राम इति । रौद्रेण रक्षसा । अनेन रक्षसां तमःप्राधान्यमेवेति सूचितम् । मित्रसम्पन्नं मित्रत्वेन सम्पन्नम् । सर्वजनेषु मेत्र्या युक्तम् ॥ ३।६८।१,२ ॥
अयमिति । तथा अतिखिन्नप्राण इव स्वरहीनो विह्वलेक्षणश्च ॥ ३।६८।३ ॥
व्याहरितुं व्याहर्तुम् । वधं वधप्रकारम् ॥ ३।६८।४ ॥
किन्निमित्तमिति । किं निमित्तं यस्य सः ॥ ३।६८।५७ ॥
तमिति । वाचा अतिसन्नया कृशया ॥ ३।६८।८ ॥
वातदुर्दिनसङ्कुलाम् वातैः दुर्दिनेन च सङ्कुलाम् ॥ ३।६८।९,१० ॥
उपरुध्यन्ति संक्षीयन्ते संक्षिप्यन्त इति वा । उशीरकृतमूर्द्धजान् सौवर्णवृक्षदर्शनं मरणचिह्नं ज्योतिःशास्त्रप्रामाण्यात् ॥ ३।६८।११ ॥
तव सीताप्राप्तिरित्यहं कथयामीत्याह येनेत्यादि द्वाभ्याम् । येन मुहूर्ते रावणः सीतामादाय यातः असौ मुहूर्तो विन्दो नाम तत्र नष्टं धनं पुनरायास्यति तदेतत्स रावणो नाबुधत् नाबुद्ध्यत सीतामोहितत्वात् । विन्दते अनेन नष्टं धनमिति विन्दः । “विदूलृ लाभे” इति धातुः । सच एकादशो मुहूर्तः । मुहूर्तलक्षणं तूक्तं पुराणे “रौद्रः श्वेतश्च मैत्रश्च तथा सारभटः स्मृतः । सावित्रो वैश्वदेवश्च गान्धर्वः कुतपस्तथा । रौहिणस्तिलकश्चैव विजयो नैऋतस्तथा । शम्बरो वारुणश्चैव भगः पञ्चदशः स्मृतः ॥ " इत्येते अह्नि मुहूर्ताः। अत्र विजयस्यैव नामान्तरं विन्द इति ज्ञैयम्। यद्वा विन्दः घटिका। न केवलं मुहूर्तमहिम्ना सीतारूपेष्टप्राप्तिः अपित्वनिष्ठरूपरावणविनाशोपीत्याह झषवदिति। झषवत् मत्स्यवत् बडिशं मत्स्यबन्धनम्। विनश्यति, सीतापहर्तेति शेषः ॥
३।६८।१२१४ ॥
असम्मूढस्य मृतिदशायामपि भ्रान्तिरहितस्य । अनुभाषतः उत्तरं भाषमाणस्य ॥ ३।६८।१५१७ ॥
स इति । विक्षिप्य विधाय । ननु रावणहतस्य जटायोरेतावन्तं कालं प्राणधारणं कथमिति चेत्? तस्याः सीताया अनुग्रहवशादित्यनुसन्धेयम् । उक्तं च स्कन्दे “देवी मां प्राह राजेन्द्र यावत्सम्भाषणं मम । भवतस्तावदासन्मे प्राणा इत्याह जानकी ॥ " इति ॥
३।६८।१८,१९ ॥
बहूनीति । अनेन पक्षिणा इह वने विचीर्णमनुभूतं विचरितमिति वा ॥ ३।६८।२० ॥
चिरकालसमुत्थितः चिरकालमभ्युदयं प्राप्तः ॥ ३।६८।२१ ॥
सीतामभ्यवपन्नः सीतां मोचितुमभिगतः सन् रावणेन हत इत्यन्वयः ॥ ३।६८।२२२४ ॥
सीताहरणजमिति । तथा आगतमिति च्छेदः । मत्कृते च मन्निमित्तमेव । गृध्रस्य विनाशो यथा यादृशमागतं प्राप्तं सीताहरणजं दुःखं तथा तादृशं न भवतीति शेषः । सीताहरणदुःखाद्गृध्रनाशदुःखमधिकमिति भावः ॥ ३।६८।२५ ॥
कुतः? पूजनीयः मान्यः श्लाघनीयश्च ॥ ३।६८।२६ ॥
दिधक्षामि दग्धुमिच्छामि ॥ ३।६८।२७,२८ ॥
या गतिरिति श्लोकद्वयमेकं वाक्यम् । गतिः गम्यत इति गतिः, लोक इत्यर्थः । यज्ञशीलादीनां लोकमार्गेण अपरावर्तिनां पुनरावृत्तिरहितानां मुक्तानां लोकान् । पूजायां बहुवचनम् । लोकं वैकुण्ठाख्यं व्रज प्राप्नुहीत्यर्थः । तिरश्चां प्राप्तं द्विजोत्तम । तस्मान्मम प्रसादेन विष्णुलोकमवाप्स्यसि ॥ " इति। “सुग्रीवो हनुमानृक्षो गजो गृध्रो वणिक्पथः।” इत्यादौ मुक्तमध्यपरिगणनाच्च जटायुषो मुक्तिप्राप्तिस्सिद्धेत्यवगम्यते इति। अपरावर्तिनां सङ्ग्रामे इति शेषः। गम्यत इति गतिः लोकः। यज्ञशीलानां लोकान् क्रमेण प्राप्य मदनुज्ञातस्सन् अनुत्तमान् येभ्यः परे उत्तमा न सन्ति तान् लोकान् ब्रह्मलोकान् क्रममुक्तिदान् गच्छ। अनेन सङ्कल्पमात्रात्कर्मानधिकृततिरश्चस्साधनहीनस्यापि तल्लोकदानेन भगवान्रामः स्वस्वरूपांशे माययावृतज्ञान इति प्रलपतां मुखं ध्वस्तम्, शोकादि तु नटनमित्युक्तमेवासकृत्। तदुक्तं “संस्कारमकरोत्तस्य रामो ब्रह्मविधानतः। स्वपदं च ददौ तस्मै सोपि रामप्रसादतः ॥
हरेस्सामान्यरूपेण प्रययौ परमं पदम् ॥ " इति जटायुषं प्रक्रम्य पाद्मे। एतेन तिरश्चामपि स्नेहादिना देहादि युक्तमिति ध्वनितम्। सारूप्यमुक्तिलाभश्चोक्तः। मया मद्रूपेण सामान्यहरिरूपेण ॥
३।६८।२९३१ ॥
राम इति । स्थूलान् हत्वा महारोहीननुतस्तार तं द्विजमिति । ईकारान्तत्वमार्षम् । महारोहीन् महामृगान् । हत्वा तं गृध्रम् अनु उद्दिश्य तस्तार निरवपत् दर्भानास्तीर्य मांसपिण्डप्रदानं कृतवानित्यर्थः ॥ ३।६८।३२ ॥
एतदेव विशदयति रोहीति । रोहिमांसानि चोत्कृत्य उद्धृत्य । पेशीकृत्य पिण्डीकृत्य । शकुनाय जटायुषे पिण्डप्रदानाय कुशास्तृते हरितशाद्वले ददावित्यन्वयः ॥ ३।६८।३३ ॥
यत्तदिति । स्वर्गगमनं गम्यते अनेनेति गमनम्, गमनसाधनमित्यर्थः । स्वर्गगमनसाधनं याम्यसूक्तं नारायणसूक्तं च जजापेत्यर्थः । उदकं चक्रतुः, एतदनन्तरं पिण्डदानादिकं द्रष्टव्यम् ॥ ३।६८।३४,३५ ॥
उक्तस्यैवार्थस्य स्नानपूर्वकत्वप्रदर्शनार्थं पुनर्वचनम् । शास्त्रदृष्टेनेत्यादि ॥ ३।६८।३६ ॥
उक्तार्थमादरातिशयेन पुनस्सङ्गृह्णाति स इति । रणे सीतानिमित्तं दुष्करं कर्म प्राणविनाशपर्यन्तं व्यापारं कृतवान् स गृध्रराजः रावणेन निपातितः महर्षिकल्पेन महर्षितुल्येन रामेण संस्कृतश्च तदा तदुत्तरक्षण एव पुण्यां पुण्यफलभूताम् आत्मनस्सुखावहां गतिं लोकं जगाम ॥ ३।६८।३७ ॥
कृतोदकाविति, इदं पिण्डदानस्याप्युपलक्षणम् । पक्षिसत्तमे पितरि चेति शेषः । स्थिरां बुद्धिं प्रणिधाय निक्षिप्य कृतोदकौ सन्तौ ततो ऽनन्तरम् । सीताधिगमे सीताप्राप्तौ निमित्ते मनः प्रवेश्य तौ रामलक्ष्मणौ सुरेन्द्रौ सुराणामिन्द्रौ विष्णुवासवौ उपेन्द्रेन्द्राविव वनं जग्मतुरित्यन्वयः ॥ ३।६८।३८ ॥
इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायामारण्यकाण्डव्याख्यायामष्टषष्टितमः सर्गः ॥ ३।६८ ॥