०७३ सुग्रीवास्थानमार्गदर्शनम्

निदर्शयित्वेति । सीतायाः प्रतिपादने प्रापणे निमित्ते । निदर्शयित्वा सुग्रीवसख्यारूपं पूर्वोक्तमुपायमिति शेषः । पुनर्वाक्यमब्रवीदिति सम्बन्धः ॥ ३।७३।१ ॥

तदेवाह एष इति ॥ ३।७३।२ ॥

प्रियालपनसेत्यादि । प्रियालः धनुष्पटः । तिन्दुकः अग्निमुख्यः । सुरक्तः रक्तचन्दनम् । पारिभद्रः मन्दारः ॥ ३।७३।३,४ ॥

पातयित्वा नमयित्वा ॥ ३।७३।५,६ ॥

सर्वकामफलाः सर्वकामान् कामितान् पदार्थान् फलन्तीति तथा । चैत्ररथे देवेशोद्याने ॥ ३।७३।७९ ॥

चङक्रमन्तौ चरन्तौ । असङ्कटां तरुमृगसङ्कीर्णतया असङ्कुचिताम् । अविभ्रंशां तटयोर्भ्रंशरहिताम् । समतर्थां समावतारप्रदेशाम् ॥ ३।७३।१०१२ ॥

वधस्याकोविदाः वधमजानानाः क्रौञ्चाः ॥ ३।७३।१३ ॥

अयस्तप्तान् शूलप्रोतग्धान् अकुशानेककण्टकान् कुशाः कुशवत्तीक्ष्णाः अनेककण्टका येषां न विद्यन्ते तथोक्ताः ॥ ३।७३।१४,१५ ॥

भृशमिति । ते तान्मत्स्यान् खादतस्ते जलं पाययिष्यतीति सम्बन्धः ॥ ३।७३।१६१९ ॥

सायाह्न इत्यादि श्लोकद्वयमेकं वाक्यम् । एतान् सर्वान् दृष्ट्वा शोकं विहास्यतीति सम्बन्धः ॥ ३।७३।२०,२१ ॥

न तानीति । माल्यानि पुष्पाणि । आरोपयिता गृहीत्वा धारयिता नास्ति ॥ ३।७३।२२ ॥

अम्लानत्वादौ कारणं दर्शयति मतङ्गशिष्या इति । गुरोः गुर्वर्थम् । वन्यमाहरताम् अत एव भाराभितप्तानां वन्यपदार्थभारेण श्रान्तानामित्यर्थः । तानीति विधेयप्राधान्यान्नपुंसकलिङ्गनिर्देशः ॥ ३।७३।२३,२४ ॥

गतानाम्, स्वर्गमिति शेषः । तेषां मुनीनां परिचारिणी श्रमणी तापसी शबरी नामाद्यापि दृश्यत इत्यन्वयः । दृश्यतेपापचारिणीति पाठे अपापचारिणीति छेदः ॥ ३।७३।२५ ॥

त्वामिति । तु एवार्थे । त्वामेव दृष्ट्वा देवोपमं हे देव उपमम् उप समीपे मा लक्ष्मीः यस्य तं विष्णुं त्वामित्यर्थः । सर्गलोकं स्वः गीयत इति स्वर्गः स्वर्गश्चासौ लोकश्च स्वर्गलोकः तम्, वैकुण्ठमित्यर्थः । कुतः? नित्यं धर्मे उपासनादिके स्थिता “विद्यया देवलोकः” इति श्रुतेः ॥ ३।७३।२६ ॥

तत इति । गुह्यं गूढम् ॥ ३।७३।२७ ॥

नेति । तदाश्रमं शबर्याश्रमम् । नागाः गजाः । नागानाक्रमणस्य प्रसक्तिं दर्शयति विविधा इति । पर्वतमात्रेण नागाप्रसक्तौ सत्यामपि तदेकदेशे मतङ्गाश्रमे तदीयतपःप्रभावेन नागानां न सञ्चार इति भावः ॥ ३।७३।२८ ॥

विधानान्निर्माणात् ॥ ३।७३।२९ ॥

तस्मिन्निति । देवारण्योपमे चैत्ररथवनतुल्ये । यद्वा देवानां विहारार्थवनान्युच्यन्ते ॥ ३।७३।३० ॥

ऋश्यमूक इति । सुदुःखारोहणः सुदुःखेनारोहणं यस्य सः । तत्र हेतुः शिशुनागाभिरक्षितः बालसर्पैरधिष्ठितः । उदारः तथा ऋश्यमूकः ब्रह्मणा पूर्वकाले विनिर्मित इत्यन्वयः ॥ ३।७३।३१ ॥

अक्रमोदार्यं समर्थयति शयान इति । अधिगच्छति प्राप्नोति ॥ ३।७३।३२ ॥

सुदुःखारोहणत्वे हेत्वन्तरमाह न त्वेनमिति ॥ ३।७३।३३,३४ ॥

शुशुनागानां बालगजादीनाम् आक्रन्दः ध्वनिः तस्मिन् पर्वते श्रूयते ॥ ३।७३।३५ ॥

सिक्ता इति । द्विपाः गजाः । संहत्य अन्योन्यमभिहत्य अत एव रुधिरधाराभिः सिक्ताः पृथक्कीर्णाः सञ्चारन्तीति योजना ॥ ३।७३।३६।३७ ॥

ऋक्षानिति । नीलकोमलकप्रभान् नीलमणिवत्कोमलकान्तीन् ॥ ३।७३।३८ ॥

ऋश्यमूकस्यासाधारणचिह्नमाह रामेति । शिलापिधानेति गुहा नामेति ज्ञातव्यम् ॥ ३।७३।३९४३ ॥

अन्तिकात् कबन्धस्येति शेषः । प्रस्थितौ व्रजस्वेति वाक्यमूचतुरिति सम्बन्धः ॥ ३।७३।४४ ॥

स इति । पूर्वोक्तार्थस्य संग्रहः । निदर्शयन् मार्गादिकमिति योजना । ऋश्यमूकस्यासाधारणमिति शेषः । खस्थो राममवेक्ष्येति किञ्चिद्दूरं गत्वा पुनः श्रीराममवेक्ष्य आकाशे स्थित्वा सख्यं कुरुष्वेत्युवाचेत्यन्वयः ॥ ३।७३।४५ ॥

इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां आरण्यकाण्डव्याख्यायां त्रिसप्ततितमः सर्गः ॥ ३।७३ ॥