००८ रामेण वालिवधनिश्चयः

। ॥ ४।८।१३ ॥

सोहमिति। सभाज्यः पूज्यः, भजनीय इत्यर्थः ॥ ४।८।४,५ ॥

तत्तथेति। लक्ष्म्या कान्तिविशेषेण युक्तः रामः। इवशब्दो वाक्यालङ्कारे। वासवस्य वासवसदृशस्येत्यर्थः। लक्ष्मणस्याग्रतः सुग्रीवमब्रवीदिति सम्बन्धः ॥ ४।८।१० ॥

अपातयत् प्रसारितवान् ॥ ४।८।११ ॥

ईषत्पत्राढ्यं पल्लवसङ्कुलम् ॥ ४।८।१२ ॥

शाखामास्तीर्येति। पुनरासनप्रदानेन अयं परेद्युर्वृत्तान्त इत्यवगम्यते ॥ ४।८।१३,१४ ॥

सुखोपविष्टमित्यादिश्लोकद्वयमेकं वाक्यम्। अत्र द्वितीयो रामशब्दोऽभिरामवाचकः ॥ ४।८।१५१८ ॥

वालिनः इति पञ्चमी ॥ ४।८।१९२१ ॥

पत्रिणः प्रशस्तपत्राः। कार्तिकेयवनोद्भूताः शरवणोत्पन्नाः ॥ ४।८।२२ ॥

सुपर्वाणः निशितग्रन्थयः ॥ ४।८।२३२८ ॥

एतावदिति। अत्र पुनश्शब्दोऽध्याहर्तव्यः। एतावदुक्त्वा वचनं “राम शोकाभिभूतोहम्” इत्यारभ्य “मनो हरति नित्यशः” इत्येतदन्तं वचनमुक्त्वा पुनरुच्चैर्भाषितुं न शक्नोति नाशक्नोदिति सम्बन्धः ॥ ४।८।२९३१ ॥

निर्धूतः निष्कासितः ॥ ४।८।३२ ॥

बन्धनेषु बध्यन्ते अस्मिन्निति बन्धनं कारागारम्। तत्र संयताः बद्धाः ॥ ४।८।३३,३४ ॥

एतया शङ्कया वालिप्रयुक्तत्वशङ्क्या नोपसर्पामि नोपासर्पम्। भये भय निमित्ते ॥ ४।८।३५ ॥

सुखं हीति। वैरस्य कारणं श्रुत्वा सम्प्रधार्य बलाबलं गुणदोषौ विचार्य। अनन्तरम् अनन्तरप्राप्तं कर्म तव सुखं यथा तथा विधास्यामि हीति सम्बन्धः ॥ ४।८।४२,४३ ॥

विस्रब्धः निर्विशङ्कः ॥ ४।८।४४४६ ॥

इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां किष्किन्धाकाण्डव्याख्यायाम् अष्टमस्सर्गः ॥ ८ ॥