। । ॥ ४।१०। १ ॥
दिष्ट्येति । त्वमेको ऽनाथनन्दन इत्यत्र अनाथनन्दन इति च्छेदः ॥ ४।१०।२ ॥
बहुशलाकं शितशलाकम् ॥ ४।१०।३,४ ॥
अपिधाय तिरोधाय ॥ ४।१०।५,६ ॥
मम राजभावे राजत्वे त्वद्विरहादयं नियोगः कृत इति सम्बन्धः ॥ ४।१०।७ ॥
सामात्येति । निर्यातयामि प्रत्यर्पयामि ॥ ४।१०।८,९ ॥
शून्यदेशजिगीषया देशस्य राजशून्यत्वापनिनीषयेत्यर्थः ॥ ४।१०।१०,११ ॥
प्रकृतीरिति । मामाह मामुद्दिश्य मन्त्र्यादीन् प्रत्याहेत्यर्थः ॥ ४।१०।१२१९ ॥
अनिर्वेदादक्लेशात् निहतः ॥ ४।१०।२० ॥
भूतले भुवः अधस्तले । तद्बिलं तत्प्रसिद्धं तद्बिलम् । तस्य बिलम् । स्तनतः तस्य रक्षसः आस्यात्प्रवृत्तेन रुधिरौघेण पूर्णं सद् दुराक्रममासीदिति योजना ॥ ४।१०।२१ ॥
सूदयित्वेति । अत्रैकस्तच्छब्दः प्रसिद्धिपरः । बिलस्य मुखं न पश्यामि नापश्यम् ॥ ४।१०।२२,२३ ॥
पादप्रहारैः सः बिलप्रदेशविशेषः । तेन विदारणकृतमार्गेण । यथाशब्दो वाक्यालङ्कारे ॥ ४।१०।२४ ॥
भ्रातृसौहृदं विस्मृत्यात्मनो राज्यं मार्गयता सुग्रीवेण । तत्र बिले संरुद्धोस्मीति योजना ॥ ४।१०।२५ ॥
निर्वासयामास निष्कासयामास ॥ ४।१०।२६ ॥
अपविद्धः त्यक्तः ॥ ४।१०।२७ ॥
कारणान्तरे मतङ्गशापनिमित्ते सति । वालिनो दुराधर्षं दुष्प्रापम् ॥ ४।१०।२८ ॥
वैरानुकथनं वैरकारणाख्यानम् ॥ ४।१०।२९३३ ॥
आत्मेति । आत्मानुमानात् “आत्मवत्सर्वभूतानि” इति न्यायात् । पुष्कलं सर्वम् । यद्वा श्रेष्ठमित्यर्थः ॥ ४।१०।३४,३५ ॥
इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां किष्किन्धाकाण्डव्याख्यायां दशमः सर्गः ॥ १० ॥