अथ सीतया क्रियमाणपारुष्य एव तां हरति स्मेत्याह खमिति । वर्तिनीत्यसुप्यपि णिनिरार्षः ॥ ३।५३।१,२ ॥
अनेन कर्मणा चौर्येणेत्यर्थः ॥ ३।५३।३ ॥
त्वयैवेति । मृगरूपेण परिणतया मायया । मम भर्ता अपवाहितः अन्यत्र नीतः ॥ ३।५३।४ ॥
य इति । वृद्धः, अत एवास्य निपातः तव वीर्यहेतुर्न भवतीति भावः । परममिति व्यङ्ग्योक्तिः । विश्राव्य त्वदीयं नामधेयं श्रावयित्वा युद्धे न जितास्मीति योजना ॥ ३।५३।५,६ ॥
गर्हितमिति । ईदृशं परस्त्रीहरणरूपं कर्म । रहितेन पतिरहितेन कालेन कृत्वा कथं न लज्जसे ॥ ३।५३।७,८ ॥
धिगिति । कुलाक्रोशकरं कुलनिन्दाकरम् ॥ ३।५३।९ ॥
किं कर्तुमिति । भयेन धावसीति यत् एवं कर्तुं शक्यं किम् न शक्यमित्यर्थः । श्रीरामभयेन त्वया पलायनं क्रियते तदेतन्मया निवारयितुं न शक्यम्, स्त्रीत्वादिति भावः । यद्वा इह भयेन धावसीति यत् एवं कर्तुं शक्यं किम् न शक्यम् शक्त्यभिमानपलायनयरहन्योन्यविरोधादित्यर्थः । मुहूर्तमपि मुहूर्तमेव तिष्ठस्व यदि शूर इति शेषः ॥ ३।५३।१०,११ ॥
साध्विति । आत्मनस्तव पथ्यं कुरु, साधु यत्समीचीनमित्यर्थः । किं तत्पथ्यमत आह साध्विति । मां मुञ्च तत्साधुत्वमित्यर्थः ॥ ३।५३।१२ ॥
मदिति । विधास्यति यत्नमिति शेषः ॥ ३।५३।१३,१४ ॥
व्यवसायनैरर्थक्यमेवाह नह्यहमिति ॥ ३।५३।१५ ॥
न नूनमिति । पथ्यं सुखोदर्कम् श्रेयः, वासं लङ्कारूपं निवासं च नावेक्षसे उभयं त्यक्तुमिच्छसीत्यर्थः ॥ ३।५३।१६ ॥
तप्तेति । शाल्मली यातनावृक्षः ॥ ३।५३।२० ॥
नहीति । निर्वृणस्त्वं चिरं न तिष्ठसीत्यन्वयः ॥ ३।५३।२१ ॥
बद्ध इति । मम भर्तुरित्यनन्तरम् अपराधं कृत्वेति शेषः ॥ ३।५३।२२ ॥
निमेषेति । भ्रात्रा विना एकाकिनेति यावत् ॥ ३।५३।२३२५ ॥
तथेति । आगतगात्रवेपथुः भारातिशयात् ॥ ३।५३।२६ ॥
इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां आरण्यकाण्डव्याख्यायां त्रिपञ्चाशः सर्गः ॥ ३।५३ ॥