भृशमिति । अथो अनन्तरम् । आव्रजमानस्य आगच्छतः । वामलोचनस्याधः पक्ष्म स्वयमस्खलत् ॥ ३।६०।१ ॥
अशुभानि अशुभसूचकनि ॥ ३।६०।२,३ ॥
उद्भ्रमन्निव उत्पतन्निव । विक्षिपन् हस्ताद्यवयवानितस्ततः क्षिपन् ॥ ३।६०।४७ ॥
हृतेति । नष्टा अदर्शनं गता । निलीना विनोदाय व्यवहिता । नदीं गतेत्यत्र इतिशब्दमध्याहृत्य यत्नान्मृगयमाणो नाससादेति सम्बन्धः कार्यः । शोकरक्तेक्षणः शोकादुन्मत्त इव लक्ष्यते । उन्मत्त इवेत्यत्र इवशब्दो ऽस्मिन् श्लोके सर्वत्र सम्बन्धनीयः । शोकरक्तेक्षण इव शोकादुन्मत्त इव शोकात्प्रधावन्निव विलपन्निव शोकार्णवपरिप्लुत इव लक्ष्यत इति सम्बन्धः । वस्तुतस्तु न तादृशः श्रीराम इत्यर्थः । अत एव सीतादीन् प्रति विलापादिकं सीतान्वेषणसमये सीतामुद्दिश्य वृक्षमृगादीन् प्रति प्रश्नादिकं सर्वं श्रीरामेण लोकशिक्षार्थं नटनं कृतमिति प्रदर्शयितुमेव सर्वज्ञेन भगवता श्रीवाल्मीकिना उद्भ्रमन्निव उन्मत्त इवेत्यादौ तत्र तत्र इवशब्दः प्रयुक्तः । अत एव श्रीशुकोप्याह “रक्षो ऽधमेन वृकवद्विपिने ऽसमक्षं वैदेहराजदुहितर्यपयापितायाम् । भ्रात्रा वने कृपणवत्प्रियया वियुक्तः स्त्रीसङ्गिनां गतिमिति प्रथयंश्चचार ॥ मर्त्त्यावतारस्त्विह मर्त्त्यशिक्षणं रक्षोवधायैव न केवलं विभोः । कुतो ऽन्यथा स्यू रमतः स्व आत्मन् सीताकृतानि व्यसनानीश्वरस्य ॥ न वै न आत्मात्मवतामधीश्वरस्सक्तस्त्रिलोक्यां भगवान् वासुदेवः । न स्त्रीकृतं कश्मलमश्नुवीत न लक्ष्मणं चापि विहातुमिच्छति ॥ " इति। तथा च स्कान्दे उमासंहितायां देवान् प्रति विष्णुवचनम् “अहं दाशरथिर्भूत्वा हन्मि रावणमाहवे। श्रीमद्रामावतारेऽस्मिन् अज्ञवत्क्रियते मया। तत्र शङ्का न कर्तव्या सर्वज्ञेनापि मायया। मन्मायामोहितं रक्षो मनुष्यं मामवेक्ष्यति। अन्यथा तस्य सा नूनं न भवेद्यत्र कुत्रचित्” इति। किञ्च बहुविधदुःखप्रलापस्य देहादावात्मबुद्धिपूर्वकत्वात्तद्बुद्धेरज्ञानमूलकत्वात् स्वकृतलीलाश्रवणद्वारा सर्वलोकानां मुक्तिप्रदानाय नृपरूपेणावतीर्णस्य सच्चिदानन्दघनविग्रहस्य परमात्मनः श्रीरामस्य मायाधिष्ठातुः परमेश्वरस्य भृगुशापादिनाप्यज्ञानगन्धोप्यस्तीति वक्तुमशक्यत्वादेतद्विधविवासादिकं सर्वं श्रीरामेण लोकशिक्षार्थमेव कृतमिति वेदितव्यम्। अन्यत्राप्येतादृशस्थलेष्वेवमेवार्थोऽनुसन्धेयः ॥
३।६०।८११ ॥
अपि काचिदिति पाठः ॥ ३।६०।१२ ॥
स्निग्धपल्लवसङ्काशा कोमलाङ्गीत्यर्थः ॥ ३।६०।१३ ॥
अर्जुनः करवीरः । अर्जुनप्रियां करवीरपुष्पप्रियान् “करवीरस्तयार्जुनः” इति निघण्टुः ॥ ३।६०।१४१८ ॥
यदीति स्निग्धत्वेन जम्बूफलौपम्यम्, न तु वर्णतः ॥ ३।६०।१९,२० ॥
दाडिमान् रामः पप्रच्छेति शेषः । अन्यथा उत्तरत्र रामशब्दोतिरिच्येत । यद्वा चूतेत्यादिश्लोकद्वयमेकान्वयम् । तत्रैको रामशब्दो यौगिकः । अन्यस्तु रूढः । उन्मत्त इव वस्तुतस्तु न तून्मत्त इत्यर्थः ॥ ३।६०।२१,२२ ॥
अथवेति । मृगविप्रेक्षणी मृग इव विविधं प्रेक्षत इति तथा भवेत् किमिति शेषः ॥ ३।६०।२३,२४ ॥
लीलागतिसामान्यलक्षणमुपकल्प्य शार्दूलं पृच्छति शार्दूलेति ॥ ३।६०।२५२७ ॥
पीतेति । पीतकोशेयकेन पीताम्बरेण सूचिता ऽसीति मोहात्तत्प्रतिभानम् । निरन्तरकामिनीभावनायां कामुकस्य कामिनीसाक्षात्कार इति प्रसिद्धिः ॥ ३।६०।२८ ॥
नैवेति । अथवा सा नूनं नैव किन्तु चारुहासिनी हिंसिता, यद्यहिंसिता तदा कृच्छ्रप्राप्तं दुःखगतं मां यथा येन कारणेन नोपेक्षितुमर्हति नूनम्, नार्हत्येवेत्यर्थः ॥ ३।६०।२९ ॥
उक्तमर्थं प्रपञ्चयति व्यक्तमिति ॥ ३।६०।३० ॥
ग्रस्तं रक्षोभिरिति शेषः ॥ ३।६०।३१ ॥
ग्रैवेयकं कण्ठभूषणम् । भक्षिता राक्षसैरिति शेषः ॥ ३।६०।३२,३३ ॥
मयेति । राक्षसां भक्षणाय बाला सीता मया विरहिता, अत एव बहुबान्धवा सार्थेन पथिकसङ्घेन परित्यक्ता स्त्रीव भक्षिता, राक्षसैरिति शेषः ॥ ३।६०।३४ ॥
हा लक्ष्मणेति । इति विललापेति शेषः । उत्तरत्र विलपन्नित्यनुवादात् ॥ ३।६०।३५ ॥
उद्भ्रमते उत्पतति । विभ्रमते विधावते । क्वचिदधिष्ठानसादृश्याभावेपि शोकवेगादेव सीताप्रतीतिभ्रमः । क्वचिल्लतासादृश्यप्रतीत्या तत्प्रतीतिभ्रम इति ज्ञेयम् ॥ ३।६०।३६ ॥
स इति । अपरिसंस्थितः अस्वस्थ इत्यर्थः । पुष्पफलाद्युपेतानि सञ्चारयोग्यानि वनानि, विषमाणि तु काननानीति भेदः ॥ ३।६०।३७ ॥
तथेति । अनिष्ठिताशः अनिष्पन्नमनोरथस्सन्नपि प्रियाया मार्गणे पुनरपि परिश्रममायासं चकार, उद्योगं चकारेत्यर्थः ॥ ३।६०।३८ ॥
इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायामारण्यकाण्डव्याख्यायां षष्टितमः सर्गः ॥ ३।६० ॥