तं शब्दमिति । सुप्तो जटायुः । अवबोधानन्तरं तं शब्दं शुश्राव । जटायो पश्य मामित्यामन्त्रणेन प्रबुद्धः पश्चादुत्तरवाक्यजातं शुश्रावेत्यर्थः ॥ ३।५०।१,२ ॥
पुराणे सनातने धर्मे । सत्यसंश्रयः सत्यावलम्बी ॥ ३।५०।३ ॥
सर्वलोकस्य राजा राम इत्यनेन तवापि राजेति भावः ॥ ३।५०।४ ॥
धर्मपत्नीत्यनेनैतद्धरणे महापापं सूचितम् ॥ ३।५०।५ ॥
रक्षणीया विशेषेण राजदारा इत्यनेन राजदारापहरणस्य गुरुतल्पसमत्वादिति भावः ॥ ३।५०।६ ॥
नीचां निकृष्टाम् । अस्य पुरुषस्य परः यत्कर्म विगर्हयेत् निन्देत् न तत्समाचरेत् । विनर्शनात् परपुरुषसंस्पर्शनात् रक्ष्या इत्यन्वयः । (रक्ष्या विमर्शनात् इति पाठः) ॥ ३।५०।७ ॥
धर्ममर्थं च कामं चेति । शास्त्रेष्वनागतमनवगतं रहस्यरूपतया शास्त्रपर्यालोचनेपि असूक्ष्मदृष्टीनां दुर्बोधनमित्यर्थः । धर्ममर्थं च कामं च शिष्टा राज्ञो ऽन्ये जनाः राजानमनु राजानमनुसृत्य व्यवस्यन्ति कुर्वन्ति । राज्ञः मोक्षधर्मादिज्ञानसम्पत्त्या तादृशं राजानमनुसृत्य भूपोपदिष्टधर्मादिकं शास्त्रे सम्यगस्फुटमपि प्रजा आचरन्तीति भावः । तस्माद्धर्मोपदेशपरस्य राज्ञस्त्वधर्मप्रवृत्तिरनुचितेति तात्पर्यम् । उपसंहरति धर्म इति । हे पौलस्त्यनन्दन तस्माद्धर्मस्समाश्रयणीय इत्यपेक्षितपदाध्याहारेण योजना । “धर्ममर्थं च कामं च शिष्टाः शास्त्रेष्वनागतम् । व्यवस्यन्त्यनु राजानं धर्मः पौलस्त्यनन्दन ॥ " इति पाठः। “धर्ममर्थं च कामं च शिष्टाः शास्त्रेष्वनागतम्। न व्यवस्यन्ति राजानो धर्मः पौलस्त्यनन्दन ॥
" इति पाठे त्वयमर्थः शिष्टाः सद्वृत्तयो राजानः शास्त्रेष्वनागतम् अप्रतिपादितमित्यर्थः । न व्यवस्यन्ति नेच्छन्ति । शास्त्रविरुद्धधर्मार्थकामादिकं नेच्छन्तीत्यर्थः । तस्माद्धर्मः समाश्रयणीय इति योजना ॥ ३।५०।८ ॥
एतदेव प्रपञ्चयति राजा धर्मस्येति । धर्मस्य कामस्य द्रव्याणाम् अर्थरूपपुरुषार्थस्य निधिः स्थानम् यतः अत एव धर्मः पुण्यं पापं शुभं यशः राजमूलं प्रवर्तते । “राजा धर्मश्च कामश्च” इति पाठे अयमर्थः राजैव द्रव्याणामर्थरूपपुरुषार्थस्य निधिः स्थानम् यतः अतः राजा धर्मश्च कामश्च भवति । कुतः? धर्म इति । धर्मादिकं हि राजमूलं प्रवर्तते अतो राजा धर्मश्च कामश्च भवतीति योजना ॥ ३।५०।९ ॥
उक्तराजधर्महीने त्वयि कथमैश्वर्यं स्थितमिति विस्मयो जायत इत्याह पापस्वभाव इति । दुष्कृतिर्विमानं स्वायोग्यं देवयानमिव ॥ ३।५०।१० ॥
ननु दुष्टः समीचीनो वा स्वभावो दुरतिक्रमः, तत्र दुष्टस्वभावानामपि प्राप्तमैश्वर्यं दुर्निवारमेवेत्यत आह कामस्वभाव इति । स्वभावो दुरतिक्रमो ऽस्तु, दुष्टात्मना मालये गृहे आर्यमैश्वर्यं चिरं चिरकालं नावसति न तिष्ठति । अयं भावः सुकृते सत्यैश्वर्यप्राप्तिः, सुकृतं च दुष्टात्मना क्रियमाणं प्रायेण निष्फलं भवति, तवैतत्सम्भावितम् । यद्वा यस्य पुरुषस्य यः कामः स्वभावस्तस्य स स्वभावः परिमार्जितुं न शक्यः । कुतः? हि यस्माद्दुष्टात्मनामालये चित्ते आर्यं पूज्यं पुण्यमिति यावत् । चिरं चिराय नावसति तस्माद् “धर्मेण पापमपनुदति” इति श्रृत्या कामादिस्वभावनिवृत्तिकारणत्वेन बोधितस्य धर्मस्य पापिष्वभावात्पापस्वभावो न शक्यमार्जनः केनापीत्यर्थः ॥ ३।५०।११,१२ ॥
यदीति । अतिवृत्तः उचितमतिक्रम्य जायमानं वृत्तं यस्य स तथा । गमिष्यसीत्यत्र काकुः, न जीवन् गमिष्यसीत्यर्थः ॥ ३।५०।१३,१४ ॥
क्षिप्रमिति । राम इत्यध्याहारः । त्वां दहनभूतेन चक्षुषा मा दहेत् अन्यथा दहेदित्यर्थः ॥ ३।५०।१५,१६ ॥
अनामयं रोगानुत्पादकम् ॥ ३।५०।१७ ॥
यत्कर्म कृत्वा स्थितस्य पुरुषस्य धर्मादिकं न भवति प्रत्युत खेद एव भवेत् तत्कर्म कः समाचरेत् न कोपीत्यर्थः । यद्वा यत्कर्म कृत्वा स्थितस्य पुरुषस्य धर्मादिकं न भवेत् नाशं प्राप्नुयादित्यर्थः । यत्कर्मकरणेन धर्मादिकं नाशं प्राप्नुयादिति यावत् । अपि तु शरीरस्य खेद एव भवेत् तत्कर्म कस्समाचरेत् न कोपीत्यर्थः । कीर्तिर्विक्रमादिजनिता प्रथा । यशः सौजन्यजनिता प्रथेति विवेकः ॥ ३।५०।१८ ॥
षष्टिरिति गतानीति शेषः । पितृपैतामहं पितृपितामहेभ्यः समागतं राज्यं नः दण्डकारण्यमेव, दण्डकारण्ये पक्षिणामधिपतिरहमिति भावः ॥ ३।५०।१९,२० ॥
श्रुतीमित्यत्र दीर्घश्छान्दसः । यथा “न सुरां पिबेत्” इत्यादिकां ध्रुवां नित्यां निरपेक्षलक्षणां श्रुतिम्, सुरा पेया द्रवद्रव्यत्वात् क्षीरवदित्यादिभिः न्यायसंयुक्तैः तर्कसहितैः हेतुभिर्हर्तुं बाधितुं पुमान्न शक्नोति । किन्तु श्रुत्यैव हेतवः कालात्ययोपदिष्टा भवन्ति तथैव हेतुशक्तिसमानमायाबलसम्पन्नस्त्वं श्रुतिसदृशीं सीतां हर्तुं न शक्तः किन्तु तयैव नश्यसीत्यर्थः ॥ ३।५०।२१ ॥
यदि शूरोसि युद्ध्यस्व अथवा मूहूर्तं तिष्ठ, रामागमनपर्यन्तमित्यर्थः ॥ ३।५०।२२ ॥
रामपराक्रमं वर्णयति असकृदिति ॥ ३।५०।२३ ॥
रामः कुत्रास्ते तमानयेत्यत आह किमिति । तावुभावपि नृपात्मजौ दूरं गतौ अत एवाहर्तुमानेतुं किं नु शक्यं कथं शक्यमित्यर्थः । अत एव तयोरागमशङ्कया त्वं तयोस्ताभ्यां भीतः क्षिप्रं नश्यसे अदर्शनाय पलायसे न संशय इत्यर्थः ॥ ३।५०।२४ ॥
तथापि जीवमानस्य जीवतः । नयिष्यसि नेष्यसि ॥ ३।५०।२५ ॥
कुतः अवश्यमिति । स्पष्टो ऽर्थः ॥ ३।५०।२६ ॥
यथाप्राणं यथाशक्ति ॥ ३।५०।२७,२८ ॥
इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां आरण्यकाण्डव्याख्याम् पञ्चाशः सर्गः ॥ ३।५० ॥