स दीन इति स्पष्टोर्थः ॥ ३।६४।१ ॥
लघुविक्रमः अविलम्बितपदन्यासः ॥ ३।६४।२ ॥
तीर्थवतीं जलावतरणयोग्यस्थलवतीम् । यद्वा पुण्योदकवतीम् ॥ ३।६४।३ ॥
नैनामिति । एनां सीताम् । तीर्थेषु न पश्यामि । क्रोशतः आह्वयतः मे मम । न श्रृणोति, वाक्यमिति शेषः ॥ ३।६४।४ ॥
क्लेशनाशिनी सति दर्शन इति भावः ॥ ३।६४।५८ ॥
तत इति । सा गोदावरी । भूतैः पञ्चमहाभूतैः । प्रचोदितापि नावददित्यन्वयः ॥ ३।६४।९ ॥
सा नदी गोदवरी ॥ ३।६४।१०१४ ॥
मन्दाकिनीमिति । मन्दाकिनी नाम काचिन्नदी ॥ ३।६४।१५ ॥
एत इति । मे मम वक्तुकामा इव मैथिलीवृत्तान्तमिति शेषः । मामीक्षन्ते । कुतः? यथा इङ्गितानि हृदयगताभिप्रायान् उपलक्षये, मृगाणामिति शेषः ॥ ३।६४।१६ ॥
तानिति । निरीक्षन्निति । मृगचेष्टाग्रहणार्थं सूक्ष्मदृष्टिं कुर्वन्नित्यर्थः ॥ ३।६४।१७ ॥
एवमित्यादि श्लोकद्वयमेकं वाक्यम् । अत्र श्लोके यत्तच्छब्दावध्याहार्यौ । अत्रैवमन्वयक्रमः नरेन्द्रेण श्रीरामेण एवमुक्ताः पृष्टास्ते मृगाः सहसोत्थिता दक्षिणाभिमुखास्सन्तो नभस्थलं दर्शयन्तस्सन्तः ह्रियमाणा सा मैथिली यन मार्गेम यां दिशमन्वपद्यत तस्यां दिशि तेन मार्गेण धावन्तो नराधिपं निरीक्षन्त इत्यन्वयः ॥ ३।६४।१८,१९ ॥
मृगकर्तृकनिरीक्षणेन किमत आह येनेति । येन कारणेन एते मृगाः मार्गं दक्षिणां दिशम् भूमिं च दक्षिणदिग्भूमिं च निरीक्षन्ते पुनश्च मार्गं दक्षिणां दिशम् इच्छन्तः गन्तुमिच्छन्तः तेन कारणेन ते मृगाः लक्ष्मणेनोपलक्षिताः गृहीतचेष्टार्था अभवन्निति शेषः । अयञ्चोपलक्षितश्चेष्टार्थः दक्षिणदिशि दूरे भूमौ स्थापिता सीतेति दक्षिणदिग्धावनदक्षिणभूनिरीक्षणशब्दैर्व्यज्यत इति ॥ ३।६४।२० ॥
मृगचेष्टाग्रहणेन किं जातमत आह तेषामिति । वचनसर्वस्वं वचनसारमिव इङ्गितं चेष्टाभिप्रायं लक्षयामास लक्ष्मण इति शेषः । यद्वा तेषां वचनसर्वस्वमिङ्गितं स्वयं लक्ष्मणो लक्षयामास ज्ञातवान् पश्चाज्ज्येष्ठभ्रातरं प्रति तेषामिङ्गितम् उवाचेत्यन्वयः ॥ ३।६४।२१,२२ ॥
नैऋतिं दक्षिणं दिशम् । दक्षिणाशागमने आगमः सीताज्ञापक उपायः चिह्नमिति यावत् स्यात् सम्भवेत् अथवा आर्या सीता वा लक्ष्यते ॥ ३।६४।२३,२४ ॥
पुष्पमार्गं पुष्पचिह्रितं मार्गम् पुष्पपरम्परां वा ॥ ३।६४।२५,२६ ॥
अभिजानामीति । अपिनद्धानि केशपाशे बद्धानि ॥ ३।६४।२७ ॥
अम्लापनेन सूर्यः अनपनयनेन वायुः धारणेन वसुन्धरा एवं मत्प्रियचिकीर्षया एते पुष्पाणि रक्षन्तीत्यर्थः ॥ ३।६४।२८,२९ ॥
कच्चिदिति । सर्वाङ्गसुन्दरी प्रत्यवयवशोभायुक्ता ॥ ३।६४।३० ॥
तूष्णीं तिष्ठन्तं प्रति क्रुद्ध आह क्रुद्ध इति ॥ ३।६४।३१ ॥
तामिति । हेमाभामित्यनेन लावण्यनिर्देशः । हरिद्रादौ हेमवर्णसद्भावेपि लावण्याभावादुभयनिर्देशः ॥ ३।६४।३२ ॥
एवमिति । अत्र शंसन्निवेति प्रतिशब्देन कथयन्निवेत्यर्थः ॥ ३।६४।३३३५ ॥
इमां सरितं गोदावरीम् ॥ ३।६४।३६ ॥
दिधक्षन्निव, सर्वं जगदिति शेषः । निष्क्रान्तं प्रवृत्तनिक्षेपम्, महदत्यायतविस्तृतमित्यर्थः । पदं चरणन्यासस्थानं ददर्शेत्यन्वयः ॥ ३।६४।३७,३८ ॥
स इति । राक्षसस्य सीतायाश्च परिक्रान्तं प्रवृत्तं पदं समीक्ष्य भ्रातरं शशंसेत्यन्वयः ॥ ३।६४।३९ ॥
पश्येति । कनकबिन्दवः कनकस्य भूषणस्य सम्बन्धिनो बिन्दवः शकलानि ॥ ३।६४।४० ॥
तप्तेति । तप्तबिन्दुनिकाशैः तपनीयबिन्दुतुल्यैः ॥ ३।६४।४१,४२ ॥
तस्या इति । तस्या निमित्तं तस्या आहरणार्थमित्यर्थः ॥ ३।६४।४५,४६ ॥
तरुणेति । वैडूर्यगुलिकाचितं वैडूर्यमणिभिरलङ्कृतमित्यर्थः ॥ ३।६४।४५,४६ ॥
काञ्चनोरश्छदाः काञ्चनमयतनुत्राणवन्तः ॥ ३।६४।४७ ॥
ध्वजः अपविद्धः ध्वस्तः । रथो भग्र इत्यन्वयः ॥ ३।६४।४८ ॥
विशिखाः मुण्डाग्राः खण्डिताग्रा इति यावत् । अपहताः ध्वस्ताः रथाक्षमात्राः चतुश्शताङ्गुलपरिमिताः । तदुक्तं शिल्पिप्रश्ने “अष्टाशीतिशतमिभा तिर्यगक्षश्चतुश्शतः ।” इति ॥ ३।६४।४९ ॥
शरावरौ तूणीरौ । प्रतोदाभीषुहस्तः प्रतोदः तोत्रम् अभीषवः प्रग्रहाः ॥ ३।६४।५०,५१ ॥
पदवीति । एषा पुरुषस्य पदवी तत्रापि कस्यचिद्रक्षस इत्यनेन निश्चयाभाव उक्तः । अत एव राक्षसैस्सह जीवितान्तकं जीवितस्यान्तं करोतीति तथा, रक्षसामेवेति शेषः । शतगुणमत्यन्तं मम वैरमासीत् पश्येति सम्बन्धः ॥ ३।६४,५२ ॥
वैरहेतुमाह सुघोरहृदयैरिति । अतो वैरं पश्येति पूर्वेण सम्बन्धः । मम वैरं पश्येत्याग्रहोक्तिः ॥ ३।६४।५३ ॥
“आपत्सु रक्षको धर्मः” इति न्यायोस्ति सोप्यस्मिन्नवसरे नास्तीत्याह न धर्म इति ॥ ३।६४।५४ ॥
देवाश्च रक्षन्तीत्येतदपि नास्तीत्याह भक्षितायामिति । ईश्वराः देवाः के वा मम प्रियं कर्तुं शक्ताः आसक्तिमन्तः, न केपीत्यर्थः । देवादयो यदि मम प्रियं कर्तुं शक्तास्तर्हि सीताहरणादेः पूर्वमेव रक्षेरन् अतस्त्वेतादृशा न भवन्तीति भावः ॥ ३।६४।५५ ॥
अयं स्वयंकृतानर्थ इत्यभिप्रायेणाह कर्तारमिति । करुणवेदिनं कारुण्यपरं लोकानां कर्तारमपि सर्वभूतानि अज्ञानात् तत्स्वभावापरिज्ञानादशक्तो ऽयमित्यवमन्येरन् ॥ ३।६४।५६ ॥
अस्तु प्रकृते किमायातमत आह मृदुमिति । मृदुं मार्दवादिधर्मयुक्तं मां त्रिदशेश्वराः निर्वीर्यं मन्यन्ते, अज्ञत्वाविशेषादिति भावः ॥ ३।६४।५७ ॥
मामिति । अत एव मां प्राप्य गुणोपि मार्दवादिगुणोपि दोषः अनिष्टसाधनत्वेन संवृत्त इत्यर्थः । अतो मृदुत्वं विसृज्यं अतःपरमेवं करिष्यामीत्याह अद्यैवेत्यादि ॥ ३।६४।५८ ॥
शशिज्योत्स्नां चन्द्रचिन्द्रिकां संहृत्य अभिभूय उदितो रविरिव सर्वगुणान् तेजांसि संहृत्याभिभूय मम तेजः प्रतापः प्रकाशत इत्यन्वयः ॥ ३।६४।५९,६० ॥
ममेति । निस्सम्पातं निस्सञ्चारम् ॥ ३।६४।६१ ॥
सन्निरुध्येत्यादि सार्धश्लोकद्वयमेकं वाक्यम् । विप्रनष्टानलजलमरुद्भास्करसंवृतम् इति पाठः । विप्रनष्टाः अनलजलमरुतो यस्मिंस्तत्तथा भास्करसंवृतं भास्करस्य संवृतं संवरणं यस्मिन् तत्, लीनभास्करमित्यर्थः । विप्रनष्टाखिलमहद्भास्करद्युतीत्यपि पाठः । तस्यायमर्थः विप्रनष्टाः अखिलमहतां भास्करस्य स द्युतयो यस्मिन् तत् । अत एव संवृतम्, तमसेति शेषः । कालधर्मणा विनाशेन संयुक्तं करिप्यामीत्यन्वयः ॥ ३।६४।६२,६३ ॥
न तामित्यत्र यदिशब्दो ऽध्याहार्यः ॥ ३।६४।६४ ॥
नेति । निरन्तरं नीरन्ध्रम् आकाशे नोत्पतिष्यन्तीत्यन्वयः ॥ ३।६४।६५६८ ॥
नैवेति । न भविष्यन्तीत्यर्थः ॥ ३।६४।६९,७० ॥
निर्मर्यादानिति । न दास्यन्तीत्यत्र यदीत्यध्याहार्यम् ॥ ३।६४।७१,७२ ॥
इतीति । निष्पीड्य दृढमुष्टिबन्धेन गृहीत्वा ॥ ३।६४।७३।७४ ॥
विधिः दैवम् । न प्रतिहन्यन्ते न निवार्यन्ते ॥ ३।६४।७५ ॥
पुरेति । परिवर्तयामि नाशयामि ॥ ३।६४।७६ ॥
इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायामारण्यकाण्डव्याख्यायां चतुष्षष्टितमः सर्गः ॥ ३।६४ ॥