ह्रियमाणेति । नाथं रक्षकम् ॥ ३।५४।१ ॥
तेषामिति । शंसेयुरिति, प्रत्याशयेति शेषः ॥ ३।५४।२ ॥
वस्त्रमिति । तत्कर्म भूषणक्षेपणकर्म । सम्भ्रमात् सभयहरणजनितचित्तक्षोभात् अतिभारेण शिरसामधोमुखतया च ॥ ३।५४।३५ ॥
तामिति । मृत्युं मृत्युहेतुभूताम् ॥ ३।५४।६ ॥
वनानीति । विहायसा आकाशमार्गेण क्षिप्रं समतीयायेत्यन्वयः ॥ ३।५४।७,८ ॥
सम्भ्रमादिति । सम्भ्रमात् अकार्यजनितक्षोभात् । परिवृत्तोर्मिः परिभ्रमितोर्मिः ॥ ३।५४।९ ॥
एतदन्तः एतत्सीताहरणं कर्म अन्तो ऽवसानं यस्य सः तथोक्त ॥ ३।५४।१०,११ ॥
संरूढकक्ष्याबहुलं संरूढा बहुजनाकीर्णाः कक्ष्याः द्वाराणि तैर्बहुलम् ॥ ३।५४।१२,१३ ॥
असम्मतः अस्मदननुज्ञातः पुमान्वा अस्मदननुज्ञाता स्त्री वा यथा चैनां न पश्यति तथा रक्षतेति शेषः ॥ ३।५४।१४ ॥
मच्छन्दतः मदनुज्ञाबलात् ॥ ३।५४।१५१८ ॥
वरदानेन ब्रह्मवरदानेन ॥ ३।५४।१९ ॥
हतस्थानं शून्यसन्निवेशम् । खरालयं भूतपूर्वं पूर्वं खरालयमित्यर्थः ॥ ३।५४।२०२३ ॥
निर्यातयितुं प्रत्युपकारेणापनेतुम् ॥ ३।५४।२४,२५ ॥
प्रवृत्तिः वार्ता ॥ ३।५४।२६२९ ॥
महाप्रकरणार्थं संगृह्णाति तत इति । उपलभ्य प्राप्य, गृहीत्वेत्यर्थः । परिगृह्य स्वगृहे अवस्थाप्य । वैरं प्रसज्य प्राप्य । मोहादविवेखान्मुदितः प्रीतो बभूव । वस्तुतस्तु रावणस्य श्रीरामेण सह वैरं लोकदृष्ट्या अनर्थवत्प्रतीयमानमपि सीताहरणद्वारा श्रीरामहस्तात्स्ववधस्येष्टतमत्वाद्रामेण वैरं प्राप्य मुमुद इति भावः ॥ ३।५४।३० ॥
इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायाम् आरण्यकाण्डव्याख्यायां चतुःपञ्चाशः सर्गः ॥ ३।५४ ॥