०७२ सीताप्राप्त्युपायकथनम्

एवमुक्ताविति । पावकं विससर्जतुः पावकमुत्पादितवन्तावित्यर्थः ॥ ३।७२।१,२ ॥

तदिति । मेदसा, पूर्णस्येति शेषः । अत एव मन्दं दहति ॥ ३।७२।३ ॥

अरजे निर्मले ॥ ३।७२।४ ॥

सर्वप्रत्यङ्गभूषणः सर्वेषु प्रत्यङ्गेषु करचरणाद्यवयवेषु भूषणानि यस्य सः ॥ ३।७२।५ ॥

हंससंयुक्ते रामकृतसंस्कारप्रभावेण पूर्वतपःप्रभावेण चैवम्भूतं विमानं प्राप्तः ॥ ३।७२।६ ॥

तत्त्वेन परमार्थतः, उच्यमानमिति शेषः ॥ ३।७२।७ ॥

हे राम लोके षड्युक्तयः सन्धिविग्रहयानासनद्वैधीभावसमाश्रया इति षड्युक्तयः षड्गुणाः सन्ति । याभिर्युक्तिभिः सर्वं वस्तुजातं विमृश्यते विचार्यते । न्यायमार्गेण विचारो विमर्शः ॥ ३।७२।८ ॥

तत्र न्यायमार्गेण विमर्शे कृते ऊनयोः पुरुषयोर्द्वयोः संश्लेषो भवतीत्याह परिमृष्ट इति । दशान्तेन दशाशब्देनात्र दौस्थ्यरूपावस्था विवक्षिता तस्या अन्तः परिपाकस्तेन परिमृष्टः संस्पृष्टः पुरुषः, दुरवस्थामापन्नः पुरुष इत्यर्थः । दशाभागेन दशायाः दौस्थ्यरूपावस्थायाः भागः परिपाकलक्षणोंशो यस्य तेन दशाभागेन दुरवस्थापन्नेन पुरुषेण सेव्यते । संश्लिष्यते सन्धीयत इत्यर्थः । नन्वस्तु प्रकृते किमायातं तत्राह दशेति । हे राम सलक्ष्मणस्त्वं हीनः राज्यादिति शेषः । अत एव दशाभागगतः दुरवस्थामापन्न इत्यर्थः । ततः किम् तत्राह यत्कृत इति । यत्कृते यस्मात्कारणादित्यर्थः । त्वया दारप्रधर्षणं तद्रूपं व्यसनं प्राप्तम्, तत्तस्मात् सः मया वक्ष्यमाणः त्वया अवश्यं सुहृत् मित्रभूतः कार्यः कर्तव्यः । क्षीणेन त्वया क्षीणः सेव्य इत्याशयः । अवश्यमित्यत्र हेतुमाह अकृत्वेति । अकृत्वा तादृशं पुरुषं सुहृदमकृत्वेत्यर्थः । ते तव सिद्धिं सीताप्राप्तिलक्षणां नहि पश्यामीति योजना । यद्वा षड्युक्तय इति । तत्र युक्तयः प्रत्यक्षानुमानोपमानशब्दार्थापत्त्यभावप्रमाणानि पार्थसारथिमिश्रैः शास्त्रदीपिकायां युक्तिशब्दस्य प्रमाणपरतया व्याख्यातत्वात् । अस्यार्थः हे राम लोके षड्युक्तयः षट्प्रमणानि सन्ति, याभिः प्रत्यक्षादिभिस्सर्वं वस्तु विमृश्यते ज्ञाप्यते । अत्र सर्वप्रमाणैः क्षीणः पुरुषः क्षीणेन पुरुषेण सेव्यत इति फलितार्थः । तत्रान्वयव्यतिरेकमूलं प्रत्यक्षं दर्शयति दशाभागगतो हीनस्त्वमिति । यत्कृते व्यसनं प्राप्तं त्वया दारप्रधर्षणमित्यनुमानं दर्शयति । अकृत्वा नहि ते सिद्धिमहं पश्यामि चिन्तयन्नित्यर्थापत्तिं दर्शयति । वयस्यं तं कुरु क्षिप्रमितो गत्वाद्य राघवेति शब्दप्रमाणं दर्शयति ॥ ३।७२।९,१० ॥

स सुहृत् क इत्यपेक्षायामाह श्रूयतामिति ॥ ३।७२।११ ॥

पर्यन्तः प्रदेशः ॥ ३।७२।१२ ॥

तेजोवान् प्रतापवान् । अमितप्रभः अविच्छिन्नकान्तिः । द्युतिमान् ज्ञानलक्षणा द्युतिरस्यास्तीति तथा ॥ ३।७२।१३१६ ॥

अद्रोहायेति । अद्रोहाय अन्योन्यक्षेमाय । दीप्यमाने विभावसौ तत्सन्निधौ वयस्यं कुर्विति सम्बन्धः ॥ ३।७२।१७,१८ ॥

शक्तोप्यद्य तथा कर्तुं कार्यं तस्य चिकीर्षितम् इति पाठः । अद्यापि क्षीणदशायामपि । तथा सीता यथा दृश्यते तथा । तस्य तव चिकीर्षितं कर्तुमिष्टं सीतान्वेषणरूपं कार्यं कर्तुं शक्त इत्यन्वयः ॥ ३।७२।१९ ॥

स इति । पम्पामटति पम्पातीरे सञ्चरति । कृतकिल्बिषः कृतवैरः ॥ ३।७२।२० ॥

आयुधमग्निसन्निधौ निक्षिप्य तेनाहितसत्येन तं वयस्यं कुर्वित्यर्थः ॥ ३।७२।२१ ॥

अधिगच्छन्ति अन्वेष्यतीत्यर्थः ॥ ३।७२।२२,२३ ॥

अधिगमिष्यति ज्ञास्यति ॥ ३।७२।२४ ॥

वानरानिति । रावणालये शोचतीमिति सम्बन्धः । अनेन ज्ञायते सर्वदिक्षु रावणालयाः सन्ति, तत्र किंदिक्स्थरावणालये इति ज्ञातुं सर्वदिग्वचनम् ॥ ३।७२।२५२७ ॥

इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायामारण्यकाण्डव्याख्यायां द्वसप्ततिमः सर्गः ॥ ३।७२ ॥