॥ १ ॥
सा त्वित्यादि । गृधराजं जटायुषम् ॥ ३।५२।२,३ ॥
लक्षणज्ञानं लक्षणम् अक्षिस्पन्दनादीनि लक्षणानि तेषां ज्ञानम् । शकुनिस्वरदर्शनं पिङ्गल्यादिपक्षिस्वरस्य दर्शनं ज्ञानम् । नराणां सुखदुःखेषु निमित्तं ज्ञापकं कारणं दृश्यते ज्ञापयति ॥ ३।५२।४ ॥
एवं मदपहरणरूपव्यवसायसूचकसामग्र्यां सत्यामपि तव व्यवसायज्ञानं नास्तीति चित्रमिति श्रीरामं सीता उपालभते न नूनमिति । हे राम आत्मनो मम महद्व्यसनं न जानासि, मदर्थं मदपहारसूचनरूपप्रयोजनमुद्दिश्य मृगपक्षिणः धावन्ति अशुभसूचकास्सन्तः सञ्चरन्तीत्यर्थः ॥ ३।५२।५ ॥
अयमिति । अयं विहङ्गमो जटायुः मां त्रातुं पापचारेण रावणेनेति शेषः । सङ्गतः युद्धार्थं सङ्गतस्सन् विनिहतः शेत इत्यन्वयः ॥ ३।५२।६ ॥
त्राहीति । श्रृण्वतामन्तिके जना यथा समाक्रन्दन्ति तथा समाक्रन्ददिति सम्बन्धः ॥ ३।५२।७ ॥
क्लिष्टानि परिमृदितानि ॥ ३।५२।८ ॥
तान् द्रुमान् वेष्टयन्तीं वेष्टमानां लतामिव द्रुमान् आलिङ्गन्तीं तां जग्राहेत्यन्वयः ॥ ३।५२।९ ॥
जीवितान्तायेत्यनेन परस्त्रीकेशस्पर्शो यस्य कस्यापि जीवितापहारीति बोधितम् ॥ ३।५२।१० ॥
अमर्यादम् अतिक्रान्तनैसर्गिकावस्थानम् । अन्धेन तमसा गाढेन तमसा ॥ ३।५२।११,१२ ॥
परामृष्टामपहृताम् । दिव्येन चक्षुषेत्युत्तरशेषः । तथा च पितामहो ब्रह्मा दिव्येन चक्षुषा आलोच्येति शेषः । कार्यं देवकार्यं कृतमिति व्याजहारेत्यन्वयः ॥ ३।५२।१३ ॥
प्रहृष्टा इति सार्धश्लोकमेकं वाक्यम् । रावणवधरूपकार्यं निष्पन्नमिति प्रहृष्टाः, सीतायास्तात्कालिकीं व्यथां दृष्ट्वा व्यथिताश्चाभवन् ॥ ३।५२।१४,१५ ॥
विद्युत्सौदामिनीति । सुदामा पर्वतविशेषः रत्नादिसहितः । तत्र भवाविद्यदतिस्फुटा भवति तद्वदित्यर्थः ॥ ३।५२।१६,१७ ॥
अभ्यकीर्यन्त रावणं पद्मपत्रादिकं रावणाङ्गे पतितमभूदित्यर्थः ॥ ३।५२।१८ ॥
आतपशब्दः सन्ध्याकालं लक्षयति, तदानीं कनकप्रभम् आदित्यरागेण ताम्रमभ्रमिव बभौ ॥ ३।५२।१९,२० ॥
बभूव जलदमित्यादिश्लोकद्वयमेकं वाक्यम् । तस्याः सीतायाः रावणाङ्कगतं वक्त्रं नीलं जलदं भित्वा उत्थिश्चन्द्र इव बभावित्यन्वयः ॥ ३।५२।२१,२२ ॥
रुदितेन रोदनेन व्यपमृष्टास्त्रमुपमार्जिताश्रुकम् ॥ ३।५२।२३२५ ॥
सेति । पद्मगौरी रक्तपद्मारुणा । तप्तभूषणा तपनीयभूषणा ॥ ३।५२।२६ ॥
तरुप्रवालरक्ता तरुपल्लवारुणा हेमवर्णेति यावत् । तरुप्रवालरत्नेति पाठे प्रवालसदृशरत्ना ॥ ३।५२।२७३५ ॥
उत्पातवाताभिहताः इति पाठः । ऊर्ध्ववाताभिहताः । द्विजगणायुताः पक्षिगणयुक्ताः ॥ ३।५२।३६ ॥
गतोच्छ्वासां मूर्च्छितां सखीमिव गतोच्छ्वासाः सीतादुर्दशादर्शनात् प्राप्तनिश्वासाः नलिन्यः शोचन्ति ॥ ३।५२।३७ ॥
समन्तादिति । रोषात् रावणविषयरोषात् ॥ ३।५२।३८ ॥
जलप्रपातरूपाणि जलप्रवाहरूपाण्यस्त्राणि अश्रूणि मुखेषु येषां ते तथोक्ताः ॥ ३।५२।३९,४० ॥
नास्ति आर्जवं मनोवाक्कायकर्मभिरजिह्नम् । अनृशंसता दया । यत्र यस्मान् ॥ ३।५२।४१,४२ ॥
सुप्रवेपितेत्यादिश्लोकद्वयमेकं वाक्यम् । धरणीतलमवेमाणां रामलक्ष्मणागमनकाङ्क्षयेति भावः ॥ ३।५२।४३,४४ ॥
विप्रमृष्टविशेषकां विशेषकं तिलकम् ॥ ३।५२।४५ ॥
तत इति । शुचिस्मितेति भूतपूर्वगत्या । बन्धुजनेन श्रीरामेण विनाकृता । विवर्णवक्रेत्यनन्तरं बभूवेति शेषः । अत्रालङ्कारवर्णनं देव्या व्यथातिशयप्रदर्शनार्थम् ॥ ३।५२।४६ ॥
इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायामारण्यकाण्डव्याख्यायां द्विपञ्चाशः सर्गः ॥ ३।५२ ॥