। ॥ ४।१४।१४ ॥
हरीति । हरिवागुरया शत्रुभूतवानरग्राहिण्या । यद्वा शत्रुग्राहकत्वेन वानरा एव वागुरात्वेन निरूपिताः, तया व्याप्ताम् ॥ ४।१४।५७ ॥
कृतेति । कृताभिज्ञानचिह्नः कृतमभिज्ञानार्थं चिह्नं यस्येति तथा ॥ ४।१४।८ ॥
शोभस इति । आकाशे नक्षत्रमालया विपरीतो विशेषेण परीतः परिवृतः सूर्य इव चन्द्र इव त्वं शोभसे । सुवति प्रेरयतीति सूर्य इति व्युत्पत्त्या नक्षत्रमण्डलपरिवृतत्वविशेषणेन च चन्द्र एव सूर्यशब्दोनोच्यते । यद्वा अभूतोपमेयम् । आकाशे नक्षत्रमालया विपरीतो विशेषेण परिवृतः सूर्य इव त्वं शोभसे । यद्वा विपरीत इति सप्तम्यन्तम् । विपरीते रात्रौ सूर्यः पौर्णमासीचन्द्रः “परीतं तु दिवा प्रोक्तं विपरीतं तु शर्वरी । पौर्णमासीगतश्चन्द्रः सूर्य इत्यभिधीयते ।” इति वचनात् । रात्रावाकाशे पूर्णचन्द्रो नक्षत्रमालया यथा शोभते तथा कण्ठसक्तमालया त्वं शोभस इति ॥ ४।१४।९ ॥
अद्येति । प्रमोक्ष्यामि मोक्षयिष्यामीत्यर्थः ॥ ४।१४।१०,११ ॥
यदीति । सः वाली । दृष्ट्योः पथं दृष्टिविषयं प्राप्तो यदि, ममेति शेषः । तर्हि जीवन्न निवर्तते । ततः तदनन्तरम् । मां दोषेण उपेक्षारूपदोषेण उपलक्षितम् । भवान् मा (गमनं) गच्छेत् न पश्येत् सद्यो मा गर्हेच्चेति सम्बन्धः ॥ ४।१४।१२
।
प्रत्यक्षमिति । यतः साला दारिताः ततः कारणादेव बलेन उपलक्षितं वालिनं मया हतं वेत्सि ॥ ४।१४।१३ ॥
अनृतमिति । म इति तृतीयार्थे षष्ठी । धर्मलोभपरीतेन धर्मात्यागयुक्तेनेत्यर्थः । मया अनृतं नोक्तपूर्वमिति सम्बन्धः ॥ ४।१४।१४ ॥
तदाह्वानेति । तत्तस्मात्कारणात् । येन शब्देन ॥ ४।१४।१६ ॥
जितकाशी जितेन जयेन काशते प्रकाशत इति तथा । असङ्गेन अतिशीघ्रेण ॥ ४।१४।१७१९ ॥
तस्येति । राजदोषपरामृष्टाः राजदोषव्याप्ताः । राजाज्ञाभावे बलाधिकजारभीत्या कुलस्त्रियो यथा निष्प्रभा यान्ति तथा गावो यान्तीत्यर्थः ॥ ४।१४।२०,२१ ॥
सरित्पतिर्वेत्यत्र वाशब्द इवार्थे । सरितः पतिरिव त्वरया नादं मुञ्चन् प्रतीतः प्रसिद्धः सः सुग्रीवः विवृद्धतेजाः, अभवदिति शेषः ॥ ४।१४।२२ ॥
इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां किष्किन्धाकाण्डव्याख्यायां चतुर्दशः सर्गः ॥ १४ ॥