०५७ रामेण दुर्निमित्तदर्शनम्

अथ कविः रामवृत्तान्तमाह राक्षसमिति ॥ ३।५७।१ ॥

तस्येति सप्तम्यर्थे षष्ठी । अस्य रामस्य । गोमायुः शिवा ॥ ३।५७।२,३ ॥

यथा भाव्यशुभं तथा वाशत इत्यर्थः । वैदेह्या वैदेह्यै । राक्षसैर्भक्षणं विना तत्कर्तृकभक्षणाभावरूपं स्वस्ति स्यादित्यर्थः । अपिः कामप्रवेदने ॥ ३।५७।४ ॥

मारीचेनेत्यादि श्लोकद्वयमेकं वाक्यम् । मारीचः मामकं स्वरमालक्ष्य अवधार्य, तेनावधारणेन अनुकृतं विज्ञाय मारीचेनानुक्रुष्टं सीते लक्ष्मणेति चाह्वानेन उद्धोषितं स्वरं लक्ष्मणः श्रृणुयाद्यदि श्रुत्वा तयैव प्रहितः क्षिप्रमिहैष्यतीति सम्बन्धः ॥ ३।५७।५,६ ॥

राक्षसैरित्यादिश्लोकद्वयमेकं वाक्यम् । यद्यस्मान्मारीचः काञ्चनमृगो भूत्वा मामाश्रमाव्द्यपनीय आकृष्य दूरं नीत्वा हा लक्ष्मण हतोस्मीति वाक्यं व्याजहार । यस्माच्चराहतः शरेण हतस्सन् राक्षसो ऽभूत् तस्मात् सहितैः कुत्रचिन्मिलितैः राक्षसैर्नूनं सीताया वध ईप्सित इत्यन्वयः ॥ ३।५७।७,८ ॥

अपीति । रहिताभ्यां मया वियुक्ताभ्याम् ॥ ३।५७।९,१० ॥

अपनयनादपसारणात् परिशङ्कित इति सम्बन्धः ॥ ३।५७।११ ॥

सव्यं कृत्वा अप्रदक्षिणं कृत्वा ॥ ३।५७।१२ ॥

त्वरितः मानसिकत्वरायुक्तः । जवेन शरीरजवेन आत्मनः आश्रमं प्रति न्यवर्ततेति सम्बन्धः ॥ ३।५७।१३ ॥

सीतां लक्ष्मणं च, द्रष्टुमिति शेषः ॥ ३।५७।१४ ॥

समीयाय सङ्गतो ऽभूत् ॥ ३।५७।१५ ॥

वने सीतां विहायागतं लक्ष्मणं सञ्जागर्ह इति सम्बन्धः ॥ ३।५७।१६ ॥

तमेवार्थं प्रपञ्चयति गृहीत्वेत्यादि । मधुरोदर्कं सान्त्वोत्तरभागं परुषमार्तिमत् आदौ परुषम् अहो लक्ष्मणेत्यादिपरुषम् अपि लक्ष्मणेत्यादि मधुरम् । यद्वा शब्दतो माधुर्योत्तरम् । अर्थतः परुषम् । इदं वक्ष्यमाणम् । आर्तवत् आर्तार्हमुवाच ॥ ३।५७।१७२० ॥

अपीति । सामग्र्यं क्षेमम् अनपहरणरूपम् ॥ ३।५७।२१ ॥

सामग्र्यावाप्तिसंशये कारणमाह यथेति, सार्धश्लोकमेकं वाक्यम् । प्रदीप्तामभितो दिशम् सूर्याधिष्ठिता दिक् प्रदीप्ता तां दिशम् अभिमुखं वाश्यन्ते नदन्ति, अतः राजपुत्र्याः स्वस्ति भवेदपि किमिति सम्बन्धः ॥ ३।५७।२२ ॥

इदमिति । मृगसन्निकाशं रक्षः कथं जातमत आह राक्षसो ऽभून्म्रियमाण एवेति ॥ ३।५७।२३,२४ ॥

इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायामारण्यकाण्डव्याख्यायां सप्तपञ्चाशः सर्गः ॥ ३।५७ ॥