००३ हनुमता सुग्रीववृत्तान्तकथनम्

। ॥ ४।३।१ ॥

कपिरूपमिति । शठबुद्धितया वञ्चकबुद्धितया ॥ ४।३।२ ॥

तत इति । नमस्कारो विधृतभिक्षुवेषविरुद्ध इति चेत्, मैवम् हनूमान् “रूपमेवास्यैतन्महिमानं व्याचष्टे” इति न्यायेन तयोर्दर्शनमात्रेणैव तौ सुग्रीवविरोधिनिरसने क्षमाविति ज्ञात्वा गृहीतवेषान्तरस्य स्वचारत्वं प्रकटयितुं प्रणनामेति न विरोधः । आबभाषे अभिमुखीचकार ॥ ४।३।३ ॥

कामतः सुग्रीवोपदेशाद्विरुद्धस्वेच्छातः ॥ ४।३।४ ॥

देशं कथमित्यादिसार्धश्लोकमेकं वाक्यम् । समान्ततो वीक्षमाणौ कथं प्राप्ताविति सम्बन्धः ॥ ४।३।५,६ ॥

इमां नदीमित्यारभ्य द्युतिमन्तौ नरर्षभावित्यन्तमेकम् । पम्पासरसो नदीत्वव्यपदेशस्तु आयामवत्तया । चापे गृहीत्वेत्येतस्य पीडयन्ताविमाः प्रजा इत्यनेन सम्बन्धः ॥ ४।३।७११ ॥

राज्यार्हाविति । अमरप्रख्यौ पद्मपत्रेक्षणौ राज्यार्हौ वीरौ युवां जटामण्डलधारिणौ सन्तौ इहारण्यप्रदेशं कथमागतौ ॥ ४।३।१२ ॥

वनागमनायोग्यतायां हेत्वन्तरमाह अन्योन्यसदृशाविति । देवलोकादागतौ अन्योन्यसदृशौ वीरौ इह यदृच्छया वसुन्धरां प्राप्तौ चन्द्रसूर्याविव स्थितौ कथमिमं देशम् उपागतावित्येतदत्राप्यनुषज्यते ॥ ४।३।१३ ॥

महाराजदेवत्वलक्षणोभयाकारप्रतीतेर्वनागमनमसम्भावितमित्याहविशालवक्षसाविति ॥ ४।३।१४१६ ॥

कस्य त्वं कस्त्वं किमर्थमागत इत्याकाङ्क्षायामाह सुग्रीव इत्यादिना । ॥ ४।३।२१२५ ॥

नानृग्वेदेति । अनृग्वेदविनीतस्य अनृग्वेदेन ऋग्वेदादन्येन विनीतस्य शिक्षितस्य एवं प्रभाषितुं न शक्यम् । अयजुर्वेदधारिणः यजुर्वेदधारणरहितस्यैवं प्रभाषितुं न शक्यम् । असामवेदविदुषः असामवेदज्ञस्यैवं भाषितुं न शक्यमिति सम्बन्धः । अयमर्थः प्रतिवर्णं स्वरभूयस्त्वेन सावधानेनोच्चार्यमाणत्वादृग्वेदविनीतस्येत्युक्तिः । एकैकानुवाके अनुवाकान्तरवाक्यस्यासाङ्कर्येण धारणस्य दुष्करतां द्योतयितुम् अयजुर्वेदधारिण इत्युक्तम् । ऊहरहस्यादिगर्भितगानविशेषाणां दुर्ज्ञेयतामभिप्रेत्य असामवेदविदुष इत्युक्तम् ॥ ४।३।२९ ॥

नूनमिति । न किञ्चिदपशब्दितमित्यनेन संस्कृतभाषयैव व्यवहृतवानिति गम्यते ॥ ४।३।३०,३१ ॥

अविस्तरं विस्तररहितम् । मध्यमे स्वरे, नोच्चैर्न च नीचैः ॥ ४।३।३२ ॥

संस्कारक्रमसम्पन्नां व्युत्पत्तिसामग्रीसम्पन्नामित्यर्थः । अद्रुतां द्रुतोच्चारणरहितामित्यर्थः ॥ ४।३।३३ ॥

अनया चित्रया विस्मयोत्पादकया । त्रिस्थानव्यञ्जनस्थया त्रिस्थानेषु उरःकण्ठशिरस्सु व्यञ्जनस्थया व्यक्ततया स्थितयेत्यर्थः ॥ ४।३।३४ ॥

इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां किष्किन्धाकाण्डव्याख्यायां तृतीयः सर्गः ॥ ३ ॥