०७५ राम-लक्ष्मणयोः पम्पादर्शनम्

॥ १ ॥

स इति । महात्मनां प्रभावं शबर्युक्तम् ॥ ३।७५।२ ॥

ब्रह्वाश्चर्यः बहून्याश्चर्याणि यस्मिन् सः । कृतात्मनां शुद्धचित्तानाम् ॥ ३।७५।३ ॥

उपस्पृष्टं च विधिवत् शास्त्रोक्तमार्गेण स्नातमित्यर्थः ॥ ३।७५।४,५ ॥

शुभं मित्रलाभादि ॥ ३।७५।६ ॥

यत्र पम्पातीरे ॥ ३।७५।७,८ ॥

अभित्वरे त्वरावानस्मि त्वरत इत्यब्रवीदिति सम्बन्धः ॥ ३।७५।९१२ ॥

कुवलयोद्धाटैः इन्दीवरसमूहैः ॥ ३।७५।१३ ॥

मतङ्गसरसमित्यकारान्तः, तच्च पम्पायामेव प्रदेशभेदो गङ्गायां मणिकर्णिकेव ॥ ३।७५।१४ ॥

अरविन्दपद्मयोः रक्तश्वेतविषयत्वेन भेदः ॥ ३।७५।१५१८ ॥

कोयष्टिकादयः पक्षिविशेषाः ॥ ३।७५।१९,२० ॥

[तिलकादिभिः काशते प्रकाशते इति तथोक्ता ॥ ] ॥

३।७५।२१२८ ॥

उपसंहरति इतीति । अनन्यचेतनः नास्त्यन्यत्र सीतायाश्चेतनं चित्तं यस्य सः । नलिनीभिर्मनोरमां पम्पां मतङ्गसरसप्रदेशवर्तिनीं विवेश ॥ ३।७५।२९ ॥

ततो महदिति । दूरतः सङ्क्रम्यत इति दूरसंक्रमम्, दूरतोगम्यमानमित्यर्थः । वर्त्म मार्गं गत्वा वनं प्रविलोकयन् पम्पां ददर्शेत्यन्वयः ॥ ३।७५।३० ॥

इति श्रीपरमहंसपरिव्राजकाचार्यश्रीनारायणतीर्थशिष्यश्रीमहेश्वरतीर्थविरचितायां श्रीरामायणत्त्वदीपिकाखायायमारण्यकाण्डव्याख्यायां पञ्चसप्ततितमः सर्गः ॥ ३।७५ ॥

महेशतीर्थरचिता रामपादसमर्पिता । टीका त्वारण्यकाण्डस्य समाप्ता तत्त्वदीपिका ॥ ॥

इति श्रीमद्वाल्मीकिरामायणे आरण्यकाण्डम् ॥