तप्यमानमित्यादि । तप्यमानं तपन्तं रामं दृष्ट्वा राममब्रवीदिति रामशब्दद्वयस्य सम्बन्धः । अभवे नाशे युक्तमुद्युक्तम् । सांवर्तकमिति पाठः । संवर्तकं प्रलयकालीनम् । मुखेन परिशुष्यतेति लोकविनाशभयेनेति भावः ॥ ३।६५।१३ ॥
पुरेति । प्रकृतिं सर्वभूतहितत्वरूपम् ॥ ३।६५।४ ॥
चन्द्र इति । लक्ष्म्यादिकमेकैकस्य प्रतिनियतम् । त्वयि एतच्च सर्वं यशश्च प्रतिनियतमित्यर्थः ॥ ३।६५।५ ॥
अस्तु प्रकृते किमायातम् अत आह एकस्येति । नन्वेकस्यापराध इति कथं ज्ञायते? अत आह नत्विति । न जानाम्येवेत्यर्थः । यद्यप्येक इति विशेषतो न जानामि तथापि भग्नो रथस्त्वेक इति कृत्वा अयमेक एवास्माकम् अपराधीति जानामीति भावः ॥ ३।६५।६ ॥
खुरेति । उक्तविशेषणविशिष्टो देशः निर्वृत्तसङ्ग्रामः निष्पन्नसङ्ग्रामो देशो दृश्यत इति शेषः । अतः एकस्य, रथिकस्येति शेषः । न द्वयोः रथिकयोरिति शेषः । कुतः? महतो बलस्य सैन्यस्य पदं स्थानं न पश्यामीत्यर्थः ॥ ३।६५।७,८ ॥
उपसंहरति नैकस्येति । एकस्य कृते एकनाशनिमित्तमित्यर्थः । युक्तदण्डाः यथापराधदण्डाः । मृदवः अकठिनाः ॥ ३।६५।९,१० ॥
सरित इति । ते तव नालं न समर्थाः । दीक्षितस्य प्रक्रान्तयज्ञानुष्ठानस्य । साधवः ज्ञानसम्पन्नाः । ऋत्विजः विप्रियं शापाद्यपचारं कर्तुं न समर्थाः । “नैनं तप्तं नाभिचरितमागच्छति” इत्यादिश्रुतिबलादिति भावः ॥ ३।६५।११ ॥
मद्द्वितीयः अहं द्वितीयः सहायः यस्य सः ॥ ३।६५।१२१६ ॥
इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायामारण्यकाण्डव्याख्यायां पञ्चषष्टितमः सर्गः ॥ ३।६५ ॥