तौ तु तत्रेत्यादि । बाहुपाशपरिक्षिप्तौ बाहुपाशावृतौ ॥ ३।७०।१ ॥
क्षुधार्तस्य मम दैवेन आहारार्थं सन्दिष्टौ अतः किन्नु तिष्ठत इति तावब्रवीदिति पूर्वेण सम्बन्धः । वस्तुतस्तु तिष्ठत इति । हे क्षत्रियर्षभौ युवां दैवेन आहारार्थं सिन्दिष्टौ किम्, ममेति शेषः । गतचेतसौ किं तादृशौ न भवतः । अतः क्षुधार्तं मां दृष्ट्वा किं तिष्ठतः गच्छतमिति शेषः । इत्यब्रवीदिति पूर्वेण सम्बन्धः ॥ ३।७०।२ ॥
तदिति । उवाच राममिति शेषः । प्राप्तकालं युक्तम् । विकरमे कृतलक्षणः आहितलक्षणः, पराक्रमसम्पन्न इति यावत् । “गुणैः प्रतीते तु कृतलक्षणौ” इत्यमरः ॥ ३।७०।३ ॥
त्वामिति । पुरा आदत्ते आदास्यतीत्यर्थः ॥ ३।७०।४ ॥
भीषण इति । भुजविक्रमः भुजयोर्विक्रमो यस्य सः । भीषण इति पादपूरणार्थे अप्यर्थे चात्र हिशब्दौ । लोकमतिजितमत्यन्तपराजितं कृत्त्वा तद्वदावामपि हन्तुमिच्छति । अतोस्य बाहू छिन्दावहै इति पूर्वेण सम्बन्धः ॥ ३।७०।५ ॥
अस्य हननमेव युक्तमित्याकांक्षायामाह निश्चेष्टानामिति । निश्चेष्टानाम् अकृतविक्रमाणां वधः कुत्सितः अयुक्त इत्यर्थः । क्रतुमध्योपनीतानां क्रतुमध्यादन्यत्र नीतानां, क्रतुबाह्यानाम्, क्रत्वनङ्गभूतानामिति यावत् । वध इवेति ॥ ३।७०।६ ॥
एतदिति । तयोरेतज्जल्पनं श्रुत्वेति सम्बन्धः । भक्षयितुमारभत्, हस्ताभ्यामाकृष्टवानित्यर्थः ॥ ३।७०।७ ॥
तत इति । सुसंविग्रौ भीतौ, वस्तुतस्तु सुसंविग्रौ कम्पयुक्तौ भुजौ ॥ ३।७०।८ ॥
दक्षिणः समर्थः । असक्तमप्रतिबन्धं यथा तथा ॥ ३।७०।९ ॥
गां भुवम् ॥ ३।७०।१० ॥
स इति । कौ युवामिति पप्रच्छ । पूर्वमप्राप्तोत्तरत्वात्पुनः प्रश्नः ॥ ३।७०।११,१२ ॥
इक्ष्वाकुदायादः दशरथपुत्रः ॥ ३।७०।१३ ॥
यामिच्छन्तौ यामन्वेषयन्तौ ॥ ३।७०।१४ ॥
विचेष्टसे चेष्टमानस्तिष्ठसि ॥ ३।७०।१५ ॥
एवमुक्त इति । इन्द्रवचनं श्रीरामेण तव बाहुच्छेदने कृते तव मोक्षो भविष्यतीत्येवंरूपं वचनं स्मरन् ॥ ३।७०।१६ ॥
बाहुबन्धनौ बाहुपाशौ ॥ ३।७०।१७ ॥
विरूपं विकृतम् ॥ ३।७०।१८ ॥
इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायामारण्यकाण्डव्याख्यायां सप्ततितमः सर्गः ॥ ३।७० ॥