००९ सुग्रीवेण वैरकारणकथनम्

। ॥ ४।९। १,२ ॥

राज्यमिति। पितृपैतामहम् ऋक्षरजसः ब्रह्मणा पित्रा तस्मै दत्तत्वात्पैतामहत्वम् ॥ ४।९।३ ॥

मायावीती। तस्य वालिनः स्त्रीकृतं स्त्रीनिमित्तमित्यर्थः ॥ ४।९।४ ॥

स त्विति। सुप्तजने रात्रौ भाग इति शेषः। रात्रौ सुप्तजने भागे अर्धरात्र इत्यर्थः ॥ ४।९।५९ ॥

मयेति। याचितः वालिना सह बिलप्रवेशनमिति शेषः। शापयित्वा तु मां पद्भ्यामिति, बिलद्वारेऽवतिष्ठामि नानुव्रजामीति स्वपादस्पर्शनपूर्वकं शपथं मया कारयित्वेत्यर्थः ॥ ४।९।१४ ॥

स कालः संवत्सरावधिकालः ॥ ४।९।१५ ॥

अहं नष्टं ज्ञात्वा पूर्वोक्तसाग्रसंवत्सरमदृष्ट्वा स्नेहादागतसम्भ्रमस्सन् तं भ्रातरं न पश्यामि ततो मे मनश्च पापाशङ्कि मरणशङ्कि जातमित्यर्थः ॥ ४।९।१६ ॥

रक्तम् अरुणम् ॥ ४।९।१७,१८ ॥

गिरिमात्रया पर्वतप्रमाणया ॥ ४।९।१९ ॥

तत्त्वं वालिमरणम् ॥ ४।९।२०२४ ॥

तथाऽपि वाली कालुष्यं न जहातीत्याह उक्ता इति ॥ ४।९।२५,२६ ॥

इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां किष्किन्धाकाण्डव्याख्यायां नवमः सर्गः ॥ ९ ॥