००७ राम-सुग्रीवयोः परस्परं साहाय्यप्रतिज्ञा

। ॥ ४।७। १ ॥

न जान इति। सर्वथा न जाने सर्वप्रकारेण न जाने, किञ्चिज्जानामीत्यर्थः। उत्तरत्र सीतान्वेषणार्थं हनुमदादिवानरप्रेषणसमये “स हि देशस्तु वध्यस्य रावणस्य दुरात्मनः। राक्षसाधिपतेर्वासः सहस्राक्षसमद्युतेः।” इति वचनेन रावणावासस्य सुग्रीवावगतत्वप्रतीतेरेवं व्याख्यातम् ॥ ४।७।२,३ ॥

मधुरमिति। प्रमार्जयत्। स्वार्थे णिच्। अडभाव आर्षः ॥ ४।७।१५ ॥

प्रकृतिस्थः स्वाभावस्थः, दुःखरहित इत्यर्थः ॥ ४।७।१६२० ॥

मया चेति। इदं वाक्यं वालिनं वधिष्यामीति वाक्यम्। अभिमानात् त्वयि प्रणयात् ॥ ४।७।२१२३ ॥

एवमिति। प्रभाषताम्। अडभावः, परस्मैपदमार्षम् ॥ ४।७।२४ ॥

स्वकार्यं वालिवधरूपकार्यम् ॥ ४।७।२५ ॥

इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां किष्किन्धाकाण्डव्याख्यायां सप्तमः सर्गः ॥ ७ ॥