स विसृष्ट इति । सः एकसालोद्देशेन विसृष्टः शरः सप्त सालान् गिरिप्रस्थे च भित्त्वा भूमिं विवेश । सप्त सालान् भित्त्वा गिरिप्रस्थं पर्वतमपि भित्त्वा विवेशेत्यर्थः ॥ ४।१२।३ ॥
प्रविष्ट इति । प्रविष्टः शरोत्तमः मुहूर्तेन पुनर्धरां भित्त्वा स्थाने तूणीरे पपातेति योजना ॥ ४।१२।४,५ ॥
प्रलम्बगतभूषणः प्रलम्बत्वंप्राप्तभूषणः ॥ ४।१२।६१२ ॥
भ्रातृगन्धिनं गन्धस्सम्बन्धः । भ्रातृत्वमात्रेण सम्बन्धी नतु दानमानादिनेति भावः ॥ ४।१२।१३,१४ ॥
सुग्रीव इति । गाढं परिहितः वाससा दृढं संवीतः ॥ ४।१२।१५ ॥
तमिति । भास्करः अस्ततटादिव निष्पपात । मेरोरुत्तरवासिन अधिकृत्येदमुच्यते । अस्माकमस्तमयपर्वतो मेरोरुत्तरपार्श्वस्थानामुदयगिरिः । तेषामस्तगिरिरस्माकमुदयगिरिः । अतो ऽस्तगिरेरपि भोनोर्निर्गमनं सम्भवति ॥ ४।१२।१६२५ ॥
आह्वयस्वेति । विक्रमं सालभेदनम् ॥ ४।१२।२६ ॥
तामेव वेलां तस्यामेव वेलायाम् “वालिनं जहि काकुत्स्थ मया बद्धो ऽयमञ्जलिः” इति मत्प्रार्थनवेलायामित्यर्थः ॥ ४।१२।२७२९ ॥
अलङ्कारेणेति । अलङ्कारेण हाराद्याभरणेन । वेषेण सुवर्णालङ्करणकृतशोभया । वर्चसा कान्त्या ॥ ४।१२।३०,३१ ॥
नोत्सृजामीत्यादिश्लोकमेकं वाक्यम् । अत्रेतिकरणं द्रष्टव्यम् । द्वयोरपि नौ मूलघातो न स्यादिति हि शरं नोत्सृजामीति सम्बन्धः । उत्सृजामीति भूते लट् ॥ ४।१२।३२ ॥
इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां किष्किन्धाकाण्डव्याख्यायां द्वादशः सर्गः ॥ १२ ॥