वम् । आयस्तं प्रयत्नं च ॥ ४।१६।९ ॥

शापितेति । शापितासि जयेन मनोजयेन । यद्वा जयाशिषा जयाशिषं कृत्वा निवर्तस्वेत्यर्थः । अहं जित्वा अहं निवर्तिष्य इति अहंशब्दद्वयस्य निर्वाहः ॥ ४।१६।१०१३ ॥

स निश्वस्येति । सर्वतो दृष्टिं चारयन् स्थित इति शेषः ॥ ४।१६।१४ ॥

स ददर्शेति । सुसंवीतं वाससा सुष्ठु परिवीतम् । अवष्टब्धं युयुत्सया भूमिमाक्रम्य स्थितम् ॥ ४।१६।१५,१६ ॥

कृतक्षणः कृतावसरः ॥ ४।१६।१७२० ॥

एवमिति । मूर्ध्नि मुष्टिः पतत्वित्यब्रवीदिति योजना ॥ ४।१६।२१ ॥

तेन वालिना । सोत्पीड इव सनिर्झर इव ॥ ४।१६।२२,२३ ॥

स त्विति । सः सार्थनौः सङ्घसहिता नौरिव । सार्थाः व्यावहारिकाः ॥ ४।१६।२४ ॥

ताविति । प्रवृद्धौ, अभूतामिति शेषः ॥ ४।१६।२५,२६ ॥

वालिनेति । लाघवं युद्धशैघ्र्यम् ॥ ४।१६।२७ ॥

वृक्षैरित्यादि सार्धश्लोकमेकं वाक्यम् । सशिखैः साग्रैः ॥ ४।१६।२८३५ ॥

इन्द्रध्वज इति । गौडदेशे कस्मिंश्चिदुत्सवे आश्वयुक्पौर्णमास्यामिन्द्रमुद्दिश्य ध्वजं संस्थाप्य उत्सवानन्तरं ध्वजं पातयन्ति, तद्वद्वाली पातित इत्यर्थः ॥ ४।१६।३६ ॥

उक्तमेवार्थं श्लोकद्वयेन सङ्गृह्णाति नरोत्तम इति । कालयुगान्तकोपमम् अन्तयतीत्यन्तकः युगादीनां कृतत्रेतादीनामन्तकः युगान्तकः कालश्चासौ युगान्तकश्चेति विशेष्यपूर्वपदः कर्मधारयः । विशेषणविशेष्यभावस्य कामचारत्वात् । स उपमा यस्य तम् ॥ ४।१६।३७ ॥

अथोक्षित इति श्लोकस्तूक्तार्थनिगमनपरः ॥ ४।१६।३८ ॥

इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां किष्किन्धाकाण्डव्याख्यायां षोडशः सर्गः ॥ १६ ॥