०६७ जटायुषा सीतावृत्तान्तकथनम्

पूर्वजोपीति । महासारं युक्तियुक्तमित्यर्थः ॥ ३।६७।१४ ॥

सन्तीति । निर्दराः शिलोद्भेदमार्गाः । कन्दराणि दर्यः । गुहाः पाषाणसन्धयः । युक्तः सन्नद्धः । इह जनस्थाने ॥ ३।६७।५७ ॥

क्षुरं क्षुरवन्निशितम् ॥ ३।६७।८११ ॥

एनमिति । वधिष्ये इति लक्ष्मणमब्रवीदिति सम्बन्धः ॥ ३।६७।१२१४ ॥

यामिति । ओषधिं दिव्यौषधिलतामिव ॥ ३।६७।१५,१६ ॥

सीतामिति । सीतामभ्यवपन्नो ऽहं सीतां मोचयितुमभिगतवानस्मीत्यर्थः । तदा रावणः पातितः ॥ ३।६७।१७ ॥

शरावरं कवचम् ॥ ३।६७।१८२१ ॥

राम इति । तस्य जटायुषः । विज्ञाय, स्वरूपमिति शेषः । सीतासक्तां सीताविषयां कथाम् । श्रुत्वेति शेषः । राम इति सार्धश्लोकमेकं वाक्यम् । रामो रुरोदेत्यस्यायमभिप्रायः परमेश्वरस्य श्रीरामस्य भक्तपक्षपातित्वेन भक्तं जटायुषमापन्नं दृष्ट्वा परमप्रियां सीतां रावणेन हृतां च श्रुत्वा “व्यसनेषु मनुष्याणां भृशं भवति दुःखितः” इत्युक्तेः भक्तापदं दृष्ट्वा रुरोदेति । द्विगुणीकृततापार्तो, बभूवेति शेषः । सीतादर्शनजस्तापः निजभक्तजटायुवधजनिततापश्च । एवं तापस्य द्विगुणत्वम् ॥ ३।६७।२२,२३ ॥

एकमिति । दुर्गे लताकण्टकसङ्कीर्णतया केनापि प्रवेष्टुमशक्ये । एकायने एकमार्गे । पतित्वेति शेषः । कथञ्चन निश्वसन्तं मृतप्रायम् एकम् असहायम् ॥ ३।६७।२४ ॥

राज्येति । निर्दहेदपि पावकं सकलवस्तुदाहकमपि दहेत् किमुतान्यमित्यर्थः ॥ ३।६७।२५ ॥

सम्पूर्णमिति । महोदधिं प्रविशेयं यदि सीताविरहजनिततापनिवृत्त्यर्थमिति शेषः । सोपि सरितां पतिः मम अलक्ष्म्याः अभाग्यात् विशुप्येदित्यर्थः ॥ ३।६७।२६ ॥

येन अभाग्येन ॥ ३।६७।२७,२८ ॥

इतीति । पितृस्नेहं पितरीव स्नेहम् ॥ ३।६७।२९,३० ॥

इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायामारण्यकाण्डव्याख्यायां सप्तषष्टितमः सर्गः ॥ ३।६७ ॥