इति । अन्तरतः कृत्वा मध्ये कृत्वा, साक्षात्पापात्मकपरपुरुषसम्भाषणदोषपरिहारायेति भावः ॥ ३।५६।१ ॥
परिज्ञातः प्रसिद्धः । धर्मसेतुः धर्मस्य सेतुरिव मर्यादा प्रतिष्ठापकः ॥ ३।५६।२४ ॥
तस्य रामस्य ॥ ३।५६।५७ ॥
वैरं क्रोधमुत्पाद्य तत्सन्निधिं प्राप्तः ततो जीवन्न मोक्ष्यसे, तस्य मनुष्यत्वादिति भावः ॥ ३।५६।८ ॥
तदेवाह अन्तकरः नाशकरः ॥ ३।५६।९ ॥
रक्षः इति रावणसम्बोधनम् । हे रावण रामस्त्वां रोषदीप्तेन चक्षुषा यदि पश्येत् तदैव निर्दग्धो भवेः । तदा न पश्येदनिर्दग्धस्सन् पराभवं पलायनं गच्छेः ॥ ३।५६।१०,११ ॥
गतायुरिति । त्वत्कृतेन त्वन्नाशनिमित्तेन । यद्वा त्वत्कृतेनापराधेनेति शेषः ॥ ३।५६।१२ ॥
याहमित्यादि सार्धश्लोकद्वयमेकं वाक्यम् । याहं नीता यदहं नीता अविवक्षितलिङ्गविशेषं हेतुमात्रे पर्यवसायि एतत्पदं तया हेतुनेति केचित्पूरयन्ति । यद्वा याहं त्वया पतिपार्श्वाद्विनाभावं वियोगं नीता, तस्या मम भर्ता रामो दैवतसंयुक्तो दैवानुकूल्यवानित्यर्थः । देवरसंयुक्त इति पाठे देवरसंयुक्तः लक्ष्मणसंयुक्तः । सः खरादिहन्ता ॥ ३।५६।१३,१४ ॥
दर्पं मदम् उत्सेकमुल्लङ्घ्य कार्यकारित्वम् अतिशयं वा । बलं देहशक्तिम् चतुरङ्गबलं वा ॥ ३।५६।१५,१६ ॥
मां प्रधृष्येति, स्थितस्येति शेषः । स ते कालः अयमेव वर्तमान एव न तु चिरायेत्यर्थः ॥ ३।५६।१७ ॥
उपक्रोशम् अपवादम् ॥ ३।५६।२१२३ ॥
श्रृण्विति । द्वादशमासान्, प्रतीक्ष इति शेषः ॥ ३।५६।२४ ॥
प्रातराशार्थं प्रातःकालाशनार्थम् । सूदाः पाचकाः । वस्तुतस्तु हे वैदेहि मे वाक्यं श्रृणु, तत्किम्? द्वादशमासान् द्वादशमासपर्यन्तं प्रतीक्ष इति शेषः । अनेन कालेन नाभ्येषि द्वादशमासपर्यन्तं भृत्यानुग्रहार्थमत्र स्थातुं नाङ्गीकरोषि यदीत्यर्थः । ततस्त्वामुद्दिश्य प्रातराशार्थं प्रातः प्रातरेव आशार्थम् आशासु स्थितगृध्राद्यर्थं सूदा मां छेत्स्यन्ति, मदाज्ञायैवेति शेषः । देवि मां भृत्यत्वेन नाङ्गीकरोषि यदि अहमितः परं जीवितुं नेच्छामि । मां शस्त्रैश्छित्त्वा काकगृध्राद्यर्थं प्रयच्छतेति ममाज्ञयैव सूदास्तथा करिष्यन्तीति भावः ॥ ३।५६।२५ ॥
शत्रून् रावयति क्रोशयतीति शत्रुरावणः ॥ ३।५६।२६ ॥
शीघ्रमिति । अस्याः दर्पं निवेष्यध्वम् विनयत । वस्तुतस्तु हे राक्षस्यः मांसशोणितभोजनाः घोरदर्शनाश्च यूयं शीघ्रमविकृताः अविरूपा भूत्वा दर्पं विना अस्याः समीपे इष्यध्वं सेवार्थं स्थातुमिच्छतेत्यर्थः । छादेशाभावादिरार्षः ॥ ३।५६।२७,२८ ॥
स इति । प्रचाल्य उत्थाय । चरणोत्कर्षैः चरणधातैः ॥ ३।५६।२९,३० ॥
तत्रैनामिति पाठः । एनां सीताम् । वस्तुतस्तु घोरैस्तर्जनैः, विनेति शेषः । पुनः सान्त्वैरेव वशमानयध्वम् ॥ ३।५६।३१,३२ ॥
सर्वकामफलैरिति पाठः । काम्यन्त इति कामाः अभिलषितपदार्थाः त एव फलानि येषां ते तथोक्ताः । सर्वकालमदैः सर्वकालेष्वेकाकारमदैः । द्विजैः पक्षिभिः ॥ ३।५६।३३ ॥
सा तु शोकपरीताङ्गीत्यादीनि देव्याः दुःखेन प्रलापवत् प्रतीयमानानि वाक्यानि लोकरीतिमनुसृत्योक्तानीति द्रष्टव्यानि ॥ ३।५६।३४,३५,३६ ॥
इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायामारण्यकाण्डव्याख्यायां षट्पञ्चाशः सर्गः ॥ ३।५६ ॥