दृष्ट्वेति । प्राक्रुश्य सीतामुच्चैराहूय ॥ ३।६१।१ ॥
प्राक्रुश्य हा इति शब्दं कृत्वा । भुजौ प्रगृह्य उत्क्षिप्य ॥ ३।६१।२ ॥
तदेवाह क्वेत्यादि ॥ ३।६१।३,४ ॥
यैरिति । विश्वस्तैः चिरकालसहवासेन विश्वासं प्राप्तैः । ध्यायन्ति, त्वामिति शेषः । अस्राविलेक्षणाः अश्रुकलुषनेत्राः ॥ ३।६१।५,६ ॥
कथमिति । प्रतिज्ञां चतुर्दशवर्षवनवासप्रतिज्ञाम् । अभियोजितः नियुक्तः ॥ ३।६१।७,८ ॥
पुनः सीतामुद्दिश्य प्रलपति विवशमिति । अनृजुं कपटसञ्चारिणं नरमिव मामुत्सृज्य क्व गच्छसि । दृष्ट्वेवाह मां नोत्सृज ॥ ३।६१।९११ ॥
अनासादयमानमिति । अप्राप्नुवानमित्यर्थः ॥ ३।६१।१२,१३ ॥
मा विषादमिति । कुरु यत्नम् अन्वेषण इति शेषः ॥ ३।६१।१४ ॥
प्रियकाननसञ्चारा प्रियः काननसञ्चारो यस्यास्सा । वनोन्मत्ता वनसञ्चारकोविदा ॥ ३।६१।१५,१६ ॥
जिज्ञासमाना ज्ञातुमिच्छन्ती, कथं स्यातामिति शेषः ॥ ३।६१।१७ ॥
वनमिति । हे काकुत्स्थ सीतान्वेषणं समीचीनं मन्यसे यदि तर्हि विचिनुवः ॥ ३।६१।१८२० ॥
तस्येति । तस्य शैलस्य प्रस्रवणनाम्नः ॥ ३।६१।२१२७ ॥
एवमिति । विह्वलः परवशः ॥ ३।६१।२८ ॥
सन्तप्तो ह्यवसन्नाङ्गः इत्येव पाठः । गतबुद्धिः ज्ञानशून्यः । विचेतनः चेष्टारहितः ॥ ३।६१।२९३२ ॥
इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायामारण्यकाण्डव्याख्यायामेकषष्टितमः सर्गः ॥ ३।६१ ॥