तत इति । हनुमान् मधुरसम्भाषं मधुरभाषणं तद्वचः श्रुत्वा कृत्यवानिति सुग्रीवेण कार्यवान् राम इति हृष्टः सुग्रीवं मनसा गतश्च । रामस्य कृत्यवत्त्वं तु “तमेव काङ्क्षमाणस्य । तमेव चावां मार्गावः " इत्येताभ्यां वाक्याभ्यामवगतम् ॥ ४।४।१ ॥
भव्य इति । अयं रामः कृत्यवान् सुग्रीवेण कार्यवान् प्राप्तो यद्यस्मात् तस्मात्तस्य
सुग्रीवस्य राज्यागमो भव्यः भावी । एतदिति षष्ठी । एतस्य रामस्येत्यर्थः । कृत्यं च उपागतम् उप समीपे आगतम्, निष्पन्नप्रायमिति यावत् ॥ ४।४।२ ॥
ग इति गायत्र्या दशमाक्षरं ततः परमिति श्लोकस्य चतुर्दशाक्षरेण “ग” इत्यनेन सङ्गृह्णाति ॥ ४।४।३ ॥
रक्षसेति । रहिते आवाभ्यां रहिते देश इत्यर्थ ॥ ४।४।१४ ॥
दनुरित्यादिसार्धश्लोकमेकं वाक्यम् । स ज्ञास्यतीति तेन आख्यात इति सम्बन्धः ॥ ४।४।१५२० ॥
सर्वलोकस्येति । शरण्यः प्राप्यः । शरणं रक्षकम् ॥ ४।४।२१,२२ ॥
येनेति । सततं सर्वगुणोपेताः सदा राज्ञा मानिता इति सम्बन्धः ॥ ४।४।२३,२४ ॥
शोकाभिभूत इति । शोकाभिभूते शोकाविष्टे । शोकार्त्ते शोकपीडिते ॥ ४।४।२५३१ ॥
कपिरिति । हे राघव सम्प्राप्तो ऽयं कपिः हृष्टः मद्वाक्यश्रवणात्सञ्जातहर्षः । सो ऽपि सुग्रीवो ऽपि कृत्यवानिति यथा कथयते अतः कृतकृत्यो ऽसीति योजना ॥ ४।४।३५,३६ ॥
इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां किष्किन्धाकाण्डव्याख्यायां चतुर्थः सर्गः ॥ ४ ॥