००१ रामेण पम्पातीरे विलापः

॥ अथ श्रीवाल्मीकीरामायणे किष्किन्धाकाण्डम् ॥

श्रीमत्किष्किन्धाकाण्डे व्याख्येयानि व्याख्यायन्ते । स तामिति । सः विराधखरत्रिशिरोदूषणकबन्धादीनामयत्नसंहारप्रसिद्धपराक्रमयुक्तः श्रीरामः तां चिकीर्षितरावणवधोपयोगिसुग्रीवाधिष्ठितऋष्यमूकसमीपवर्तिनीं पुष्करिणीं पम्पां आकुलेन्द्रियः पुष्करिणीदर्शनजनितसीताविरहशोकातिशयेन क्षुभितसर्वेन्द्रियः सन् विललाप परिदेवयामास ॥ ४।१।१३ ॥

सौमित्रे इति । पम्पायाः काननं पम्पापरिसरवर्ति काननम् । यत्र कानने सशिखरा इव उन्नताग्रशाखाभिः सशृङ्गा इव, अत एव शैलाभाः ॥ ४।१।४ ॥

मां त्वित्यादि । राज्यभ्रंशबन्धुवियोगादिना पूर्वमेव शोकाभिसन्तप्तं मां भरतस्य च दुःखेन प्रार्थना ऽलाभजनितभरतसम्बन्धिदुःखेन वैदेह्या हरणेन च भूयो ऽप्याधयः पीडयन्ति वै पीडयन्ति खलु । माधवः पीडयन्निव इति पाठे अयमर्थः भरतस्य च दुःखेन वैदेह्या हरणेन च पूर्वमेव शोकाभिसन्तप्तं मां माधवः पीडयन्निव, वर्तत इति शेषः ॥ ४।१।५,६ ॥

नलिनैरिति । सर्पव्यालानुचरिता सर्पाः बहुफणाः, तदन्ये व्यालाः ॥ ४।१।७ ॥

अधिकमिति । परिस्तोमः कुथः ॥ ४।१।८ ॥

पुष्पेति । शिखराणि द्रुमाग्राणि । सर्वतः सर्वस्थलम् ॥ ४।१।९ ॥

सुखानिल इति । अयं कालः । गन्धवान् अत एव सुखानिलः अत एव प्रचुरमन्मथः अतिमन्मथोद्दीपक इत्यर्थः । कालस्य गन्धवत्त्वे हेतुः सुरभिर्मासः वसन्तमास इत्यर्थः, कुतः? जातपुष्पफलद्रुमः ॥ ४।१।१० ॥

विक्षिपन्निति । कुसुमोत्कचाः कुसुमोत्कटाः । चलितस्थानैः स्वस्थानकुसुमोच्चालितैः षट्पदैः मारुतः गीयत इव ॥ ४।१।१४ ॥

मत्तेति । अत्र वायोः नाटयितृगायकसाधर्म्यमुच्यते । नर्तयितुर्मुखवाद्यस्थानीयैः मत्तकोकिलसन्नादैः पादपान् नर्तयन्निव शैलकन्दरनिष्क्रान्तः प्रगीत इव शैलकन्दरनिर्गतध्वनियुक्ततया गातुमुपक्रान्त इव च भवत्यनिल इत्यर्थः ॥ ४।१।१५ ॥

अमी इति । षट्पदैरनुकूजन्तः विनदन्तीवेति सम्बन्धः ॥ ४।१।१८ ॥

प्रस्तरेषु च रम्येषु इति पाठः । पस्तरेषु पुष्पवद्भिः द्रुमैः संसक्तशिखराः शैलाः विराजन्त इति सम्बन्धः ॥ ४।१।१९ ॥

पुष्पेति । पुष्पसञ्छन्नशिखराः पुष्पालङ्कृतशाखाः । मारुतोत्क्षेपचञ्चलाः वायुचलनेन चलनवन्तः । मधुकरोत्तंसाः मधुकरावतंसाः । अमी पादपाः प्रगीता इव गातुमुपक्रान्ता इवेति सम्बन्धः । गातुमुपक्रान्तसालङ्कारविलासपुरुषा इव स्थिता इत्यर्थः । मधुकरोत्क्रोशाः इति वा पाठः ॥ ४।१।२० ॥

एष इति । नत्यूहः जलकुक्कुटः ॥ ४।१।२४२६ ॥

विमिश्रा इति । भृङ्गराजप्रमुदिताः मधुरस्वराः आत्मव्यूहाभिनन्दिताः आत्मीयव्यूहैरभिनन्दिताः, विहङ्गाः स्त्रीविहङ्गाः, पुम्भिः पुरुषविहङ्गैः, विमिश्राः संयुक्ताः पश्येति पूर्वेण सम्बन्धः ॥ ४।१।२७ ॥

दात्यूहेति । दात्यूहगतविक्रन्दैः दात्यूहगदितविरावैः ॥ ४।१।२८ ॥

अशोक इति । अग्नेः स्वनवत्त्वं ज्वलनावस्थायां सम्भवति ॥ ४।१।२९,३० ॥

अयमिति । अयं कालो मम दयितायाः दयितः इष्ट इति सम्बन्धः ॥ ४।१।३१ ॥

मन्मथायासेति । न चिरादिव इत्यस्योत्तरश्लोकेन सम्बन्धः । मन्मथायाससम्भूतः मन्मथपीडाजनितः । क्षिप्रं धक्ष्यतीति सम्बन्धः ॥ ४।१।३२ ॥

अपश्यत इति । नचिरादेव इदानीमेव, आत्मप्रभवः कामः, भूयस्त्वं प्रवृद्धत्वमुपयास्यतीति सम्बन्धः ॥ ४।१।३३ ॥

अदृश्यमानेति । स्वेदसंसर्गशामकः वसन्तस्य स्वेदशामकत्वं मलयानिलसाहचर्यात् ॥ ४।१।३५,३६ ॥

शिखिनीभिरिति । एते मयूराः मदमूर्च्छिताः मदाविष्टाः ॥ ४।१।३७ ॥

पश्येति । मन्मथार्ता शिखिनी गिरिसानुषु नृत्यन्तं भर्तारं मयूरम् उपनृत्यति ॥ ४।१।३८ ॥

तामिति । रामां शिखिनीं रुतैरु(र)पहसन्निवेत्यर्थः ॥ ४।१।३९ ॥

“मयूरस्य” इति श्लोकानन्तरं “मामप्येवम्” इति श्लोकः ॥ ४।१।४०४७ ॥

नूनमिति । यत्र सा तं देशं वसन्तो न स्पृशति नूनम्, तथा ऽपि मया विना कथं कालं यापयेदिति खिद्यते कथं हीति ॥ ४।१।४८५० ॥

सन्त्यक्ष्यति जीवतमित्यत्र हेतुमाहदृढं हीति । सीता वर्तयितुं जीवितुं नालं न समर्थेति मम हृदये वर्तत इति सम्बन्धः । साध्वी मद्विरहं गतेति चाजीवनहेतुद्वयं द्रष्टव्यम् ॥ ४।१।५१५३ ॥

सदेति । यं मारुतं पुरा सीतया सह वर्तमानकाले ॥ ४।१।५४ ॥

तां विनेति । तदा पञ्चवट्यां सीतया सह वर्तमानकाले वायसः पक्षी विहङ्गः सन् विहायसा गच्छन् सम्प्रणदितः परुषं भाषितवान् इदानीं तां विना तया विहीनावस्थायां पादपगतः प्रहृष्टमभिनर्दति । पूर्वमाकाशगतः सन् परुषनादेन तस्या विश्लेषं सूचितवान्, इदानीं पादपगतः सन् प्रहृष्टनादेन तस्याः संश्लेषं सूचयतीत्यर्थः ॥ ४।१।५५ ॥

एतदेव विवृणोतिएष इति । एष खलु विहङ्गः विहायसा गच्छतीति विहङ्गः । तत्र तदानीम् । वैदेह्याः प्रतिहारकः अपहारकः, वियोजक इति यावत् । इदानीं तु स पक्षी मां तस्याः समीपमुपनेष्यतीति सम्बन्धः ॥ ४।१।५६ ॥

पश्येति । सन्नादं पश्य शब्दं शृण्वित्यर्थः ॥ ४।१।५७६५ ॥

पवनेति । पवनाहतवेगाभिः पवनाहतसञ्जातवेगाभिरित्यर्थः ॥ ४।१।६६,६७ ॥

अहो इति । वामत्वं कुटिलत्वम् ॥ ४।१।६८७० ॥

पद्मकोशेति । पद्मकोशपलाशानि पद्ममुकुलोपरिदलानि । नेत्रकोशाभ्यां नेत्रकोशशब्देन नेत्रपिधानभूतपक्ष्मप्रदेशा उच्यन्ते ॥ ४।१।७१८४ ॥

पादपात्पादपमिति । नैकरसास्वादसम्मोदित इव अनेकरसास्वादनेन जातसम्मोद इव ॥ ४।१।८५ ॥

केचिदिति । पर्याप्तकुसुमा मुकुलसंवीताः । एतत्पुष्पमुकुलप्राचुर्याभिप्रायेणोक्तम् ॥ ४।१।८६ ॥

मधुलिप्सया पुष्पात्पुष्पान्तरं गच्छन्तं मधुकरं विलोक्योत्प्रेक्षते इदमिति । मृष्टं शोधितम्, निर्दोषमित्यर्थः । स्वादु मधुरम् ॥ ४।१।८७,८८ ॥

इयमिति । इयं भूमिः शयनप्रस्तरैः स्वयं निपतितैः कुसुमसङ्घातैरुपस्तीर्णा अत एव सुखाकृतिः । इमां पश्येति परेण सम्बद्ध्यते ॥ ४।१।८९ ॥

विविधा इति । नगसानुषु विशीर्णैर्विविधैस्तैरेव पुष्पैः पीतरक्ताः विविधाः प्रस्तराः कृता हीत्युत्प्रेक्षा ॥ ४।१।९० ॥

हिमान्त इति । हिमान्ते शिशिरादौ वृक्षाणां पुष्पसम्भवम् ॥ ४।१।९१ ॥

पुष्पमासे वसन्ते सङ्घर्षादिव पुष्पिता ये वृक्षास्तानपि पश्येति पूर्वेण सम्बन्धः ॥ ४।१।९२,९३ ॥

मन्दाकिन्यास्त्विति । मन्दाकिन्यास्तत्प्रसिद्धरूपम् एवं मनोहरं यदि भवेत्तर्हि तस्या जगति विख्याता मनोहराः गुणाः स्थाने युक्ताः इति योजना ॥ ४।१।९४ ॥

यदीति । मयि मत्समीपे । शक्राय शक्रत्वाय ॥ ४।१।९५ ॥

न हीति । अन्येषु ब्रह्मलोकादिषु ॥ ४।१।९६९९ ॥

दीपयन्तीति । प्रियां स्मृत्वा स्थितस्य मे कामं द्रुमाः दीपयन्तीति सम्बन्धः ॥ ४।१।१०० ॥

पश्येति । पुनःशब्दो ऽप्यर्थे । मामपि पश्येति सम्बन्धः ॥ ४।१।१०१ ॥

व्यथयन्तीति । सञ्चरन्तः मृगा इति शेषः ॥ ४।१।१०२१०४ ॥

पद्मेति । पद्मसौगन्धिकवहं पद्मसौरभवहम् । धन्याः सकान्ताः ॥ ४।१।१०५,१०६ ॥

किं न्विति । सीतयेति सहार्थे तृतीया । सीतया सहितस्य तव कुशलमिति पृष्टो ऽहं जनकं किं वक्ष्यामीति सम्बन्धः ॥ ४।१।१०७ ॥

तदिति । अव्रणं निर्दोषम् ॥ ४।१।११० ॥

स्मितहास्यान्तरयुतं प्रसन्नहास्यविशेषेण युक्तम् । गुणवत् उपचारवत् ॥ ४।१।१११ ॥

किं न्विति । सा स्नुषा कुत्र वर्तते कथं च किम्प्रकारेति च पृच्छन्तीं कौसल्यां किन्नु वक्ष्यामि यथावृत्तं वक्ष्यामि अन्यद्वक्ष्यामि वा । उभयमपि वक्तुं न शक्यमिति भावः ॥ ४।१।११३,११४ ॥

इति राममिति । अव्ययम् युक्तिभिः खण्डितुमशक्यम् ॥ ४।१।११५,११६ ॥

स्मृत्वेति । वियोगजं दुःखं स्मृत्वा प्रिये जने स्नेहं त्यज । कुतः? अतिस्नेहेति ॥ ४।१।११७१२० ॥

स्वास्थ्यमिति । स्वास्थ्यं धैर्यमित्यर्थः । अर्थो हीति । नष्टकार्यार्थैः नष्टकार्यरूपप्रयोजनैः । पुरुषैः नष्टधैर्यैः पुरुषैर्वा अर्थः प्रयोजनः अयत्नेन नाधिगम्यते ॥ ४।१।१२११२३ ॥

त्यज्यतामिति । आत्मानं कृतात्मानं शिक्षितान्तःकरणम्, महात्मानं महाधृतिम्, परमात्मानं वा किं न बुद्ध्यस इत्यर्थः ॥ ४।१।१२४,१२५ ॥

पारिप्लवद्रुमां चञ्चलद्रुमां तां पम्पामतिक्रामत् अत्यक्रामत् ॥ ४।१।१२६,१२७ ॥

धर्मेण बलेन च “संस्तम्भ राम भद्रं ते” इत्यादिराजनीतिरूपधर्मकथनेन “तत्राप्येनं हनिष्यामि” इत्यादिस्वबलकथनेन चेत्यर्थः ॥ ४।१।१२८ ॥

ताविति । शाखामृगाणामधिपः सुग्रीवः तौ रामलक्ष्मणौ ददर्श । ततः तस्य सुग्रीवस्य चित्तं विभ्रान्तिमत् बभूवेति सम्बन्धः ॥ ४।१।१२९,१३० ॥

तमाश्रमं मतङ्गशापात् वालिनो दुष्प्रवेशत्वेन प्रसिद्धं मतङ्गाश्रमम् । हरयः सुग्रीवादयः, त्रस्ताः वालिप्रेरिताविति बुद्ध्या भीताः ॥ ४।१।१३१ ॥

इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां किष्किन्धाकाण्डव्याख्यायां प्रथमः सर्गः ॥ १ ॥