। ॥ ४।११। १,२ ॥
रामेण बहुशः प्रतिज्ञाते ऽपि वालिवधे श्रीरामं तत्सामर्थ्यजिज्ञासुं मत्वा स्वेन प्रत्यक्षानुभूतं वालिपौरुषं ज्ञापयितुमाह वालिन इति । वीर्यं शारीरबलम् । यत्प्रसिद्धं वालिपराक्रमादिकं तच्छ्रुत्वा अनन्तरं यत्कर्तव्यं तद्विधत्स्वेति मध्यवर्तितच्छब्द एव योजनीयः । ज्ञातव्यमेव प्रपञ्चयति यच्छब्दसमीपवर्तितच्छब्दः पादपूरणार्थः । उत्तरत्र पुनस्तच्छब्दश्रवणात् ॥ ४।११।३ ॥
समुद्रादिति । अनुदिते सूर्य इत्युत्तरावधिरभिहितः । पूर्वावधिस्तु “ब्राह्मे मुहूर्ते उत्थाय” इत्यनुष्ठानाङ्गत्वेन विहितः कालः । चतुस्समुद्रपरिक्रमणस्यानुष्ठानार्थत्वम् " चतुर्भ्यो ऽपि समुद्रेभ्यः सन्ध्यामन्वास्य रावण । इमं मुहूर्तमायाति वाली तिष्ठ मुहूर्तकम् ।" इत्युत्तररामायणोक्ततारवचनादवगम्यते ॥ ४।११।४३२ ॥
अथवा धारयिष्यामीति । उदयः सूर्योदयः । गृह्यताम् अवधित्वेन गृह्यताम् । सूर्योदयपर्यन्तं स्त्र्यादिभोगाननुभवेति भावः ॥ ४।११।३३ ॥
सम्पादय सङ्गच्छस्व । सम्प्रदानं युद्धम् ॥ ४।११।३४,३५ ॥
मत्तं मधुपानादिना मत्तम् । प्रमत्तम् अनवहितम् । रहितम् आयुधादिरहितम् । त्वद्विधं त्वामिव स्त्रीमध्यगतम् । मदमोहितं स्त्रीभोगार्थं मधुपानादितिकर्तव्यतामूढम् ॥ ४।११।३६,३७ ॥
मत्तोयमिति । संयुगे यद्यभीतोसि अयं मत्त इति मावमंस्थाः । अयं मदः । अस्मिन् प्रहारे युद्धे । वीरपानं समर्थ्यतां वीरपानं कृतमिति विचार्यताम् । वीरपानं नाम, युद्धोपक्रमे उत्साहवर्द्धनार्थं वीरैः क्रियमाणं पानम् ॥ ४।११।३८ ॥
तमिति । उत्क्षिप्य अंसयोरुपरि विन्यस्य । युद्धसौकर्यार्थम् ॥ ४।११।३९,४० ॥
पात्यतः पात्यमानस्य । तमिति । ॥ ४।११।४१४३ ॥
एकेन वेगेन एकप्रयत्नेन ॥ ४।११।४७,४८ ॥
कोन्वित्यत्र इतिकरणं द्रष्टव्यम् । अयम् एतदकृत्यकारी ॥ ४।११।४९६५ ॥
अस्थिनिचय इति शुष्ककाय इति यावत् । ॥ ४।११।६६ ॥
इमे चेति । यत्र येषु सालेषु । एकं सालं निष्पन्नयितुं निर्गतशरपत्रं कर्तुम् । घटते समर्थो भवति । एकं सालं भित्त्वा शरो निष्पन्नं यथा निर्गच्छति तथा वेद्धुं समर्थ इत्यर्थः ॥ ४।११।६७६९ ॥
तमिति । पुरा स वाली इमान् पुरतः स्थितान् सप्त सालान् एकैकशः एकमेकं विव्याध । अथ च अनन्तरम् एवं पूर्वोक्तप्रकारेण असकृद्विव्याधेति सम्बन्धः । एतेषु सालेषु एकं पूर्वं भित्त्वा तत्र खानितं शरं समुद्धृत्य तस्मिन् रन्ध्रे पुनरन्यं शरं निधाय तमपि समुद्धृत्य तथा अन्यं विद्ध्वा एवमसकृदेतान् छिद्रीकृतवानिति वाक्यार्थः ॥ ४।११।७०७९ ॥
नखल्विति ॥ ४।११।८०८२ ॥
यदीति । समरे समरविषये ॥ ४।११।८३ ॥
पादाङ्गुष्ठेन लीलया चिक्षेप अनुद्धृतपदचलनस्सन् अङ्गुष्ठाग्रेण चिक्षेपेत्यर्थः ॥ ४।११।८४८६ ॥
आर्द्र इति । प्रत्यग्रः अभिनवः ॥ ४।११।८७ ॥
नात्रेति । अत्र दुन्दुभिकायक्षेपकर्मणि कृते ॥ ४।११।८८ ॥
स एवेति । तव तस्य च यत् यः बले संशयः स एव संशयो न निवृत्त इति शेषः ॥ ४।११।८९ ॥
कस्मिन् कर्मणि कृते तव मदीयबलाभिव्यक्तिर्भविष्यतीत्यत आह सालमेकं विनिर्भिद्य भवेद्व्यक्ते बलाबले इति । एकं सालं विनिर्भिद्य बलाबले । प्रथमाद्विवचनम् । व्यक्ते भवेत् भवेतामित्यर्थः । एकसालभेदने कृते त्वं बलाधिक इत्यहं ज्ञस्यामीत्यर्थः ॥ ४।११।९०,९१ ॥
इममिति । त्वया प्रहितः क्षिप्तः शरः इमं सालं विदारयिष्यति । अत्र अस्मिन्नर्थे संशयो न, त्वयि विमर्शेन त्वद्बलपरीक्षया अलम् । मया शापितो ऽसि राजन् मम प्रियं कुरुष्वेति सम्बन्धः ॥ ४।११।९२ ॥
यथाहीति । तेजस्सु तेजस्विषु ॥ ४।११।९३ ॥
इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां किष्किन्धाकाण्डव्याख्यायाम् एकादशः सर्गः ॥ ११ ॥