०७४ शबरीकथा

ताविति । प्रतीचीं दिशं परिगृह्य कबन्धेन दर्शितं पम्पामार्गमुद्दिश्य प्रतस्थतुः ॥ ३।७४।१ ॥

क्षौद्रकल्पफलान् माधुर्येण मधुतुल्यफलान् ॥ ३।७४।२ ॥

उपतस्थतुः प्रापतुः ॥ ३।७४।३६ ॥

विघ्नाः तपोविध्नाः कामादयः । कोपो नियतः निगृहीतः आहारश्च नियत इत्यनुकर्षः ॥ ३।७४।७९ ॥

कामेणेति । प्रत्यवस्थिता अभिमुखावस्थिता ॥ ३।७४।१०१४ ॥

तैरिति । आगमिष्यति अनुग्रहायेति शेषः । ते त्वया । तं दृष्ट्वा अस्मत्सेवाफलभूतं त्वद्दर्शनं प्राप्य अक्षयान् लोकान् ब्रह्मलोकम्, अवयवाभिप्रायेण गुणाभिप्रायेण वा बहुवचनम् ॥ ३।७४।१५१७ ॥

एवमिति । विज्ञाने अतीतानागतज्ञाने अबहिष्कृताम् (सर्वदा विज्ञानसम्पन्नामिति यावत् ।) ॥ ३।७४।१८ ॥

दनोरिति । गहात्मनो दनोः सकाशाच्छ्रुतं ते तव गुरुणां प्रभावं प्रत्यक्षं संद्रष्टुम् इच्छामि । यदि मन्यसे सन्दर्शयितुमिति शेषः ॥ ३।७४।१९,२० ॥

पश्येति । मेघघनप्रख्यं मेघवत् घना अधिका प्रख्या प्रभा यस्य तत् ॥ ३।७४।२१ ॥

इह गुहायाम् । मन्त्रवन्मन्त्रपूजितं मन्त्रवतां मुनीनां मन्त्रैः पूजितं पालितं तीर्थं यज्ञम् “तीर्थं मन्त्राद्युपाध्याययज्ञेष्वम्भसि पावके” इति रत्नाकरे ॥ ३।७४।२२ ॥

इयमिति । मे मया सुसत्कृतास्ते गुरवः । श्रमात् उपवासश्रमात् । उद्वेपिभिः करैः । यत्र वेद्यां पुष्पोपहारं पूजां कुर्वन्ति अकुर्वन् । सेयं प्रत्यक् प्रतीच्यां स्थलं यस्यास्सा तथा भवेदित्यन्वयः ॥ ३।७४।२३२६ ॥

देवकार्याणीति । यानीमानि कृतानि, माल्यानीति शेषः ॥ ३।७४।२७,२८ ॥

येषां मुनीनामयमाश्रमः येषां चाहं परिचारिणी तेषां भावितात्मनां सदानुसंहितपरमात्मनां मुनीनां समीपं गन्तुमहमिच्छामीति चाब्रवीत् ॥ ३।७४।२९ ॥

धर्मिष्ठमिति श्रुतार्थमुद्दिश्येति शेषः ॥ ३।७४।३० ॥

संशितव्रतां तीक्ष्णव्रताम् ॥ ३।७४।३१ ॥

आत्मानं हुताशने हुत्वा स्वाचार्योपदिष्टमार्गेणेत्यर्थः । स्वर्गं ब्रह्मलोकमेव ॥ ३।७४।३२३४ ॥

यत्र ब्रह्मलोके तत्पुण्यस्थानं शबरी आत्मसमाधिना ब्रह्मसमाधिना जगाम ॥ ३।७४।३५ ॥

इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां आरण्यकाण्डव्याख्यायां चतुःसप्ततितमः सर्गः ॥ ३।७४ ॥