००६ रामेण सीता-आभरणदर्शनम्

पुनरेवेत्यादिसार्धश्लोकमेकं वाक्यम् । त्वं यन्निमित्तं वनमागतः तदाख्याति आख्यातवान् ॥ ४।६।१,२ ॥

लक्ष्मणेनेत्यादिश्लोकद्वयमेकं वाक्यम् । भ्रात्रा सह वने वसतस्तवान्तरप्रेप्सुना तवानवस्थानं प्राप्तुमिच्छता रक्षसा रावणेन गृध्रं हत्वा त्वया लक्ष्मणेन च वियुक्ता वैदेही अपहृतेति हनुमानाख्यातीत्यब्रवीदिति पूर्वेण सम्बन्धः ॥ ४।६।३,४ ॥

भार्यावियोगजमित्यादि । किञ्च नष्टां वेदश्रुतीमिव । श्रूयत इति श्रुतिरिति व्युत्पत्त्या श्रुतिर्वेदशास्त्रसाधारणम्, तद्व्यावृत्त्यर्थं वेदश्रुतीमित्युक्तम् । मधुकैटभाभ्यां पाताले गुप्तं वेदजातं मत्स्याकृतिर्हरिर्यथा आनीतवान् तद्वत्सीतामानयिष्यामि, आनेष्यामीत्यर्थः ॥ ४।६।५८ ॥

इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां किष्किन्धाकाण्डव्याख्यायां षष्ठः सर्गः ॥ ६ ॥