०४९ सीतापहरणम्

महापुण्यस्य परमभागवताग्रगण्यस्य श्रीहनुमतोपि रूपान्तरस्वीकरणसमये आग्रहपूर्वकत्वस्य श्रूयमाणत्वेन आग्रहं विना क्रूररूपस्वीकारायोगाद्रावणोपि देवीनिकटे कपटमनुचितमिति मत्वा देव्यै स्वरूपं दर्शयितुं स्वसामर्थ्यप्रशंसापूर्वकं निजरूपं स्वीकरोति । सीताया इत्यारभ्य वसनाभरणोपेतामित्यन्तस्य प्राकृतार्थः स्पष्टः । वास्तवार्थस्तु वीर्यपराक्रमौ वीर्यं समरे अभीरुत्वम्, पराक्रमः पराभिभवनसामर्थ्यम् । उन्मत्तया मत्तजनानुद्गता उन्मत्तभिन्ना तादृशयापि न श्रुतौ । योहमेतादृशविशेषणविशिष्टः तं कामरूपिणं कामदं पतिं रक्षसामिति शेषः । मां पश्येति बभाष इति पूर्वेणान्वयः ॥ ३।४९।१४ ॥

एवमिति । अस्मिन् श्लोके पूर्वश्लोकस्थमुन्मत्त इति पदमाकृष्य श्लोको योजनीयः । तथा सत्येवं योजना । एवमुक्तवतो रावणस्य क्रुद्धस्य उन्मत्ते हरिपर्यन्ते हरिः पिङ्गलवर्णः पर्यन्तयोरुपान्तयोर्ययोस्ते । शिखिप्रभे अग्निसदृशे नेत्रे बभूवतुः ॥ ३।४९।५७ ॥

परिव्राजकच्छद्म मायात्मकं यतिवेषम् ॥ ३।४९।८१० ॥

त्रिषु लोकेषु विख्यातमित्यादिसार्धचतुष्टयश्लोकस्य प्रातीतिकार्थः स्पष्टः । कुलकम् । वस्तुतस्तु भर्तारं शुश्रूषादिना स्वामिनं बिभर्तीति भर्ता, भृत्य इत्यर्थः । पतिः रक्षसामिति शेषः । यद्यहं रक्षसां पतिः तथापि तव सदृशः अनुरूपः किम् ? भृत्य इति शेषः । अनुरूपो भृत्यो न भवामि तथापि भृत्यमिच्छसि यदि त्रिषु लोकेषु विख्यातं यथा तथा भामाश्रय भृत्यत्वेनाङ्गीकुरु । कुतः? चिराय चिरकालादारभ्य तव श्लाध्यः प्रियः प्रीणयति शुश्रूषादिना स्वामिनमिति प्रियो भृत्यः । जयस्यैव रावणरूपेणोत्पन्नत्वात् । अतो मां भृत्य इति भजस्व जानीहीत्यर्थः । अत एव नैवाहमिति । मानुषे भावस्त्यज्यताम्, मनुष्य एव रक्षणीय इत्यभिप्रायस्त्यज्यतामित्यर्थः । किन्तु प्राचीनकृपया मूढे पण्डितमानिन्यपि राक्षसे भृत्ये मयि भावः प्रणीयताम् अयमपि रक्षणीय इत्यनुसन्धीयतामित्यर्थः । किञ्च राज्याच्च्युतं तुच्छीकृत्य राज्यभोगमित्यर्थः । कुतः? असिद्धार्थम् अश्चासौ सिद्धार्थश्च असिद्धार्थस्तम् अवाप्तसमस्तकामं विष्णुमित्यर्थः । परिमितायुषं परिगतं त्यक्तं मितमल्पमायुर्येन तम् अपरिमितायुषमित्यर्थः । किञ्च कैर्गुणैरनिर्वचनीयैर्गुणैरनन्तकल्याणगुणैरित्यर्थः । युक्तमिति शेषः । अनुरक्तासि, कुत एवं दुर्मतिः दुष्टेष्वपि मतिः अनुग्राहिका यस्य सः अत एव हि स्त्रिया वचनात्सुहृज्जनं राज्यं विहाय वने वसति तादृशं त्वमनुरक्तासि यतः अतस्सर्वोत्तमा लक्ष्मीस्त्वम् अत एव मां भृत्यत्वेनाङ्गीकुर्विति तात्पर्यम् ॥ ३।४९।१११५ ॥

इतीति । प्रातीतिकार्थः स्पष्टः । वस्तुतस्तु रावणः अन्यत्र सुदृष्टात्मा काममोहितश्च यद्यपि तथाप्यत्र न तथा अत एव बुधः रोहिणीमिव जग्राह बुधः स्वमातरं यथा पूजार्थं गृह्णाति तथा रावणोपि सीतां जग्राह । स्वगृहे संस्थाप्य स्वेष्टदेवताबुद्ध्या पूजयितुमेवेत्यर्थः ॥ ३।४९।१६ ॥

वामेनेति । मूर्द्धजेषुकरेण मूर्द्धजाः श्रेष्ठाः इषवः यस्मिन् तेन करेण दक्षिणेन वामेन च ऊर्वोः पादयोः परिजग्राह पादौ गृहीत्वा लङ्कां प्रत्यागन्तव्यमिति प्रार्थितवानिति भावः ॥ ३।४९।१७१९ ॥

तत इति स्पष्टोर्थः । वस्तुतस्तु परुषैर्वाक्यैर्यदि मां भृत्यत्वेन नाङ्गीकरोषि तर्हि तवाग्रतः प्राणांस्त्यक्ष्यामीत्यादिवाक्यैर्भर्त्सयन् भीतिमुत्पादयन् रथमारोपयत् ॥ ३।४९।२० ॥

सा गृहीतेत्यादीनां वास्तवार्थे सीतया दैन्यवत्प्रतीयमानानि वाक्यानि सर्वाणि सीतया लौकिकरीतिमनुसृत्योक्तानीति द्रष्टव्यानि ॥ ३।४९।२१२५ ॥

विनीतोसि शिक्षितो ऽसि ॥ ३।४९।२६२९ ॥

इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायाम् आरण्यकाण्डव्याख्यायाम् एकोनपञ्चाशः सर्गः ॥ ३।४९ ॥