तमित्यादि । परिद्यूनं परिदेवनं प्राप्तं शोचन्तमित्यर्थः । “दिवो ऽविजिगीषायाम्” इति निष्ठानत्वम् । “च्छ्वोश्शूडनुनासिके च” इत्यूठ् । यद्वा परिद्यूनं क्षीणम् । अचेतनम् अस्वस्थचित्तम् ॥ ३।६६।१,२ ॥
महतेति । तपसा पुत्रकामनया कृतेन तपसा । कर्मणा पुत्रकामेष्ट्यादिरूपेणेत्यर्थः ॥ ३।६६।३ ॥
तवेति । देवत्वमापन्नः स्वर्गं गतः । भरतस्य यथा श्रुतम्, मुखादिति शेषः । यथा यथावच्छुतमित्यन्वयः ॥ ३।६६।४६ ॥
[आश्वसिहीति । “नहवै शरीरस्य सतः प्रियाप्रिययोरपहतिरस्ति” इति श्रुतेः ॥ ] अन्येपि महात्मानो दुःखं प्राप्नुवन्तीति दृष्टान्तमुखेनाह लोक इति। एषः दुःखसम्बन्धः, लोकस्वभावः लोकस्य जनस्य स्वभावः, स्वभावप्राप्त इति यावत्। अनयः स्वर्गभ्रंशरूपदुःखमित्यर्थः। समस्पृशत् इति पाठः। प्राप्तवानित्यर्थः ॥
३।६६।७ ॥
महर्षिरिति । तथैवास्य पुनर्हतम्, विश्वामित्रेणेति भावः ॥ ३।६६।८ ॥
ये चेति । भूमेश्चलनम्, कदाचिदिति शेषः ॥ ३।६६।९ ॥
धर्मौ धर्मप्रवर्तकौ । नेत्रौ नेतारौ । कालपरिच्छेदादिमुखेन जगतां प्रवर्तकौ ॥ ३।६६।१० ॥
न दैवस्य प्रमुञ्चन्ति सर्वभूतादिदेहिनो देवस्य सर्वेश्वरस्य वशं न प्रमुञ्चन्ति नातिक्रामन्ति ॥ ३।६६।११ ॥
नयानयौ तन्मूलार्थानर्थौ ॥ ३।६६।१२,१३ ॥
त्वद्विधा इति । अनिर्विण्णदर्शनाः विषादरहितान्तःकरणा इत्यर्थः ॥ ३।६६।१४ ॥
यतः बुद्ध्या सूक्ष्मबुद्ध्या युक्ता जना इत्यर्थः । शुभाशुभे जानन्ति अतस्त्वमपि बुद्ध्या तत्त्वतः इदं दुःखं कथं मया प्राप्तमिति समनुचिन्तयेति सम्बन्धः । शुभाशुभे पुण्यपापे ॥ ३।६६।१५ ॥
लोके सर्वेषामपि कर्मफलमवश्यम्भावीत्याह अदृष्टेति । अदृष्टगुणदोषाणाम् अदृष्टाः शास्त्रैकसमधिगम्यतया प्रत्यक्षतो द्रष्टुमशक्याः गुणदोषाः सुखदुःखरूपाः येषां तेषाम् अत एव अध्रुवाणाम् अनिश्चितफलानाम् । सत्कर्मानुष्ठाने दुःखमित्यन्वयव्यतिरेकसूचकप्रत्यक्षप्रमाणेनानिश्चितफलानामित्यर्थः । कर्मणां क्रियामन्तरेण अनुष्ठानं विना इष्टं फलं सुखं दुःखं चेत्यर्थः । न प्रवर्तते कारणं विना कार्यानुत्पत्तेरित्याशयः । तथा चानुष्ठितस्य कर्मणः शुभमशुभं वा ऽवश्यं भोक्तव्यमिति भावः ॥ ३।६६।१६ ॥
त्वमेवेति । अन्वशाः शिक्षितवानसि । अनुशिष्यात् शिक्षयेत् ॥ ३।६६।१७ ॥
ते बुद्धिः देवैरपि दुरन्वया अन्वेतुमनुगन्तुमशक्या अतः शोकेन प्रसुप्तमन्तर्हितं ते ज्ञानं सम्बोधयामीत्यन्वयः ॥ ३।६६।१८ ॥
दिव्यः देवगन्धर्वादिः वधानर्हः सात्विकः पक्षो ज्ञेयः । मानुष मनुष्यलोकप्रभवो ब्राह्मणादिरहिंस्यो जनः तं च आत्मनस्तव पराक्रमं सर्वलोकसंहारसमर्थं चावेक्ष्यालोच्य द्विषतां वध्यानामेव वधे यतस्व सर्वत्र असङ्कोचेन पराक्रमे कृते ब्राह्मणादिसाधुबाधा भवेत् अतः अपराधिनमेव ज्ञात्वा जहीति भावः ॥ ३।६६।१९,२० ॥
इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायामारण्यकाण्डव्याख्यायां षट्षष्टितमः सर्गः ॥ ३।६६ ॥