०१५ तारोपदेशः

। ॥ ४।१५।१ ॥

सत्विति । सन्ध्यातपप्रभः सन्ध्यातपवत्पिशङ्गवर्णः । रोषपरीताङ्गः अत एव उपरक्तादित्य इव सद्यो निष्प्रभतां गत इति सम्बन्धः । अनेन भाव्यनर्थः सूच्यते ॥ ४।१५।३ ॥

उत्पतितपद्माभः गजादिभिरुद्धृतपद्माभः समृणालो ह्रद इव भातीति योजना । दंष्ट्रा मृणालस्थानीयाः । दीप्ताग्निसन्निभत्वं कालुष्यकषायवर्णप्राकट्याय ॥ ४।१५।४,५ ॥

दर्शितसौहृदा दर्शितसौमनस्या ॥ ४।१५।६ ॥

शयनादुत्थितः पुरुषः भुक्तामनुभूतां स्रजं माल्यम् काल्यं प्रातःकाले यथा त्यजति तथा क्रोधं त्यजेति सम्बन्धः ॥ ४।१५।७ ॥

काल्यं प्रातःकाले । ते तव । फल्गुता लाघवं शत्रुबाहुल्यं शत्रोर्बाहुल्यं गौरवं वा न विद्यते, शत्रुविषयबलाबलविषयशङ्का तव नास्तीति भावः । यद्यप्येवं तथा ऽपि ॥ ४।१५।८,९ ॥

पूर्वमिति श्लोकद्वयमेकं वाक्यम् । पूर्वमापतितः आगतः ते त्वया । क्रोधान्निष्पत्य यो युधि निरस्तः हन्यमानो दिशो गतश्च सः त्वामाह्वयते । पुनरेत्य स्थितस्यैतदाह्वानं मम शङ्कां सहायवत्त्वशङ्कां जनयतीव जनयत्वेवेति योजना ॥ ४।१५।१०,११ ॥

दर्पश्चेति । नर्दतः तस्य दर्पश्च व्यवसायः यत्नश्च निनादस्य संरम्भश्च यादृशः तादृशस्यैतत्कारणमल्पं न भवतीति योजना ॥ ४।१५।१२ ॥

अवष्टब्धसहायश्च परिगृहीतसहाय एव । कुतः? एषः यमाश्रित्य गर्जति अतः ससहाय एवेत्यर्थः ॥ ४।१५।१३१५ ॥

अङ्गदस्त्विति । चारैर्निवेदिता प्रवृत्तिः वार्ता तेनाङ्गदेन कथितेति सम्बन्धः ॥ ४।१५।१६ ॥

प्रवृत्तिमेवाह अयोध्याधिपतेरित्यादिना ॥ ४।१५।१७ ॥

“स्वरक्षणेप्यशक्तस्य को हेतुः पररक्षणे” इति न्यायेन राज्याद्विवासितो रामः सुग्रीवं कथं रक्षितुं समर्थः? शक्तो वा ऽबलवन्तं कथमवलम्बत इत्यत आह तवेति ॥ ४।१५।१८२० ॥

हितोपदेशकथनस्य फलमाह तदिति । न क्षमम् अयुक्तमित्यर्थः ॥ ४।१५।२१ ॥

शूरेति । ते अभ्यसूयितुं नेच्छामि । त्वद्विषये अभ्यसूया न क्रियत इत्यर्थः ॥ ४।१५।२२२५ ॥

दानमानेति । प्रत्यनन्तरं त्वदनन्तरभूतम् ॥ ४।१५।२६३० ॥

तदा हीति । तस्य तस्मै न रोचते ॥ ४।१५।३१ ॥

इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां किष्किन्धाकाण्डव्याख्यायां पञ्चदशः सर्गः ॥ १५ ॥