॥ ४।२।१,२ ॥
नैवेति । तौ वीक्षमाणौ मनः स्थाने न चक्रे न स्थापयामास । व्यसनात्कर्तव्यताशून्यो ऽभूदित्यर्थः ॥ ४।२।३ ॥
धर्मात्मा धर्मे राजधर्मे आत्मा मतिर्यस्य स तथोक्तः " आत्मा यत्नो धृतिर्बुद्धिः " इत्यमरः । सुग्रीवः अनुचरैर्मन्त्रिभिस्सह चिन्तयित्वा गुरुलाघवं विमृश्य अवस्थाने पलायने च गुरुलाघवं विमृश्य परमोद्विग्नो ऽभवदिति सम्बन्धः ॥ ४।२।४८ ॥
एवमिति पाठः । एवमेकायनगता अपि पूर्वोक्तप्रकारेण एकस्थानगता अपि गिरीणां शिखराणि प्रकम्पयन्तः गिरेः गिरिं प्लवमानाः जग्मुरिति शेषः । एकमेकायनगता इति पाठे एकाकीभूय भयेन पलायन्तम् अत एव एकम् एकाकिनं यूथपर्षभं सुग्रीवमभिगम्य अत एव एकायनगताः पूर्वोक्तप्रकारेण एकस्थानगताः । यद्वा एकायनगताः एकमार्गगताः “अयनं वर्त्ममार्गाध्वपन्थानः " इत्यमरः । सुग्रीवेण एकसुखदुःखा हरयः परिवार्योपतस्थिर इति पूर्वेण सम्बन्धः ॥ ४।२।९११ ॥
तत इति । पर्वतेन्द्रम् ऋश्यमूकम् ॥ ४।२।१२,१३ ॥
मलयः ऋश्यमूक इत्यर्थः ॥ ४।२।१४१६ ॥
अहो इति । मतौ सम्यग्विचारविषयबुद्धौ ॥ ४।२।१७ ॥
बुद्धिः सामान्यतो ज्ञानम्, विज्ञानं विशेषज्ञानम् । इङ्गितम् अभिप्रायसूचको व्यापारः ॥ ४।२।१८,१९ ॥
वालिप्रणिहिताविति एतौ शङ्के । कुतः? “राजानो बहुमित्राः” राजानो वेषान्तरधारिभिर्मित्रैः शत्रून् घातयिष्यन्तीति भावः ॥ ४।२।२१ ॥
अरयो विज्ञेयाः शोधनीयाः । कुतः? अविश्वस्ताः अविश्वसनीयाः । अरयो विश्वस्तानां छिद्रेषु प्रहरन्ति, विश्वस्तानां संहारावाकाशं दृष्ट्वा तान् प्रहरन्तीत्यर्थः ॥ ४।२।२२ ॥
बहुदर्शनाः अनेकोपायज्ञाः । प्राकृतैः दीनवेषधारिभिः ॥ ४।२।२३ ॥
तावित्यादिश्लोकचतुष्टयमेकं वाक्यम् । प्राकृतेनैव प्राकृतवेषधारिणैव इङ्गितानां भावसूचकदेहव्यापाराणां प्रकारैः भेदैः रूपव्याभाषणेन च रूपेण सौम्यासौम्यरूपेण व्याभाषणेन अन्योन्यसम्भाषणेन च तयोर्भावं लक्षयस्व । यदि प्रदुष्टमनसौ तर्हि प्रशंसादिभिरिङ्गितैश्च पुनः पुनः विश्वासयन् ममैवाभिमुखं यथा तथा स्थित्वा स्थापयित्वा अस्य वनस्य प्रवेशस्य प्रयोजनं पृच्छ । धनुर्धरौ शुद्धात्मनौ यदि तदानीमपि पूर्वोक्तप्रकारेण तौ मदीयौ कृत्वा आगमनप्रयोजनं जानीहि । इङ्गितादिभिर्भावपरिज्ञाने हेत्वन्तरमाह व्याभाषितैर्वा इति । व्याभाषितैः ताभ्यां सह सम्बाषणैः ॥ ४।२।२४२८ ॥
इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां किष्किन्धाकाण्डव्याख्यायां द्वितीयः सर्गः ॥ २ ॥