स इति । शून्ये विजने देशे वैदेहीं विनागतं लक्ष्मणं पर्यपृच्छदिति सम्बन्धः ॥ ३।५८।१३ ॥
प्राणसहाया या प्राणानां सहाया तां विना प्राणा असहायाः कथं तिष्ठन्तीत्यर्थः ॥ ३।५८।४,५ ॥
कच्चिदिति । प्राणैः प्राणेभ्यः । प्रवाजनं चतुर्दशवर्षवनवासव्रतधारणं मिथ्या वितथं भविष्यति न कच्चित् वनवासं यथोक्तं न समापयिष्यामि कच्चित्, सीतापाये असमाप्त एव वनवासे ममापायो भविष्यतीत्यर्थः ॥ ३।५८।६ ॥
सीतानिमित्तमिति । सीतानिमित्तं सीताविनाशनिमित्तम् । त्वयि गते, अयोध्यामिति शेषः ॥ ३।५८।७ ॥
सपुत्रेति । सौम्येन विनयेन ॥ ३।५८।८ ॥
सुवृत्ता सद्वृत्ता सीता वृत्ता मृता यदीत्यर्थः ॥ ३।५८।९ ॥
यदीति । प्रहसिता प्रकृष्टं सुन्दरं हसितं यस्याः सा ॥ ३।५८।१० ॥
प्रमत्ते अनुचितकारिणि ॥ ३।५८।११,१२ ॥
तवापि शूरस्यापि ॥ ३।५८।१३ ॥
स्वरश्च सदृशो ममेति । मम स्वरेणेति शेषः । अत एव त्रस्तयेति ॥ ३।५८।१४ ॥
प्रतिकर्तुं मत्कृतापकारस्य प्रत्यपकारं कर्तुं रक्षसामन्तरमवकाशः दत्तः ॥ ३।५८।१५१८ ॥
विगर्हमाणो ऽनुजमित्यादिश्लोकद्वयेन वक्ष्यमाणसर्गस्य सङ्ग्रहः । प्रतिश्रयमाश्रमम् । एतत्तदिति । एतत्तदावयोर्निवासस्थानमित्येव व्यथितो बभूव ॥ ३।५८।१९,२० ॥
इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायामारण्यकाण्डव्याख्यायामष्टपञ्चाशः सर्गः ॥ ३।५८ ॥