०६३ लक्ष्मणेन रामसान्त्वनम्

इष्टवियोगजः शोकः, कामजं चित्तविवशत्वं मोहः ॥ ३।६३।१,२ ॥

न मद्विध इति । शोकेनेति । सहार्थे तृतीया । सहशब्दाप्रयोगेपि “वृद्धो यूना” इति निपातनाद्भवति । परम्परायाः पङ्क्तेः । यद्वा परम्पराकारेण शोकेन सह स च शोको हृदयं मनश्च भिन्दन् मामेति । मनसो ऽधिष्ठानं हृदयम् ॥ ३।६३।३ ॥

विपाकः कर्मविपाकः, फलमिति यावत् । दुःखेन सह दुःखं विशामि दुःखपरम्परामनुभवामीत्यर्थः ॥ ३।६३।४ ॥

तान्येव दुःखानि परिगणयति राज्यप्रणाश इत्यादि । सर्वाणीति सामान्येन नपुंशकलिङ्गनिर्देशः । शोकवेगमापूरयन्ति, इदानीन्तमिति शेषः ॥ ३।६३।५ ॥

सर्वमिति । शून्यं निर्जनम् । वनमित्यादि । सर्वमिदं दुःखं पूर्वोक्तराज्यभ्रंशादिरूपं सीतासन्निधानेन मम शरीरे शान्तम्, शरीरायासेन सीतासान्निध्येन च सर्वं दुःखं विस्मृतमित्यर्थः । अद्य सीतावियोगात्पुनरभ्युदीर्णमुद्रिक्तं स्मृतमिति यावत् ॥ ३।६३।६,७ ॥

ताविति । लोहितस्य लोहिताख्यास्योत्तमचन्दनस्य “रक्तं तु चन्दनं विद्याल्लोहितं हरिचन्दनम्” इति धन्वन्तरिः । प्रियदर्शनस्य दर्शनीयस्य । सदा उचितौ योग्यौ शोणितपङ्कदिग्धौ भक्षणाय राक्षसैः विशसनादिति भावः ॥ ३।६३।८ ॥

तदिति । श्लक्ष्णः मधुरः प्रलापो यस्य तत् ॥ ३।६३।९ ॥

तामिति । हारपाशस्य हारमालायाः । परिपीतवन्ति रुधिरमिति शेषः । शून्ये विजनप्रदेशे ॥ ३।६३।१०,११ ॥

उपोपविष्टा सप्रीपात्रस्थिता । निश्शब्दं स्थितम्, ईषच्छब्दो हासः ॥ ३।६३।१२,१३ ॥

पद्माननेति । गच्छति पङ्कजान्यानेतुमिति शेषः ॥ ३।६३।१४,१५ ॥

लोककृताकृतज्ञ लोकस्य कृताकृतव्यापारज्ञ ॥ ३।६३।१६ ॥

लोकेष्विति । हे वायो लोकेषु यत्किञ्चिद्वस्तुजातमस्ति तत्सर्वं तव विदितं भवेत् तेन कारणेन तां शंसस्वेत्यन्वयः ॥ ३।६३।१७ ॥

इतीवेति । विसंज्ञमिव विलपन्तमित्यर्थः । शोकविधेयदेहं शोकविधेयः शोकाधीनो देहो यस्य सः । कालयुतं कालोचितम् ॥ ३।६३।१८२० ॥

इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायामारण्यकाण्डव्याख्यायां त्रिषष्टितमः सर्गः ॥ ३।६३ ॥