०५१ जटायु-रावणयुद्धम्

॥ १,२ ॥

स प्रसिद्धः । सम्प्रहारः सम्प्रहरणम् ॥ ३।५१।३ ॥

माल्यवतोः द्वौ माल्यवन्तौ, एको दण्डकारण्ये, अपरो मेरुपार्श्वे ॥ ३।५१।४ ॥

नालीकैर्नालमात्रशरैः, नाराचैरायसैः । विकर्णिभिः कर्णिशरैः ॥ ३।५१।५ ॥

जग्राह सेहे ॥ ३।५१।६८ ॥

बाणाजिह्नगशब्दौ गुणवचनौ । बाणयन्ति रोषयन्ति शत्रुमिति बाणाः । अजिह्नगा ऋजुगामिनः । शिली शल्यं मुखे येषां ते तथा तैः । निशितैः शाणोल्लिखितैः, अत एव तीक्ष्णैः ॥ ३।५१।९१२ ॥

स जटायुः शरैरावारितः आच्छादितः कुलायं नीडम् ॥ ३।५१।१३,१४ ॥

शरावरं कवचम् । व्याधुनोत् पातयामास ॥ ३।५१।१५ ॥

उरश्छदान् कवचयुक्तान् ॥ ३।५१।१६ ॥

त्रिवेणुः रथावयवविशेषम्, युगन्धर इति यावत् ॥ ३।५१।१७ ॥

ग्राहिभिः छत्रचामरग्राहकैः ॥ ३।५१।१८२२ ॥

समावार्य उपरुध्य ॥ ३।५१।२३,२४ ॥

विषपानम् एतत्सीताहरणरूपविषपानं पिबसि करोषि प्रत्ययो ऽवस्थानमात्रं प्रयोजनम् ओदनपाकं पचतीतिवत् ॥ ३।५१।२५ ॥

अनुबध्यत इत्यनुबन्धं कर्मफलम् ॥ ३।५१।२६ ॥

बद्ध इति । तस्य तस्मात् । पञ्चम्यर्थे षष्ठी । कालपाशात् क्व गतो मोक्ष्यसे । बडिशं मत्स्यबन्धनम् ॥ ३।५१।२७,२८ ॥

भीरुणा त्वया लोकगर्हितं कर्म कृतमिति यथा यतः एषः वीरनिषेवितो मार्गो न किन्तु तस्कराचरितः ॥ ३।५१।२९,३० ॥

परेतकाले मृत्युकाले । प्रतिपद्यते करोति । प्रतिपन्नोसि प्राप्तवानसि ॥ ३।५१।३१३३ ॥

गजारोहो यन्ता दुष्टवारणमधिरूढो यथा स्यात् यादृश व्यापारवान् स्यात् तथा तं व्यदारयत् ॥ ३।५१।३४ ॥

तुण्डं पृष्ठे समर्पयन् तुण्डेन पृष्ठं क्षतवान् ॥ ३।५१।३५३८ ॥

सञ्छिन्नबाहोः कर्तितबाहोरपि तस्य बाहवः पुनः सहसा समभवन् वाल्मीकात्पन्नगा इव ॥ ३।५१।३९४१ ॥

तस्येति । व्यायच्छमानस्य व्यायामं कुर्वतः । “शरीरायासजनकं कर्म व्यायाम उच्यते” इति । युद्धं कुर्वत इत्यर्थः ॥ ३।५१।४२४४ ॥

नीलजीमूतनिकाशकल्पं नीलजीमूतस्य निकाशः प्रकाशः तत्कल्पम्, तत्सदृशप्रकाशमित्यर्थः । अग्निदावम् अग्निश्चासौ दावश्चेत्यग्निदावः तम् । करिकलभवत्सामान्यविशेषयोः सह प्रयोगः ॥ ३।५१।४५,४६ ॥

इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां आरण्यकाण्डव्याख्यायामेकपञ्चाशः सर्गः ॥ ३।५१ ॥