सीतामिति । कामोपहतचेतनः कामेन सीतावियोगजनितव्यामोहेन उपहता अप्रकृतिस्था चेतना चैतन्यं यस्य सः ॥ ३।६२।१ ॥
पश्यन्निवेति । पुरोवर्तित्वाभावेन सीतामपश्यन्नपि मदनार्दितो मदनपरवशस्तां पश्यन्निव सम्बोध्य विलापाश्रयत्वेन दुर्वचं गद्गदकण्ठत्वाद्वाक्यमुवाचेति सम्बन्धः ॥ ३।६२।२,३ ॥
कदलीकाण्डः कदलीस्कन्धः ॥ ३।६२।४७ ॥
पुनर्भ्रमनिवृत्त्याह सुव्यक्तमिति । उपसंप्रैति हासरसेनोपेक्षते इत्यर्थः ॥ ३।६२।८११ ॥
कातरत्वम् अधीरत्वम् ॥ ३।६२।१२,१३ ॥
(तया सीतया विरहितं हीनम् । वशमेष्यतीत्यनन्तरं “तात एव कृतार्थस्स तत्रैव वसताद्गतः” इत्यर्धमधिकं कतकपाठे । अस्यार्थः तातो दशरथ एव कृतार्थः । वसतादिति लोट् व्यत्ययेन । यतस्तत्र स्वर्ग एव वसति, नतु जीवन्ती कौसल्येत्यर्थः ॥ १४ ॥
) ॥ ३।६२।१५२० ॥
इतीति । भयविकलमुखः भयेन विवर्णमुखः ॥ ३।६२।२१ ॥
इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायामारण्यकाण्डव्याख्यायां द्विषष्टितमः सर्गः ॥ ३।६२ ॥