०७१ कबन्धेन स्ववृत्तान्तकथनम्

पुरेति । अचिन्त्यम् अचिन्त्यवैभवम् ॥ ३।७१।१ ॥

सो ऽहं पूर्वोक्तविशेषणविशिष्टोहम् । इदं रूपं इदानीं विद्यमानराक्षसरूपं कृत्वा ॥ ३।७१।२ ॥

विविधं विचिन्वन् सम्पादयन् स्थूलशिरा नाम ऋषिः मया कर्त्रा अनेन रूपेण इदानीं विद्यमानराक्षसरूपेण करणेन धर्षितः तिरस्कृतस्सन् कुपितो ऽभूदिति शेषः ॥ ३।७१।३ ॥

घोरशापाभिधायिना घोरशापभाषणशीलेन ऋषिणा । नृशंसं घातुकम् । विगर्हितं जुगुप्सितम् । एतद्रूपमेव अस्त्विति तेनाहमुक्त इति सम्बन्धः ॥ ३।७१।४ ॥

स इत्यादि श्लोकद्वयमेकं वाक्यम् । अभिशापकृतस्य अभिशापशब्देन तन्निमित्तं धर्षणं लक्ष्यते । तत्कृतस्य शापस्यान्तो भवेदिति स ऋषिर्मया याचितः प्रार्थितः सन् यदा रामो भुजौ छित्त्वा त्वां दहेत् तदा स्वं रूपं प्राप्स्यस इति तेन वचो भाषितमिति द्वितीयेतिकरणस्य सम्बन्धः ॥ ३।७१।५,६ ॥

श्रियः श्रिया विराजितं दनोः पुत्रं विद्धि । यद्वा दनोर्दनुवंशजस्य श्रियः श्रीनाम्नः पुत्रं विद्धि, मामिति शेषः । “दनुर्नाम श्रियः पुत्रः शापाद्राक्षसतां गतः” इति किष्किन्धाकाण्डे वक्ष्यमाणत्वात् । ननु कबन्धाकारत्वं त्वया कथं प्राप्तमत आह इन्द्रेति ॥ ३।७१।७ ॥

इन्द्रकोपे कारणं वर्णयति अहं हीति द्वाभ्याम् । विभ्रमो गर्व इत्यर्थः ॥ ३।७१।८ ॥

तदेवाह दीर्घमायुरिति ॥ ३।७१।९ ॥

(स्कन्धिनि कण्ठे) । शतपर्वणा शतधारेण । सक्थिनी इति नाभ्यधोभागोपलक्षणम् । शरीरे शरीरमध्यस्थे उदरभागे ॥ ३।७१।१० ॥

एवम्भूतेन मरणं याच्यमानोपि तन्नाकरोत् । किमिति नाकरोत्तत्राह पितामहेति । तद्वचो दीर्घायुर्दानरूपम् ॥ ३।७१।११ ॥

वज्रिणा त्वया ऽभिहितः जीवितुं कथं शक्त इत्यन्वयः ॥ ३।७१।१२ ॥

एवमुक्तः अनाहारस्याक्रियस्य कथं जीवनमित्युक्तः ॥ ३।७१।१३ ॥

वनेचरान् वने सञ्चारवतः ॥ ३।७१।१४१६ ॥

अवश्यमिति । देहन्यासकृतश्रमः विकृतदेहत्यागे कृतोद्योगः । अवश्यं रामग्रहणं समुपैष्यतीत्यहं मन्य इति बुद्धिं पुरस्कृत्य सर्वस्य ग्रहणं साधु रोचय इति पूर्वेण सम्बन्धः ॥ ३।७१।१७,१८ ॥

सर्वदा दाहोत्तरं बुद्धिसाहाय्यं करिष्यामि मित्रं चोपदेक्ष्यामि ॥ ३।७१।१९ ॥

एवमिति । दनुना तद्वंश्येन ॥ ३।७१।२०,२१ ॥

नाममात्रम्, आप्तस्य जटायुषो वाक्यादिति भावः ॥ ३।७१।२२ ॥

शोकार्तानामित्यादि श्लोकत्रयमेकं वाक्यम् । उचितं कारुण्यं कर्तुं वर्ततामस्माकं सीतामाचक्ष्व, कुरु कल्याणमिति सम्बन्धः । तदेवाह काष्ठानीति । यद्वा शोकार्तानमिति उपकारे सति सदृशं कारुण्यं कर्तुं वर्तताम् । तदेवाह काष्ठानीति । कल्याणं सीतावार्ताश्रवणानन्दरूपम् ॥ ३।७१।२३३३ ॥

इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां आरण्यकाण्डव्याख्यायाम् एकसप्ततितमः सर्गः ॥ ३।७१ ॥