०६९ अयोमुख्याः कर्णादिछेदः

कृत्वैवमित्यादि । पश्चिमामित्यत्रोक्तेरुत्तरश्लोके दक्षिणामित्युक्तेश्च नैऋतिं जग्मतुरिति लभ्यते ॥ ३।६९।१ ॥

ताविति । अविप्रहतम् अक्षुण्णं पन्थानम् ॥ ३।६९।२ ॥

गुल्मैरिति । गुल्माः वंशेक्षुप्रभृतयः । तथाच गुल्मैर्वृक्षैश्च आवृतमाकीर्णं लताभिः प्रवेष्टितम् । दुर्गं विषमम् । गहनं दुष्प्रवेशम् एवंविधं महारण्यं व्यतियातौ अतिक्रम्य गतौ ॥ ३।६९।३,४ ॥

गम्य गत्वा गहनं दुष्प्रवेशं क्रौञ्चारण्याख्यं गहनं वनमिति वा ॥ ३।६९।५ ॥

नानामेघेति । प्रहृष्टमिव सर्वतः नवगतपुष्पविकासादिना तद्गतमृगादिहर्षेण च वनस्य प्रहृष्टत्वव्यपदेशः ॥ ३।६९।६,७ ॥

ततः पूर्वेणेति । क्रौञ्चारण्यमतिक्रम्य अन्तरा अन्तरप्रदेशे मतङ्गाश्रमं पूर्वेण त्रिक्रोशं गत्वेति पदयोजनां कृत्वा महद्वनमपश्यतामिति वाक्यशेषो ऽनुसन्धेयः । दृष्ट्वा तु तद्वनमित्युत्तरत्रानुवादात् ॥ ३।६९।८ ॥

दृष्ट्वेति । गहनपादपं निबिडवृक्षम् । तत्र वने । दरीं गुहां पातालसमगम्भीराम् रसातलतुल्याम् अत एव गम्भीराम् निम्नाम् ॥ ३।६९।९,१० ॥

आसाद्येति तस्याः विदूरतः समीप इत्यर्थः ॥ ३।६९।११ ॥

भयदामित्यादि । अल्पसत्त्वानां भीरूणां बीभत्सां जुगुप्सिताम् । करालां तुङ्गशरीराम् “करालो भीषणे तुङ्गे” इति विश्वः । परुषा कर्कशा त्वक् यस्यास्तां परुषत्वचम् । परुषस्वनामिति वा पाठः । विकटाम् अतिस्थूलाकाराम् ॥ ३।६९।१२,१३ ॥

समालम्बत गृहीतवती ॥ ३।६९।१४ ॥

उवाचेति । ते त्वया लब्धा । लाभस्ते त्वमसि प्रियः इति च क्वचित्पाठः ॥ ३।६९।१५ ॥

नाथेति । आयुश्चिरं चिरमायुः ॥ ३।६९।१६ ॥

एवमिति । कर्णनासस्तनमिति प्राण्यङ्गत्वादेकवद्भावः ॥ ३।६९।१७,१८ ॥

तस्यामिति । गहनं दुष्प्रवेशम् ॥ ३।६९।१९,२० ॥

स्पन्दत इति । बाहुः, वाम इति शेषः । अनिष्टानि अशुभसूचकानि ॥ ३।६९।२१ ॥

तस्मादिति । सज्जीभव यत्तो भव । सम्भ्रमं भयम् ॥ ३।६९।२२ ॥

वञ्चुलकः कर्णवालः ॥ ३।६९।२३ ॥

तयोरिति सार्धश्लोकः । ओजसा सामर्थ्येन । तयोः रामलक्ष्मणयोः । सर्वं तद्वनमेवमुक्तरीत्या अन्वेषतोस्सतोः तद्वनं प्रभञ्जन्निव विपुलः शब्दः सञ्जज्ञे आविर्भूतः । कीदृशं तद्वनम्? मातरिश्वना वायुना ऽत्यर्थं वेष्टितं गगनमिव मातरिश्वना पूरितं गगनं प्रभञ्जन् यथा शब्दस्सञ्जायते तथा तद्वनं प्रभञ्जन्निव शब्दः संजज्ञ इत्यर्थः ॥ ३।६९।२४२६ ॥

आसेदतुरित्यादि सार्धश्लोकषट्कमेकं वाक्यम् । विवृद्धं विवृद्धकारम् अशिरोग्रीवम् अदृश्यमानशिरोग्रीवमित्यर्थः ॥ ३।६९।२७२९ ॥

उरसि उरस्समीपे नयनेनोपलक्षितम् कबन्धस्य उदरमुखतया ललाटस्थनेत्रमुरस्समीपे उरस्समीप इति व्याख्यायते ॥ ३।६९।३० ॥

भुजौ विकुर्वाणं विक्षिपन्तम् ॥ ३।६९।३१ ॥

आकर्षन्तम् इष्टान्मृगानाभिमुख्येन विकर्षन्तमनिष्टान्मृगान्मुञ्चन्तम् । प्रपन्नयोः पन्थानं प्राप्तयोः ॥ ३।६९।३२ ॥

समाभिक्रम्य आभिमुख्येन गत्वा । ददृशुरिति पुनर्ग्रहणं क्रोशमात्र इति विशेषयितुम् । भुजसंवृतं भुजाभ्यां संवृणोतीति भुजसंवृतम् ॥ ३।६९।३३३५ ॥

विवशं प्राप्तौ बलात्करणं प्राप्तौ ॥ ३।६९।३६ ॥

तत्रेति । अनाश्रयत्वात् परमाश्रयरूपश्रीरामस्यापि कबन्धभुजावृतत्वादनाश्रयत्वोक्तिः ॥ ३।६९।३७ ॥

विनिर्युक्तः वियुक्तः । परिमुञ्चस्व, मामिति शेषः ॥ ३।६९।३८ ॥

एतस्यैव विवरणम् मामिति । भूतबलिं भूतस्य कबन्धस्य बलिम् ॥ ३।६९।३९ ॥

अधिगन्ता प्राप्स्यसि ॥ ३।६९।४०४३ ॥

दैवेन मम चाक्षुषौ दैवगत्या मम चक्षुर्गोचरौ ॥ ३।६९।४४ ॥

इह वने । वां युवयोः कार्यं वदतम् । क्षुधार्तस्य मम सम्बन्धिनमिमं देशं किमर्थमागतौ ॥ ३।६९।४५,४६ ॥

परिशुष्यता मुखेनोपलक्षितं लक्ष्मणम् ॥ ३।६९।४७ ॥

तां प्रियाम् अप्राप्य दारुणं व्यसनं प्राप्य स्थितयोरावयोर्जीवितान्ताय कृच्छ्रात्कृच्छ्रतरं व्यसनं प्राप्तमिति सम्बन्धः । सीताविप्रणाशजनितदुःखादप्यतिशयितमाधुनिकं दुःखमिति भावः ॥ ३।६९।४८ ॥

“सर्वं वाक्यं सावधारणम्” इति न्यायेनात्र एवकारो द्रष्टव्यः । अस्यार्थः सर्वभूतेषु मध्ये कालस्यैव सुमहद्वीर्यम् अस्तीति शेषः । कुतः? त्वां त्वादृशम् मां मादृशं च व्यसनैः कालकृतैरिति शेषः । मोहितौ पश्येत्यर्थः ॥ ३।६९।४९ ॥

नातीति । दैवस्य कालस्य सर्वभूतेषु विषये । यद्वा सर्वभूतेषु सर्वभूतानां संहार इति शेषः । नातिभारोस्ति न प्रयाससाध्य इत्यर्थः । कुतः? शूराश्चेति । स महाबाहुरित्यारभ्य तत्र मां राम राज्यस्थ इत्यन्तस्य वास्तवार्थे ऽयमर्थः स कबन्धस्तौ जग्राह । यद्यपि तथापि तौ विवशं विव इति निपातौ पादपूरणार्थौ । शं सुखं प्राप्तौ । यद्वा विवशं वेः पक्षिणः गरुत्मतः वशं प्राप्तौ गरुडारूढावित्यर्थः । तौ स जग्राहेति पूर्वेण सम्बन्धः । तत्र लक्ष्मणस्य मनुष्यनाट्यं दर्शयति तत्रेति । तु इवार्थे । अभिविव्यथ इव । तदनुरूपवचनान्याह पश्य मामित्यारभ्य तत्र मां रामेत्यन्तेन । काविति । क्षुधार्तस्य भक्षाविव ममास्यं प्रति सबाणचापखड्गौ यदा सम्प्राप्तौ तदा मम जीवितं दुर्लभमिति सम्बन्धः । तस्येति । परिशुष्यता मुखेनोपलक्षितस्य कबन्धस्य वचनं श्रुत्वेति सम्बन्धः । कृच्छ्रात्कृच्छ्रतरमित्यादेः वास्तवार्थस्तु दारुणं कृच्छ्रतरं प्राप्यापि तां प्रियामप्राप्य जीवितान्ताय व्यसनं प्राप्तमित्यादिलोकरीतिमनुसृत्य सीतादर्शनव्याजेनोक्तिः ॥ ३।६९।५० ॥

इतीति । दृढसत्यविक्रमः अचञ्चलः सत्यः स्वाभाविकः विक्रमो यस्य सः दाशरथिः सौमित्रिमवेक्ष्य स्वां स्वीयां मतिमात्मना स्वयमेव स्थिरां स्थैर्ययुक्तामकरोत् ॥ ३।६९।५१ ॥

इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां आरण्यकाण्डव्याख्यायां एकोनसप्ततितमः सर्गः ॥ ३।६९ ॥