ऋश्यमूकादिति । ऋश्यमूकात् मलयगिरिं गत्वा ऋश्यमूकप्रदेशान्तरस्यैव मलयगिरिरिति नाम ॥ ४।५।१ ॥
भ्रात्रा लक्ष्मणेन सह महाप्राज्ञः दृढविक्रमो ऽयं रामः सम्प्राप्तः, अयं रामः सत्यविक्रमः, तव शत्रुनिरसनक्षम इति भावः । एवं वाक्यभेदेन योजना तु अयंरामशब्दयोः पुनरुक्तिपरिहारार्था ॥ ४।५।२६ ॥
भवतेति । प्रतिगृह्य प्रत्युद्गम्य ॥ ४।५।७,८ ॥
स कृत्वेति । हनुमद्वचनश्रवणानन्तरमेव सुग्रीवस्य मानुषरूपपरिग्रहाभिधानात् हनुमान् रामलक्ष्मणौ स्थलान्तरे निवेश्य तयोरागमनं सुग्रीवाय निवेदितवानित्यवगम्यते ॥ ४।५।९ ॥
हृद्यमिति । पीडितं दृढं यथा तथा ॥ ४।५।१४ ॥
“भिक्षुरूपं परित्यज्य” इत्यनेन “तौ त्वया प्राकृतेनैव गत्वा ज्ञेयौ प्लवङ्गम ।” इति सुग्रीवोक्तनिदेशकरणप्रतीत्यर्थं सुग्रीवस्य रामागमननिवेदनसमये पुनर्भिक्षुरूपं गृहीतवानित्यवगम्यते । काष्ठयोरिति सप्तम्यन्तम् ॥ ४।५।१५ ॥
दीप्यमानमिति । तयोः रामसुग्रीवयोः । निदधौ निहितवान् ॥ ४।५।१६२२ ॥
सुग्रीवः स्ववृत्तान्तं विज्ञापयति अहमित्यादि । इवशब्दो वाक्यालङ्कारे ॥ ४।५।२३ ॥
त्रस्तः चकितः ॥ ४।५।२४२६ ॥
अथ सुग्रीवाभिमतं वालिवधं प्रतिजानीते उपकारेति ॥ ४।५।२७ ॥
वेगिताः सञ्जातवेगाः ॥ ४।५।२८३२ ॥
कपीन्द्रः वाली । क्षणदाचरः रावणः । वामनेत्रस्फुरणं पुंसां दुर्निमित्तम् । स्त्रीणां शुभकरमिति भावः ॥ ४।५।३३ ॥
इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां किष्किन्धाकाण्डव्याख्यायां पञ्चमः सर्गः ॥ ५ ॥