अथ विस्तरेण मार्गमध्यकृतां कथामाह अथेति । उपावृत्तं सीतावचनात्स्वसमीपं प्राप्तम् । अन्तरा मध्येमार्गम् ॥ ३।५९।१ ॥
प्रष्टव्यवक्तव्ययोः प्रष्टव्यं तावदाह किमर्थमिति । यदा यस्मात् सा सीता तव विश्वासात् त्वया रक्षितायास्सीतायाः का हानिरिति विश्वासादित्यर्थः । मया विरहिता कृता तदा तामपास्य विहाय किमर्थमागत इति सम्बन्धः ॥ ३।५९।२ ॥
वक्तव्यमाह दृष्ट्वेति । हे लक्ष्मण मैथिलीं त्यज्य अभ्यागतं त्वां दृष्ट्वा । महत्पापं सीतापहरणरूपं शङ्कमानं राक्षसाः सीतामपहृतवन्त इति शङ्काग्रस्तमित्यर्थः । मे मनो व्यथितमिति यत् तत्सत्यमिति योजना । यद्वा त्वां दृष्ट्वा यन्महत्पापं सीतापहरणभक्षणादिरूपं शङ्कमानं मनो व्यथितं तत्पापं सत्यमेवेत्यन्वयः ॥ ३।५९।३ ॥
ननु मदागमनमात्रेण कुतः पापशङ्का? तत्राह स्फुरत इति । सव्यं वामम् ॥ ३।५९।४ ॥
एवमिति । भूय इति । पूर्वं सीता वचनाद्दुःखाक्रान्तः इदानीमकृत्यं कृतमित्येतद्भूपरामवचनाद्भूयोदुःखसमाविष्ट इत्यर्थः ॥ ३।५९।५ ॥
नेति । कामकारेण स्वेच्छया, उग्रैरवाच्यैर्वाक्यैरिति शेषः ॥ ३।५९।६ ॥
तथा प्रचोदने कारणमाह आर्येणेति । अत्र चकारो भिन्नक्रमः । हा सीते लक्ष्मणेति परित्राहीति च यद्वाक्यम् आर्येण त्वया पराक्रुष्टमिवात्यन्तमुद्धोषितमिव, तत्तु मैथिल्याः श्रुतिं गतमिति सम्बन्धः ॥ ३।५९।७,८ ॥
प्रचोद्यमानेनेति । त्वत्प्रत्ययः दुराधर्षत्वदैन्यराहित्यविषयं प्रामाणिकं ज्ञानं तेनान्वितं वाक्यं मया मैथिली प्रत्युक्तेति सम्बन्धः ॥ ३।५९।९ ॥
तस्यैव विवरणम् न तदित्यादिना । निर्वृता दुःखरहिता भव । कुतः? एतद्वाक्यम् अस्य रामस्य न भवतीत्यर्थः ॥ ३।५९।१० ॥
कुतः? नीचं तुच्छम् । विगर्हितं निन्दितम् । दैन्यावहत्वादिति भावः ॥ ३।५९।११ ॥
किन्निमित्तं किमपि निमित्तं यस्मिन् कर्मणि तत् ॥ ३।५९।१२,१३ ॥
अलमिति । वैक्लव्यं विह्वलत्वम् । निरुत्सुका मदीयप्रस्थापनोद्योगरहिता ॥ ३।५९।१४१६ ॥
भाव इति । विनष्टे भ्रातरि प्राप्तुं, माम् इति शेषः । पापरूपो भावो मयि । तव त्वया निवेशितः ॥ ३।५९।१७ ॥
सङ्केतादिति । सङ्केतात् श्रीरामद्रोहविषयात् राममनुगच्छसि, नतु रामभक्त्या । कुतः? क्रोशन्तमिति ॥ ३।५९।१८ ॥
अन्तरप्रेप्सुः रन्ध्रान्वेषी ॥ ३।५९।१९,२० ॥
एवमिति । सीताप्रेरणया मयि राक्षससंहारसामर्थ्याभावमाशङ्क्यागतोसि वा, सीतापरुषवाक्यैस्तव लोकगर्ह्य(र्हि)ता भविष्यतीति वा परुषवाक्यासहनमात्रेण वा समागतोसीति त्रेधा विकल्प्य आद्यं पराकरोति दुष्कृतमित्यादि ॥ ३।५९।२१ ॥
जानन्नति । रक्षसां वारणे संहार इत्यर्थः । समर्थं मां जानन्नपि त्वं तां सीतां विना इहागत इति यत् तद् दुष्कृतं कष्टं कृतमिति यत्तच्छब्दाध्याहारेण योजना । द्वितीयं पराचष्टे अनेनेति । अनेन क्रोधवाक्येन भावो मयि निवेशितः सङ्केताद्भरतेनेत्यादिमैथिल्याः क्रोधवाक्येन गर्हितो भवानित्यत्र काकुः ॥ ३।५९।२२ ॥
तृतीयं परिहरति नहि ते इति । ते त्वत्तः न परितुष्यामि । यतः यद्यस्मात् क्रुद्धायाः स्त्रियाः । परुषं परुषवाक्यं श्रुत्वा आगत इति सम्बन्धः । क्रुद्धाः स्त्रियः किं किं न वदन्ति अतस्तादृशीं त्यक्त्वा आगतोसीति कृत्वा त्वां न परितुष्यामीति भावः ॥ ३।५९।२३ ॥
सर्वथेति । अविनीतमविनयम् । ते त्वया कृतमिति शेषः । सीतयेति यतस्सीतया प्रचोदितस्सन् क्रोधस्य वशमागम्य मम शासनमाज्ञां नाकरोः नाकार्षीः ॥ ३।५९।२४ ॥
मारीचवृत्तान्तमाह असाविति । अपवाहितः नीतः ॥ ३।५९।२५ ॥
सायकं परिधाय सन्धाय । मार्गीम् मृगसम्बन्धिनीम् ॥ ३।५९।२६ ॥
सुदूरसुश्रवं सुदूरेपि सुश्रवः श्रवणं यस्य तं स्वरम्, मत्स्वरसदृशस्वरमित्यर्थः ॥ ३।५९।२७ ॥
इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायाम् आरण्यकाण्डव्याख्याम् एकोनषष्टितमः सर्गः ॥ ३।५९ ॥