०५५ सीतां प्रति रावणदर्पोक्तिः

सन्दिश्येति । बुद्धिवैक्लव्यात् बुद्धिवैपरीत्यात् ॥ ३।५५।१४ ॥

मृगयूथेति । अधोमुखमुखीम् अधोमुखे अधःप्रदेशे मुखं यस्यास्ताम् । यद्वा अधोमुखमवगतं मुखं यस्यास्ताम् । “स्यादवाङप्यधोमुखः” इत्यमरः ॥ ३।५५।५ ॥

स बलाद्दर्शयामासेत्यारभ्य तप्तकाञ्चनतोरणमित्यन्तमेकं वाक्यम् । दान्तकैरित्याद्युपलक्षणे तृतीया । दन्तैः कृतैः दान्तकैः । तापनीयैः तपनीयकृतैः, सुवर्णकृतैरित्यर्थः ॥ ३।५५।६९ ॥

दान्तिका इति । हेमजालैः हेममयजालकैः ॥ ३।५५।१० ॥

सुधेति । सुधामणिविचित्राणि सुधा चूर्णं तज्जनकमणिभिः मुक्तामणिभिर्विचित्राणि । भूमिभागानि कुट्टिमप्रदेशान् ॥ ३।५५।११ ॥

दीर्घिकाः वापीः । पुष्करिण्यः पुष्करिणीः, पद्मयुता इत्यर्थः ॥ ३।५५।१२ ॥

लोभितुं सामनिग्रहाभ्यां प्रलोभयितुम् ॥ ३।५५।१३ ॥

दशेति । द्वात्रिंशत्कोटिसङ्ख्या इत्यर्थः ॥ ३।५५।१४ ॥

सहस्रमिति । एकस्य मुख्यस्य, तेषां मुख्यस्येत्यर्थः । मम कार्यपुरस्सरं कार्यसाधकमेकैकं सहस्रं भवतीति शेषः । एकैकस्य कार्यसाधनाय एकैकं सहस्रं नियोजयामीत्यर्थः ॥ ३।५५।१५ ॥

यदिदमिति । राजतन्त्रं राजपरिकरः । प्रतिष्ठितं त्वदधीनम् । प्राणैः प्राणेभ्यः ॥ ३।५५।१६ ॥

अन्तःपुरचारिणीनां स्त्रीणां मध्ये यो मम परिग्रहः, या मम भार्या इत्यर्थः । परिग्रहशब्दो नियतपुँल्लिङ्गः । अत्रायं जात्येकवचने योसौ परिग्रह इति निर्दिश्य तासामिति स्त्रीलिङ्गेन स्त्रीणां निर्देशः । परमार्थतः परिग्रहशब्दवाच्यानां स्त्रीत्वादिति ज्ञेयम् । मे मम भार्या सती तासामीश्वरा स्वामिनी भवेत्यन्वयः । वस्तुतस्तु अभवप्रिये इति छेदः । हे मोक्षप्रिये भार्येत्यत्र भा आर्येति च्छेद । भा चिद्रूपिणी । आर्या श्रेष्ठा त्वं मम तासां च ईश्वरा भवेति योजना ॥ ३।५५।१७ ॥

साध्विति । साधु हितं मम वचो रोचयस्व अङ्गीकुरु, भज मामिति शेषः । कामाभितप्तस्य मम प्रसादं कर्तुमर्हसि । “भजस्व माभितप्तस्य” इत्यपि पाठः । वस्तुतस्तु कामाभितप्तस्य कामेन त्वद्भृत्यो भविष्यामीत्येवंरूपेण मनोरथेनाभितप्तस्येत्यर्थः ॥ ३।५५।१८२० ॥

राज्यभ्रष्टेनेत्यादिश्लोकद्वयस्य वाक्यार्थः स्पष्टः । वस्तुतस्तु राज्यभ्रष्टेन राज्याद्भ्रष्टा रिपवो यस्मात्तेन । दीनेनतापसेनगतायुषेत्यन्तमेकं पदम् । दीनानामिनः तापसानामिनः, दीनेनश्चासौ तापसेनश्च दीनेन तापसेनः तादृशस्सन् गतं प्राप्तमायुरेकादशसहस्रवत्सरपरिमितं येन तेन । दीनजनानां तापसानां च रक्षणार्थमवतीर्णेनेत्यर्थः । मानुषेण मनुष्यरूपेणावतीर्णेन । अल्पतेजसा अल्पमितरेषां तेजो यस्मात्तेन “तमेव भान्तमनुभाति सर्वं तस्य भासा सर्वमिदं विभाति” इति श्रुतेः । रामेण किमेतादृशं परमपुरुषमुद्दिश्य किमर्थं विलापः क्रियते इति भावः । भजस्वेति । मा मे अवेति च्छेदः । यौवनं यौवनशब्देन सर्वा अवस्था लक्ष्यन्ते, ताभिस्सर्वमायुर्लक्ष्यते, तथा च यतः मे मम त्वत्सेवानुकूलं सर्वमायुरध्रुवम् । भर्ता विभर्ति शुश्रूषादिना स्वामिनमिति भर्ता भृत्यः । सदृशः अनुरूपः । यतस्तवाहमनुरूपो भृत्यः अतो मा मां भजस्व भृत्यत्वेनाङ्गीकुरु, अव रक्ष च । तदर्थमिह लङ्कायाम् । मया सह राज्यलक्ष्म्या सह । रमस्व ॥ ३।५५।२१,२२ ॥

दर्शन इत्यादिश्लोकत्रयस्य प्रातीतिकार्थः स्पष्टः । वस्तुतस्तु दर्शने इति । यथा वायुर्बद्धुं न शक्यते, अग्रेः शिखा ग्रहीतुं यथा न शक्यते एवं मनोरथैरपि इह लङ्कां प्रत्यागन्तुं कस्य शक्तिः? न कस्यापि । रामं विनेति शेषः । तथा मद्बाहुपरिपालितां त्वां यो हरेत् तं न पश्यामि, रामं विनेति शेषः । श्रीरामश्चेदागन्तुं शक्नुयात् त्वामाहर्तुं च शक्नुयात् अतः स एवागत्य प्राप्स्यति, त्वं तु श्रीरामं कदा द्रक्ष्यामीत्युत्कण्ठां मा कुर्वित्यर्थः ॥ ३।५५।२३२५ ॥

लङ्कायामित्यारभ्य अलं व्रीडेनेत्यन्तश्लोकानां प्रातीतिकार्थः स्पष्टः । वस्तुतस्तु कुलदेवतायै देव्यै रावणः स्वात्मात्मीयसमर्पणं करोति लङ्कायामित्यादिश्लोकद्वयेन । मद्विधा इत्यनेन आत्मसमर्पणम्, लङ्कायां राज्यमनुपालयेत्यनेन आत्मीयसमर्पणमिति ज्ञेयम् । सुकृतफलमपि समर्पयति दुष्कृतमिति । वनवासेन वनं जलम्, जलमध्यस्थलङ्काद्वीपवासिना, मयेति शेषः । पुरा यद्दुष्कृतं कर्म, कृतमिति शेषः । तद्गतं नष्टम् । मदिष्टदेवतायास्तव दर्शनमात्रेणेति शेषः । पुरा मया सुकृतो यो धर्मः तस्य फलं ते तुभ्यं निवेदयामि । आप्नुहि गृहाणेत्यर्थः ॥ ३।५५।२६,२७ ॥

इहेति । मया समर्पितानीति शेषः । सह एकदैव ॥ ३।५५।२८ ॥

पुष्पमित्यादिश्लोकद्वयमेकं वाक्यम् । अत्र पुष्पके मया समर्पिते पुष्पक इत्यर्थः । सार्धं सर्वसम्पद्भिरिति शेषः । विहरस्व ॥ ३।५५।२९३३ ॥

अलं व्रीडेनेति । वैदेहि धर्मलोपकृतेन अलम्, व्रीडा मा भूदित्यर्थः । कुत इति चेत्? दैवनिष्यन्दः दैवनिपातः यः सम्बन्धः त्वामभिगमिष्यति सो ऽयं दैवनिष्यन्दः आवयोर्निष्कारणः सम्बन्ध इति यावत् । आर्षः ऋषिदृष्टः, अनादिसिद्ध इति यावत् । वस्तुतस्तु अलं व्रीडेनेति । भृत्यलक्षणविषये व्रीडा नोचितेत्यर्थः । कुतो वा धर्मलोपो भविष्यति । कुतः? यः दैवनिष्यन्दः आवयोर्दैवेन सम्पादितदासदास्यवद्भावः अयं सम्बन्धः आर्षः अनादिसिद्धः, स एव त्वामभिगमिष्यति न तु नवीनः । अतो व्रीडा मा भूदित्यर्थः ॥ ३।५५।३४,३५ ॥

इमा इति । शून्याः नीचाः । शुष्यमाणेन तप्यमानेन । भाषिताः उक्ताः ॥ ३।५५।३६ ॥

एवमिति । मन्यते अमंस्त । अत्र रसाभासः ॥ ३।५५।३७ ॥

इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायामारण्यकाण्डव्याख्यायां पञ्चपञ्चाशः सर्गः ॥ ३।५५ ॥